विश्वेश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् विश्वेश्वरः सप्तमं ज्योतिर्लिङ्गम् अस्ति । विश्वेश्वरः अस्ति जगत्प्रसिद्धे काशीक्षेत्रे । एतत् भारतस्य अत्यन्तं प्राचीनं तीर्थक्षेत्रम् अस्ति । “काश्यां मरणान्मुक्तिः” इति उक्तिरेव अस्ति । परमपवित्रायाः गङ्गायाः तटे स्थितम् एतत् दिव्यक्षेत्रं भारतीयानां तत्रापि शिवभक्तानां परमं श्रद्धाकेन्द्रम् । काश्याः उल्लेखः वेदेषु, उपनिष्त्सु, रामायणे, महाभारते, पुराणेषु, बौद्ध-जैनसाहित्येषु सर्वत्र अपि अस्ति एव । स्कन्दपुराणस्य काशीखण्डे अस्य नगरस्य महत्त्वं वैभवं च वर्णयन्तः १५,००० श्लोकाः सन्ति । महाभारतानुसारं दिवोदासनामकः राजा इन्द्रस्य इच्छानुसारम् एतत् नगरं निर्मितवान् इति । एतत् नगरं शिवस्य देवसाम्राज्यस्य राजधानी । एतत् सप्तमोक्षदायकेषु नगरेषु अपि अन्यतमम् ।

एतत् काशीनगरं वाराणसी, बनारस्, अविमुक्तकम्, आनन्दकाननम्, महाश्मशानम् इत्यपि वदन्ति । “कास्” इत्युक्ते तेजः, प्रकाशः इति अर्थः । ज्ञानदातॄणां विद्यावतां भूमिः इति कारणात् एतत् नगरं “काशी” इति उक्तम् । वारणा, असी इत्येतयोः द्वयोः नद्योः मध्ये एतत् नगरं स्थितम् अस्ति इति कारणात् “वाराणसी” इति उच्यते । अष्टभ्यः शतकेभ्यः पूर्वम् एतत् नगरं “बनारा” नामकस्य महाराजस्य राजधानी आसीत् । तस्मात् “बनारस्” इति नाम प्राप्तम् । “अवि” इत्युक्ते पापम् इत्यर्थः । देवगङ्गायाः शिवस्य च सान्निध्यं पापं नाशयति अथवा पापात् मोचयति इति कारणात् “अविमुक्तकम्” इति उच्यते । सत्-चित्-आनन्ददातुः शिवस्य एव आनन्ददायकं क्षेत्रम् इति कारणात् “आनन्दकाननम्” इति उच्यते । शिवः श्मशानवासी, शिवस्य वासस्थानं, पञ्चभूतानाम् एकीभवनस्थानं च इति कारणात् “महाश्मशानम्” इति उक्तम् अस्ति । एतदेकं शक्तिपीठम् अपि । सतीदेवी अत्र विशालाक्षीरूपेण स्थिता अस्ति ।

अत्र काश्यां विश्वनाथस्य पदतले प्रवहतः नदीजलस्य रोगनिवारकशक्तिः अस्ति इति । विश्वेश्वरमन्दिरस्य समीपे एव “ज्ञानवापि” नामकः कूपः अस्ति । गङ्गायाः आगमनात् पूर्वम् अस्य एव कूपस्य जलेन शिवस्य अर्चनं क्रियते स्म । तदर्थमेव “जटिल”नमकः ऋषिः अस्य कूपस्य खननं कारितवान् इति । विधर्मीयाणाम् आक्रमणावसरे सर्वदा विश्वनाथस्य मूललिङ्गम् अस्मिन् कूपे एव गोपयन्ति स्म । तस्मादेव कारणात् यद्यपि काश्याः उपरि नैकवारम् आक्रमणं सञ्जातं तथापि शिवलिङ्गम् अद्यापि अभग्नम् एव अस्ति । अत्र काश्यां विश्वेश्वररः एव चक्रवर्ती, हरेश्वरः मन्त्री, ब्रह्मेश्वरः कथावाचकः, भैरवेश्वरः नगरक्षकः, तारकेश्वरः धनाधिपतिः, तत्र विद्यमानानि सहस्रशः शिवलिङ्गानि एव प्रजापालकाः । अतः काश्यां यत्किमपि लिङ्गम् अर्चन्ति चेदपि तत् विश्वनाथस्य एव अर्चनं भवति । विश्वेश्वरमन्दिरस्य पार्श्वे एव अक्षयवटवृक्षः अस्ति । तं वृक्षं परितः प्राचिनमन्दिराणाम् अवशेषाः सन्ति । काश्यां विद्यमनां चक्रपुष्करिणीम् “आदितीर्थम्” इति वदन्ति । एतत् तीर्थं श्रीहरेः चक्रेण निर्मितम् इति । एतत् विष्णोः तपोभूमिः । कदाचित् शिवः पार्वत्या सह विष्णोः मेलनार्थम् अत्र आगतः । तदा अत्रत्यां चक्रपुष्करिण्याः दर्शनेन सन्तुष्टः सः नृत्यम् अकरोत् । तदवसरे तस्य कर्णाभरणम् पुष्करिण्यां पतितम् । तदारभ्य तस्याः पुष्करिण्याः नाम् “मणिकर्णिका” इति जातम् । मणिकर्णिकाघट्टे विद्यमाने श्मशाने एव सत्यवान् हरिश्चन्द्रः श्मशानवासी आसीत् ।


काश्याम् इदानीं विद्यमानं मन्दिरं महाराज्ञी अहल्याबाई होळ्कर १७६६तमे वर्षे निरमापयत् । विश्वेश्वरः तस्याः स्वप्ने आगत्य मन्दिरनिर्माणं कारयितुम् अवदत् इति । पञ्जाबकेसरी इति प्रसिद्धः महाराजः रणजित् सिङ्गः अस्य मन्दिरस्य स्वर्णगोपुरं निर्मितवान् । माकिं २२५ के.जि.मितेन सुवर्णेन १८ मीटर् उन्नतं लोहपत्रं निर्माय गोपुरस्य आच्छादनं कृतम् । प्राचीनमन्दिरं प्रति मुखं कृत्वा स्थितः नन्दी ७ पादमितः उन्नतः अस्ति । नेपालस्य नरेशः तं विश्वेश्वराय अर्पितवान् इति ।

विश्वनाथमन्दिरं परितः अनेकाः देवालयाः सन्ति । प्रतिपदम् अपि देवालयाः सन्ति इति कारणात् एतत् नगरं “मन्दिराणां नगरम्” इत्येव उच्यते । दुर्गायाः, शनेः, गणेशस्य च मन्दिराणि तेषु प्रमुखाणि । काशीयत्रां समाप्य प्रतिगमनावसरे एतं गणेशमन्दिरं गत्वा गणेशं सूचयित्वा गन्तव्यम् इति नियमः अस्ति अत्र । तुलसीमानसमन्दिरम् अत्रत्यम् अन्यदेकं प्रसिद्धं मन्दिरम् । एतत् मन्दिरं पूर्णतया अमृतशिलया निर्मितम् अस्ति । अत्र तुलसीदासस्य मूर्तिः अस्ति । भित्तिषु तुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । अस्मिन् मन्दिरे विशालं सभाङ्गणम् अस्ति । मुख्यवेदिकायाः एकस्मिन् पार्श्वे अन्नपूर्णायाः अपरस्मिन् पार्श्वे च विश्वनाथस्य, लक्ष्मीनारायणयोः च, मध्ये सीतायाः, रामस्य, लक्ष्मणस्य, आञ्जनेयस्य च प्रतिष्ठापनं कृतम् अस्ति । एताः सर्वाः अपि अमृतशिलया निर्मिताः मूर्तयः । अस्य मन्दिरस्य पृष्ठभागे तपोवनम् अस्ति । तत्र तुलसीरामायणस्य समग्रदर्शनं भवति ।

काश्यां विद्यमानं बिर्लामन्दिरम् अपि भव्यं मन्दिरम् । एतत् शिवमन्दिरं दूरतः एव सर्वान् आकर्षति । अस्य मन्दिरस्य कल्पना योजना च पण्डितस्य मदनमोहनमालवीयस्य । निर्मातारः प्रसिद्धाः बिर्लाकुटुम्बस्य जनाः । व्यासकाशी, अन्नपूर्णेश्वरीमन्दिरं, काशीप्रासादः, गङ्गातीरस्य स्नानघट्टाः, असी-गङ्गयोः सङ्गमस्थानं, तत्रत्यं सूर्यमन्दिरं (लोलार्कम्), वारणा-गङ्गानद्योः मेलनस्थानं, तत्रत्यं केशवमन्दिरं, किरण-धूतपाप-गङ्गा-यमुना-सरस्वती-नदीनां मेलनस्थानं (पञ्चगङ्गाघट्टः), ब्रह्मणः अश्वमेधयागस्थानं (दशाश्वमेधघट्टः),१७९३तमे वर्षे निर्मितं क्वीन्स् कालेज, नागकुण्डतीर्थं, गोरखनाथमन्दिरं, वेदशाला, राममन्दिरं, १९३६तमे वर्षे निर्मितं भारतमातामन्दिरम् इत्यादीनि असंख्यानि दर्शनयोग्यानि स्थानानि सन्ति अत्र । काश्यां विश्वेश्वरमन्दिरम् इव प्रसिद्धम् अपरं स्थानं बनारस्-हिन्दु-विश्वविद्यालयः । प्राचीनं गुरुकुलम् इव निर्मितः अस्ति अयं विश्वविद्यालयः । ११०० एकरे यावत् व्याप्तः अस्ति अयम् ।

काश्याः इतिहासः अपि भव्यः दिव्यः च । दिवोदासः, प्रतर्दनः, अलर्कः इत्यादयः प्रसुद्धाः पण्डववंशजाः राजानः काश्याः शासनम् अकुर्वन् । दशरथस्य अश्वमेधयागं प्रति काश्याः राज्ञः अपि आह्वानम् आसीत् इति वाल्मीकिः उल्लिखति । सीताशोधार्थं प्रस्थितवत्सु कपिषु “विनत”नामकः कपिः अत्र आगतवान् आसीत् । महाभारते अपि काश्याः राजा पाण्डवपक्षे स्थित्वा युद्धम् अकरोत् । भगवतः बुद्धस्य चरणस्पर्शेन अपि पुनीता जाता अस्ति काशी । बुद्धस्य प्रथमं प्रवचनम् अपि काशीतः १० कि.मी. दूरे विद्यमाने सारानाथनामके प्रदेशे अभवत् । जैनानां २३तमः तीर्थङ्करः पार्श्वनाथः जन्म प्राप्नोत् काश्याम् एव । तस्य पिता अश्वसेनः काश्याः राजा आसीत् । ११तमः तीर्थङ्करः श्रेयांसनाथः सारानाथे जन्म प्राप्नोत् । अतः काशी बौद्धानां जैनानां चापि पवित्रं क्षेत्रम् एव । भगवान् वेदव्यासः, योगी जैगिषव्यः च काशीद्वारा एव जगते ज्ञानप्रकाशं प्रयच्छताम् । अत्रैव भगवान् शङ्कराचार्यः पण्डित्यपूर्णं शास्त्रार्थं प्रचाल्य सर्वज्ञपीठम् आरोहत् । स्वामिवल्ल्भाचार्यस्य पितृभूमिः अपि काशी एव । ब्रह्मचारी दयानन्दसरस्वाती अपि अत्रैव वादेन विदुषां मनः आकर्षत् । चैतन्य महाप्रभुः अपि दीर्घकालं यावत् काश्याम् आसीत् । कबीरस्य गुरोः रामानन्दस्य वासस्थानं तपस्स्थानं च आसीत् काशी । तुलसीदासः “रामचरितमानसम्” अरचयत् अत्रैव । १६-१७ शतकस्य संस्कृतकविः जगन्नाथः अपि अत्रत्यः एव । गङ्गायाः बिब्बोकेन आकृष्टः सः संस्कृतेन ५३ पद्यानां “गङ्गालहरी” अथवा “पीयूषलहरी” नामकं खण्डकाव्यमेव अरचयत् । अर्वाचीनकाले अपि काशी महामनामालवीयस्य, डा.अनिबेसेण्टायाः, चन्द्रशेखर आजादस्य, राजेन्द्रलाहिरेः, सुशीललाहिरेः, सन्याल्-सहोदराणां, ब्यानर्जिसहोदराणाम् इत्यादीनां समाजसुधारकाणां, क्रान्तिकारिणां च जन्मभूमिः लीलाभूमिः च । गार्गी, मैत्रेयी, अजातशत्रुः, शतानिकः, विश्वामित्रः इत्यादीनां तत्त्वज्ञानिनां, राजर्षिणां, ब्रह्मर्षिणां च पादस्पर्शेण पुनीता काशी भारतस्य हृदयम् इव ।

काश्याः उपरि मतान्धैः म्लेच्छैः नैकवारम् आक्रमणं कृतम् । क्रि.श. १०३३तमे वर्षे घज्निमहम्मदः काश्यां विद्यमानानि सर्वाणि मन्दिराणि अनाशयत् । ११९४तमे वर्षे घोरिमहम्मदः कुतुबुद्दीन् ऐबकेन सह काश्याः उपरि आक्रमणम् अकरोत् । एतौ मन्दिराणि नाशयित्वा तेषां स्थाने मस्जिद् (यवनानां प्रर्थनामन्दिरम्) निर्मितवन्तौ । तदवसरे स्वर्ण-रजतयोः पर्वतः एव सङ्गृहीतः इव । तौ अत्रत्यां समग्रां सम्पत्तिं १४०० उष्ट्राणाम् उपरि आरोप्य अनयताम् । १४५८तमे वर्षे महम्मद शा आक्रमणं कृत्वा “पद्मेश्वरमन्दिरं” नाशयित्वा तस्य अवशेषैः एव मस्जिद् निर्मितवान् । तदिदानीं “लालदरवाजामस्जिद्” इति वदन्ति । १४९४ तमे आगतः सिकन्दरलोदिः समग्रं काशीनगरम् अग्निसात् कृतवान् । विश्वेश्वरमन्दिरम् अपि अनाशयत् सः । न केवलं तावद् अपि तु मूलस्थाने वा अन्यत्र वा विश्वनाथमन्दिरं पुनः न निर्मातव्यम् इति निषेधम् अपि अकरोत् । रामभक्तं कबीरं शिलया सह बद्ध्वा जले निमज्जनम् अकारयत् । तथापि कबीरः ततः सजीवः बहिरागतः । ७० वर्षाणाम् अनन्तरं वेदब्रह्मनारायणभट्टस्य, काश्याः जनानां च महता प्रयत्नेन १५६९तमे वर्षे निषेधाज्ञा अपगता, पुनरपि भव्यं मन्दिरं निर्मितम् । तदनन्तरं १६६९ तमे वर्षे हिन्दुद्वेषी औरङ्गजेबः विश्वनाथमन्दिरेण सह वेणीमाधवमन्दिरं, बिन्दुमाधवमन्दिरं, राममन्दिरं, आशोकस्मारकम् इत्यादीनि बहूनि मन्दिराणि अनाशयत् । तदा काश्याः प्रतिविस्तरणम् एका संस्कृतपाठशाला आसीत् । सः एकया एव आज्ञया तासां सर्वासां पिधानम् अकारयत् । सः अस्य नगरस्य नाम एव “महम्मदाबाद्” इति परिवर्तितवान् । अत्र आगन्तृणां हिन्दुयात्रिकाणां कृते “जेसिया” नामकं करं विहितवान् ।



"https://sa.wikipedia.org/w/index.php?title=विश्वेश्वरः&oldid=434384" इत्यस्माद् प्रतिप्राप्तम्