पार्श्वनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पार्श्वनाथः
त्रयोविंशतितमः जैनतीर्थङ्करः
पार्श्वनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता अश्वसेनः
माता वामादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म वाराणसी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः नीलः
चिह्नम् सर्पः
औन्नत्यम् १० हस्तमात्रात्मकम्
आयुः १०० वर्षाणि
शासकदेवः
यक्षः पार्श्व
यक्षिणी पद्मावती
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

पार्श्वनाथः ( /ˈpɑːrʃvənɑːθəhə/) (हिन्दी: पार्श्वनाथ,आङ्ग्ल: Parshvanath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु त्रयोविंशतितमः तीर्थङ्करः अस्ति । भगवतः पार्श्वनाथस्य वर्णः नीलः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सर्पः अस्ति । भगवान् पार्श्वनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् ।

कौमारावस्थायां पार्श्वनाथस्य शरीरस्य औन्नत्यं नव (९) हस्तमात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “पार्श्व” इत्याख्यः यक्षः, “पद्मावती” इत्याख्या यक्षिणी च आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

देवलोकस्य आयुष्यं पूर्णं कृत्वा भरतक्षेत्रस्य वाराणसी-नगर्यां मार्गशीर्ष-मासस्य कृष्णपक्षस्य दशम्यां तिथौ विशाखा-नक्षत्रे मध्यरात्रौ भगवतः पार्श्वनाथस्य जन्म अभवत् [२]

पार्श्वनाथस्य पितुः नाम अश्वसेनः, मातुः नाम वामादेवी च आसीत् । अश्वसेनः वाराणसी-नगर्याः राजा आसीत् । अश्वसेनः एकः श्रेष्ठः राजा आसीत् । तस्य शासनकाले जनाः आनन्देन जीवन्ति स्म । एकदा फाल्गुन-मासस्य कृष्णपक्षस्य चतुर्थ्यां तिथौ विशाखा-नक्षत्रे रात्रौ अर्धसुषुप्तावस्थायां वामादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । अश्वसेनः, वामादेवी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा वामादेवी प्रसन्ना जाता ।

राजा अश्वसेनः आगामिदिवसे स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तं यत् – “एते स्वप्नाः असाधारणाः सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति स्वप्नैः ज्ञायते" । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं प्रदत्तम् । बालकस्य जन्मनः सर्वे प्रतीक्षां कुर्वन्तः आसन् ।

नवमासानन्तरं भगवतः पार्श्वनाथस्य जन्म अभवत् । प्रसवसमये काचिदपि पीडा न जाता । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । इन्द्रादिभिः देवैः पार्श्वनाथस्य जन्मोत्सवः आचरितः ।

यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । सर्वप्रथमं तु अश्वसेनः कारागारात् सर्वेभ्यः बन्दीभ्यः मुक्तिम् अददात् । उत्सवे राजा जनेभ्यः दानं यच्छति स्म । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्म[सम्पादयतु]

भगवतः पार्श्वनाथस्य जीवनं दशभवात्मकम् आसीत् । तेषां भवानां वर्णनम् अधः प्रदत्तम् अस्ति ।

प्रथमः, द्वितीयः च भवः[सम्पादयतु]

पोतनपुर-नगरस्य राजा अरविन्दः आसीत् । तस्य रतिसुन्दरी-नामिका पत्नी आसीत् । राज्ये विश्वभूतिः नामकः कश्चनः पुरोहितः अपि आसीत् । तस्य पत्नी अनुद्धरा आसीत् । पुरोहितस्य कमठः, मरुभूतिः इत्येतौ द्वौ पुत्रौ आस्ताम् । कमठस्य प्रकृतिः, स्वभावश्च कुटिलः आसीत् । किन्तु मरुभूतेः प्रकृतिः, स्वभावश्च भद्रः आसीत् । मरुभूतिः एव पार्श्वनाथस्य जीवः आसीत् । कमठस्य पत्न्याः नाम वरुणा, मरुभूतेः पत्न्याः नाम वसुन्धरा च आसीत् ।

पुरोहितेन विश्वभूतिना परिवारस्य दायित्वं प्रदत्तम् । अनन्तरं विश्वभूतिः दीक्षाम् अङ्गीकृतवान् । मरुभूतिः अपि हरिशचन्द्राचार्यात् श्रावकपदं प्राप्तवान् । मरुभूतेः पत्नी वसुन्धरा रूपवती आसीत् । अतः कमठः वसुन्धरायां मुग्धः जातः । कमठः महत्प्रयासेन प्रेमिकास्वरूपेण वसुन्धरां प्राप्तवान् । एकदा कमठः, वसुन्धरा च व्यभिचारं कुर्वन्तौ आस्ताम्, तदा मरुभूतिना राज्ञे तयोः आक्षेपः कृतः । राज्ञा कमठः आहूतः । तदनन्तरं राजा कमठस्य गर्दभयानेन नगरयात्राम् अकारयत् । ततः परं राज्ञा कमठः नगरात् निष्कासितः [३]

अनेन अपमानेन कमठः तपस्यां कुर्वन् आसीत् । समयान्तरे सः उग्रतपस्वी इति नाम्ना विख्यातिं सम्प्रातत् । एकदा मरुभूतिः क्षमां याचितुं कमठस्य आश्रमं प्राप्तवान् । मरुभूतिं दृष्ट्वा एव कमठः क्रुद्धः जातः । कमठः एकां बृहत्शीलां क्षिप्त्वा मरुभूतिं जघान । शीलायाः घातेन मरुभूतेः मृत्युः अभवत् । अनन्तरं द्वितीये भवे सः विन्ध्यगिरौ करिणीनां युथपतिः अभवत् । कमठस्य पत्नी वरुणा अपि पत्युः कुकर्मभ्यः ग्रस्ता आसीत् । शोकात् वरुणायाः अपि मृत्युः जातः । सा अपि विन्ध्यगिरौ एव युथपतेः प्रियतमा करिणी अभवत् ।

तृतीयः भवः[सम्पादयतु]

पोतनपुर-नगरस्य राजा अरविन्दः स्वस्य पुत्रस्य महेन्द्रस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दात्यित्वं प्रादात् । अनन्तरं सः दीक्षाम् अङ्गीकृतवान् । दीक्षानन्तरं सः विचरन् विन्ध्यवनं प्राप्तवान् । तत्रैव सः साधनां कर्तुम् उपविष्टः आसीत् । तस्मिन् समये सः गजः स्वस्य करिणीभिः सह सरोवरे जलक्रीडां कर्तुं ततः निर्गतः । अज्ञातमुनिं दृष्ट्वा गजः मुनेः समीपं प्रहारं कर्तुं गतः । किन्तु समीपं गत्वा मुनेः तेजसः गजः स्तब्धः जातः ।

स्वस्य अवधिज्ञानेन मुनिः गजम् अवबोधितवान् । गजस्य समीपे एका करिणी आसीत् । सा पूर्वजन्मनि कमठस्य पत्नी वरुणा आसीत् । जातिस्मरणात् परं गजः श्रावकः अभवत् । सः शुष्कतृणाणि, पत्राणि च खादति स्म । शुष्काहारेण गजस्य शरीरं दुर्बलं जातम् आसीत् ।

एकदा गजः जलं पातुं सरोवरं प्रत्यगच्छत् । सः तत्र महापङ्के (दलदल) मज्जितः । महत्प्रयासेभ्यः परम् अपि सः निष्फलः जातः । तत्र कुक्कुट-नामकः सर्पः समागतवान् । सः सर्पः गजं दंशितवान् । पूर्वजन्मनि अयं सर्पः कमठः आसीत् । पूर्वजन्मनि कमठेन स्वस्य भ्रातुः हत्या कृता आसीत् । अतः आश्रमजनैः कमठः निष्कासितः । अनन्तरं कमठस्य मृत्युः जातः । अस्मिन्जन्मनि कमठः कुक्कुट-सर्पः अभवत् । विषयुक्तेन दंशनेन गजस्य मृत्युः अभवत् । गजः अष्टमे सहस्रारनामके देवलोके महर्धिकः देवः अभवत् । सा करिणी (वरुणायाः जीवः) अपि मृत्योः अनन्तरं द्वितीये देवलोके देवी अभवत् । कमठस्य जीवः मृत्योः अनन्तरं पञ्चमे नरके नैरयिकः अभवत् [४]

चतुर्थः, पञ्चमः च भवः[सम्पादयतु]

पूर्वविदेहस्य सुकच्छविजये तिलका-नामिका नगरी आसीत् । तस्यां नगर्यां विद्युतवेगः विद्याधरः राजा आसीत् । कनकतिलका-नामिका तस्याः पत्नी आसीत् । पार्श्वनाथस्य जीवः कनकतिलकायाः गर्भं पुत्रस्वरूपेण प्राविशत् । तस्य नाम किरणवेगः कृतम् आसीत् । यौवने प्राप्ते सति पद्मावती इत्यादिभिः राजकन्याभिः सह किरणवेगस्य विवाहः अभवत् । किरणवेगस्य विवाहानन्तरं विद्युतवेगः दीक्षितः जातः । पितुः दीक्षानन्तरं किरणवेगः नगर्याः राजा अभवत् । किरणवेगस्य पुत्रः किरणतेजः अभवत् । समयान्तरे किरणवेगः अपि किरणतेजस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं दत्तवान् । अनन्तरं किरणवेगेन अपि दीक्षा अङ्गीकृता ।

एकदा मुनिः किरणवेगः हिमगिरिपर्वतस्य गुहायां ध्यानस्थः आसीत् । पूर्वजन्मनः कुक्कुटसर्पः अस्मिन् जन्मनि अजगरस्वरूपेण हिमगिरिपर्वतक्षेत्रे समुद्भूतः । गुहायां ध्यानस्थं किरणवेगमुनिं दृष्ट्वा अजगरः पूर्वजन्मनः वैरं स्मृतवान् । सः अजगरः तं मुनिं ग्रसितवान् । मुनिः किरणवेगः अच्युत-नामके द्वादशे स्वर्गे देवः अभवत् । अजगरः अपि मृत्योः अनन्तरं प्रभा-नामकं षष्ठं नरकं गतः [५]

षष्ठः, सप्तमः च भवः[सम्पादयतु]

जम्बूद्वीपस्य पश्चिममहाविदेहस्य सुकच्छविजये अश्वपुर-नामकं नगरम् आसीत् । तस्य नगरस्य राजा वज्रवीर्यः आसीत् । तस्याः पत्न्याः नाम लक्ष्मीवती इति । किरणवेगमुनेः जीवः लक्ष्मीवत्याः गर्भं पुत्रस्वरूपेण प्रविष्टः । तस्य नाम वज्रनाभः इति कृतम् आसीत् । युवावस्थां प्रविष्टे सति वज्रनाभस्य विवाहः कारितः । अनन्तरं सः राजा अभवत् । वज्रनाभस्य पुत्रः चक्रायुधः अभवत् । समयान्तरे वज्रनाभेन चक्रायुधस्य राज्याभिषेकं कृत्वा तस्मै राज्यं प्रदत्तम् आसीत् । अनन्तरं स्वयं क्षेमकरमुनेः दीक्षाम् अङ्गीकृतवान् ।

अस्मिन् जन्मनि अजगरः ज्वलनगिरेः सघनवने भीलज्ञातौ कुरङ्ग-नामके मनुष्यस्वरूपेण अभवत् । कुरङ्गः अत्यन्तं क्रूरः प्राणी आसीत् । वन्यप्राणिभिः सह अपि तस्य व्यवहारः क्रूरः एव आसीत् । एकदा वज्रनाभमुनिः विचरन् ज्वलनगिरिवनं प्राप्तवान् । सः तत्र साधनां कर्तुम् उपविष्टः आसीत् । वज्रनाभमुनिं दृष्ट्वा कुरङ्गस्य मनसि वैरभावना जागृता । अतः कुरङ्गेन बाणेन वज्रनाभमुनिः हतः । मुनिः वज्रनाभः मृत्योः अनन्तर ग्रैवेयके अहमिन्द्रः अभवत् । क्रूरः कुरङ्गः सप्तमे नरके नैरयिकः जातः [६]

अष्टमः, नवमः च भवः[सम्पादयतु]

जम्बूद्वीपस्य पूर्वविदेहे पुराणपुरनामकं किञ्चन नगरम् आसीत् । तस्य नगरस्य राजा कुलिसबाहुः आसीत् । सुदर्शना-नामिका तस्य पत्नी आसीत् । एकदा सुदर्शना रात्रौ चतुर्दशस्वप्नान् दृष्टवती । तया कुलिसबाहवे ते स्वप्नाः श्राविताः । अनन्तरं ताभ्यां रात्रिजागरणं कृतम् ।

गर्भकालस्य समाप्त्यनन्तरं पुत्रस्य जन्म अभवत् । राजा अतीव प्रसन्नः आसीत् । अतः तेन राज्ये पुत्रोत्सवस्य घोषणा कृता । सर्वैः पुत्रोत्सवः आचरितः । तस्य नाम स्वर्णबाहुः कृतम् । समयान्तरे स्वर्णबाहुः यौवनं प्राविशत् । अतः कुलिसबाहुः स्वर्णबाहवे आदेशं प्रदत्तवान् यत् – “साम्प्रतं भवता प्रशासनस्य अनुभवः अपि करणीयः” । पितुः आदेशं स्वीकृत्य स्वर्णबाहुः प्रतिदिनं राजकार्येषु समयं यापयति स्म ।

एकदा स्वर्णबाहुः अश्वम् आरुह्य अटितुं गतः । किन्तु अश्वः नियन्त्रणहीनः अभवत् । सः स्वर्णबाहुं वनं प्रति नीतवान् । गाल्वर्षेः आश्रमस्य समीपे सः अश्वः स्तब्धः । स्वर्णबाहुः तत्र विचरन् आसीत् । तेन आश्रमस्य समीपे एकस्मिन् उद्याने क्रीडाकर्त्र्यः बह्व्यः कन्याः दृष्टाः । तासु कन्यासु एका कन्या विशिष्टा आसीत् । सा स्वरूपवती, लावण्यमयी च आसीत् । तस्य नाम पद्मा आसीत् । पद्मां दृष्ट्वा स्वर्णबाहुः आसक्तो जातः ।

चन्दनलेपितं, सुगन्धितद्रव्यलेपितं च कन्यायाः ललाटम् आसीत् । सुगन्धिना भ्रमराणां समूहः कन्यायाः मस्तकोपरि भ्रमन् आसीत् । पद्मा भ्रमरैः त्रस्ता, भीता च जाता । स्वर्णबाहु सर्वं पश्यन् आसीत् । अवसरं प्राप्य सः पद्मायाः साहाय्यार्थं समीपं गतः । स्वर्णबाहुना भ्रमराः दूरीकृताः । सर्वाः कन्याः स्वर्णबाहो आकृष्टाः अभवन् । कन्याभिः स्वर्णबाहोः परिचयः पृष्टः । स्वर्णबाहुना स्वस्य परिचयः प्रदत्तः । परिचयं श्रुत्वा सर्वे प्रफुल्लिताः जाताः । एकया कन्यया उक्तं यत् – हे राजकुमार ! वयं धन्याः स्मः । अद्यैव प्रातःकाले गाल्वर्षिः उक्तवान् आसीत् यत् – “पद्मा भाग्यवती अस्ति । अद्य स्वर्णबाहुः नामकः राजकुमारः आगत्य पद्मायाः पतिः भविष्यति । स्वर्णबाहुः साधारणः नास्ति । सः चक्रवर्ती सम्राट् भविष्यति” ।

पद्मा खेचरेन्द्र-नामकस्य राज्ञः पुत्री आसीत् । तस्याः माता रत्नावलिः आसीत् । अन्याः कन्याः पद्मायाः सख्यः आसन् । राज्ञः खेचरेन्द्रस्य मृत्योः अनन्तरं रत्नावलिः, पद्मा च आश्रमे एव निवसति स्म । आश्रमे पद्मायाः रक्षा भवेत् । अतः ते गाल्वर्षेः आश्रमे निवसतः स्म । किञ्चित् क्षणानन्तरं तत्र राज्ञी रत्नावलिः, गाल्वर्षिः च अपि समागताः । रत्नावल्या आग्रहपूर्वकं स्वर्णबाहोः पद्मया सह गान्धर्वविवाहः कारितः ।

स्वर्णबाहुम् अन्वेष्टुं सैनिकाः वनं प्राप्तवन्तः । सपत्निकं कुमारं दृष्ट्वा सर्वे सैनिकाः आश्चर्यचकिताः अभवन् । अनन्तरं स्वर्णबाहुः पत्न्या सह स्वराज्यं प्राप्तवान् । राजा कुलिसबाहुः अपि तं सपत्निकं दृष्ट्वा प्रसन्नः जातः । कुलिसबाहुना नगरे पुत्रस्य विवाहोत्सवस्य आयोजनं कृतम् । विवाहोत्सवेन सह स्वर्णबाहोः राज्याभिषेकस्य अपि आयोजनं कृतम् । कुलिसबाहुना स्वर्णबाहवे राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं कुलिसबाहुः साधनां कर्तुं दीक्षाम् अङ्गीकृतवान् ।

समयान्तरे स्वर्णबाहोः आयुधशालायां चक्ररत्नं समुद्भूतम् । तेन चक्ररत्नेन स्वर्णबाहुना सर्वे देशाः जिताः । सः सार्वभौमः चक्रवर्ती सम्राट् अभवत् । स्वर्णबाहुः दीर्घकालं यावत् राज्यस्य सञ्चालनं कृतवान् । एकदा स्वर्णबाहुः तीर्थङ्करजगन्नाथस्य दर्शनार्थं गतवान् आसीत् । तस्मिन् दिवसे तस्मै जातेः स्मरणज्ञानम् अभवत् । तेन स्वस्य पूर्वभवाः दृष्टाः । अतः सः विरक्तो जातः । स्वर्णबाहुना स्वस्य पुत्रस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् । स्वयं दीक्षां प्राप्य साधनायां लीनः अभवत् । उग्रतपस्यया, साधनया च तेन महत्कर्मनिर्जरां कृत्वा तीर्थङ्करगोत्रस्य बन्धनं कृतम् ।

एकदा सः वने कायोत्सर्गं कुर्वन् आसीत् । तत्र एकः सिंहः आगतः । सः सिंहः कुरङ्गस्य जीवः आसीत् । कुरङ्गस्य जीवः सर्वासु योनिषु विचरन् सिंहयोनौ अवतीर्णः । मुनिं दृष्ट्वा सिंहः पूर्वभवस्य वैरोद्धारं स्मृतवान् । स्वस्य अन्तसमयं ज्ञात्वा मुनिः अनशनं चकार । सिंहेन मुनिः हतः । मुनेः जीवः महाप्रभनामके विमाने महर्द्धिकदेवः अभवत् [७]

नामकरणम्[सम्पादयतु]

भगवतः पार्श्वनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं राज्ञा अश्वसेनेन नामकरणसंस्कारस्य विधिः आयोजितः । नामकरणविधौ बालकस्य नामकरणं क्रियते । नामकरणस्य दिवसे अश्वसेनः प्रीतिभोजनस्य अपि आयोजनं कृतवान् आसीत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकदेवाः चापि उत्सवम् आचरितवन्तः आसीत् । उत्सवे देवानाम् उपस्थितिः आवश्यकी वर्तते । नामकरणोत्सवे नगरस्य प्रतिष्ठितजनाः अपि आमन्त्रिताः आसन् ।

राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । वामादेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरः आसीत् । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् । सर्वेषां मतानि श्रुत्वा राजा स्वविचारम् उक्तवान् आसीत् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “यदा अयं बालकः गर्भस्थः आसीत् तदा अहं राज्ञ्या सह उपवनं गतवान् आसम् । तदा राज्ञी अन्धकारे एकं कृष्णसर्पम् अपश्यत् । सः सर्पः राज्ञ्याः पार्श्वं (समीपं) आगछन् आसीत् । अतः राज्ञी माम् अन्यत्र नीतवती । मन्ये सः गर्भस्थस्य जीवस्य एव प्रभावः वतते ।

अतः अस्य बालकस्य नाम पार्श्वकुमारः इति करणीयम् इति । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव पार्श्वनाथः इति नाम्ना ख्यातः अस्ति [८]

विवाहः[सम्पादयतु]

समयान्तरे पार्श्वकुमारः तरुणावस्थायां प्राविशत् । पार्श्वकुमारस्य सौन्दर्यम् अपि वर्धमानम् आसीत् । सर्वत्र तस्य सौन्दर्यस्य प्रशंसा भवन्ती आसीत् । तस्मिन् समये कुशस्थलपुरनगरम् आसीत् । तस्य नगरस्य राजा प्रसेनजित् आसीत् । प्रभावती नामिका तस्य एका पुत्री आसीत् । प्रभावती अपि पार्श्वकुमारस्य सौन्दर्यस्य चर्चां श्रुतवती । प्रशंसां श्रुत्वा सा अपि पार्श्वकुमारे आकृष्टा जाता । तया मनसि एव प्रतिज्ञा कृता यत् – “अस्मिन् जन्मनि पार्श्वकुमारः एव मे पतिः भवितव्यः । पार्श्वकुमारं विहाय जगतः सर्वे युवकाः मे भ्रातृसदृशाः सन्ति” । प्रभावत्याः पितरौ अपि प्रतिज्ञां श्रुत्वा प्रसन्नौ अभवताम् ।

प्रसेनजित् विवाहस्य सन्देशं प्रेषितुम् ऐच्छत् । तेषु दिवसेषु कलिङ्गराज्यस्य यवनः इत्याख्यः युवनरेशः प्रभावत्याः सौन्दर्यस्य प्रशंसां श्रुतवान् । अतः सः तया सह विवाहं कर्तुम् ऐच्छत् । किन्तु यदा यवनेन प्रभावत्याः प्रतिज्ञा श्रुता, तदा सः क्रुद्धः जातः । सः त्वरितमेव कुशस्थलपुरस्य प्रसेनजिते युद्धस्य सन्देशं प्रेषितवान् । सन्देशे यवनेन उक्तं यत् – “प्रभावतीं ददातु वा युद्धं करोतु” इति ।

प्रसेनजित् चिन्ताग्रस्तः आसीत् । अतः तेन अश्वसेनाय सन्देशः प्रेषितः । कन्यायाः इच्छाविहीनः विवाहः भवितुम् अशक्यः । अतः प्रसेनजित् अश्वसेनात् साहाय्यम् अयाचत । सन्देशं प्राप्य अश्वसेनः अपि क्रुद्धः जातः । अश्वसेनः स्वस्य सेनया सह युद्धं कर्तुं सज्जः अभवत् । तदा पार्श्वकुमारः आगत्य युद्धं कर्तुं पितुः आज्ञां स्वीकृतवान् ।

इन्द्रेण पार्श्वकुमाराय युद्धं कर्तुं शस्त्रैः सुसज्जः एकः रथः प्रेषितः आसीत् । तस्मिन् रथे उपविश्य पार्श्वकुमारः आकाशमार्गेण युद्धाय प्रस्थितवान् । पार्श्वकुमारस्य चरुरङ्गिणीसेना स्थलमार्गेण गतवती । पार्श्वकुमारेण युद्धम् अवरोद्धुं यवनं प्रति एकः दूतः प्रेषितः । किन्तु यवनः पार्श्वकुमारस्य पूर्वसूचनाम् अस्वीकृतवान् । यदा पार्श्वकुमारेण द्वितीयवारं दूतः प्रेषितः, तदा यवनस्य राजसभायाः वृद्धमन्त्रिणा यवनः अवबोधितः । वृद्धमन्त्री उक्तवान् यत् – “देवेन्द्रः स्वयं पार्श्वकुमारस्य सेवां करोति । अतः अस्माकं विजयः शक्यः एव नास्ति । अस्माभिः अस्माकं सेनायाः, आत्मसम्मानस्य रक्षणं करणीयम्” इति । यवनेन वृद्धमन्त्रिणः निर्णयः स्वीकृतः । युद्धम् अवरुद्ध्य कलिङ्गनरेशः यवनः पार्श्वकुमारस्य सेवां चकार ।

राजा प्रसेनजित् प्रसन्नः अभवत् । प्रसेनजिता प्रार्थना कृता यत् – “भवता राज्यस्य सङ्कटं दूरीकृतम् । इदानीं प्रभावत्या सह विवाहं कृत्वा तस्याः प्रतिज्ञाम् अपि भवान् एव पूर्णीकर्तुं समर्थः” । किन्तु पार्श्वकुमारेण प्रसेनजित् अवबोधितः यत् – “अहं भवतः राज्यस्य रक्षणार्थम् आगतवान् आसम्, न तु विवाहाय । अतः विवाहविषये कथं विचारितुं शक्नोमि” ?

पार्श्वकुमारः वाराणसी-नगरीं प्रति प्रस्थितवान् । यवनः, प्रसेनजित् च इत्येतौ अपि वाराणसीं गतवन्तौ आस्ताम् । वाराणसी-नगरीं प्राप्य प्रसेनजित् अश्वसेनाय आग्रहं कृतवान् । किन्तु अश्वसेनः उक्तवान् यत् – “ अहमपि तस्य विवाहं कर्तुम् इच्छामि । किन्तु सः अत्यन्तं विरक्तः अस्ति । अतः अहं किमपि वक्तुम् असमर्थोऽस्मि” । अन्ते अश्वसेनः बहुभिः प्रयासैः पार्श्वकुमारस्य विवाहः प्रभावत्या सह कारितवान् । पितुः आज्ञानुसारं पार्श्वकुमारेण विवाहः कृतः । किन्तु तेन राजपदं न स्वीकृतम् [९]

सर्पाणाम् उद्धारः[सम्पादयतु]

एकदा पार्श्वकुमारः नगरस्य निरीक्षणार्थं निर्गतवान् आसीत् । तदा तेन दृष्टं यत् – “जनाः एकस्यां दिशि एव गच्छन्तः सन्ति” । अतः अनुचरेण ज्ञातं यत् – “उद्याने कमठ-नामकः कश्चन घोरतपस्वी आगतवान् अस्ति । तत्र सः पञ्चाग्निं कृत्वा साधनां कुर्वन् आसीत् । जनाः तस्य दर्शनार्थं गच्छन्तः सन्ति” । पार्श्वकुमारः अपि तत्र गतवान् । तत्र पार्श्वनाथेन दृष्टं यत् – “अग्नेः विशालज्वाला ज्वलन्ती अस्ति” । पार्श्वनाथेन स्वस्य अवधिज्ञानेन नागदम्पती दृष्टौ । तौ नागदम्पती अग्नौ ज्वलन्तौ आस्ताम्” । पार्श्वनाथेन तपस्वी उक्तः यत् – “अहिंसा परमो धर्मः । अहिंसां विना धर्मः एव न भवति । भवता प्रज्वालिते अग्नौ नागदम्पती ज्वलन्तौ स्तः” । अनन्तरं पार्श्वनाथेन तत्काष्ठं छेदितं, यस्मिन् नागदम्पती ज्वलन्तौ आस्ताम् । यदा नागदम्पती काष्ठात् बहिरागतवन्तौ, तदा पार्श्वनाथः तौ नमस्कृतवान् । पार्श्वनाथेन नागदम्पतीभ्यां नमस्कारमहामन्त्रः श्रावितः । तस्मिन् एव समये नागदम्पतू मृतौ । मृत्योः अनन्तरं तौ धरणेन्द्रः, पद्मावती च इत्येतन्नामकौ नागकुमारदेवानाम् इन्द्रः, इन्द्राणी च अभवताम् ।

तपस्विनः प्रभावः न्यूनः जातः । सर्वत्र तस्य तिरस्कारः अभवत् । तेन खिन्नः तपस्वी अनशनं चकार । अन्ते तस्य मृत्युः अभवत् । मृत्योः अनन्तरं सः मेघमालीदेवः अभवत् [१०]

दीक्षा[सम्पादयतु]

पार्श्वनाथस्य मनसि वैराग्यस्य भावना उद्भूता । अतः सः विरक्तः जातः । सः दीक्षायाः समयं ज्ञातवान् आसीत् । पार्श्वनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता पार्श्वनाथेन वार्षिकीदानम् आरब्धम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सः सुवर्णमुद्रिकानां दानं कुर्वन् आसीत् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यदा वार्षिकीदानं पूर्णमभवत्, तदा मार्गशीर्ष-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ विशाखा-नक्षत्रे भगवान् पार्श्वनाथः शतं जनैः सह वाराणसी-नगर्याः उद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता पार्श्वनाथेन दीक्षा स्वीकृता [११]। दीक्षायाः दिवसे भगवान् अठ्ठम-तपः कृतवान् । अपरे दिने भगवता पार्श्वनाथेन कोपट-नगरस्य धन्य-नामकस्य गृहस्थस्य गृहे प्रथमः क्षीराहारः गृहीतः ।

समभावः[सम्पादयतु]

भगवान् सर्वत्र विचरन् आसीत् । सः केवलं साधनायां लीनः आसीत् । एकदा सः शिवपुरी-नगरं प्राप्तवान् । तत्र सः कोशावने ध्यानस्थः अभवत् । किञ्चित्समयान्तरे भगवान् तापसाश्रमं प्रापत् । तत्रापि भगवान् पार्श्वनाथः एकस्य वटवृक्षस्याधः ध्यानमग्नः अभवत् ।

कमठेन तपस्विना स्वस्य अवधिज्ञानेन पार्श्वनाथः दृष्टः । पूर्वजन्मनः वैरोद्धारं स्मृत्वा भगवते कष्टं प्रदातुं कमठः पार्श्वनाथस्य समीपं गतवान् । सर्वप्रथमं कमठेन सिंहस्य, व्याघ्रस्य, सर्पस्य च रूपं धृत्वा भगवते कष्टं प्रदत्तम् । तथापि पार्श्वनाथः मेरुपर्वतः इव अचलः आसीत् ।

वैफल्यं प्राप्ते सति कमठः क्रुद्धो जातः । अतः सः मायया अतिवृष्टिं चकार । भगवान् ध्यानस्थः आसीत् । अतः सः स्थिरः आसीत् । अतिवृष्ट्या स्थलं जलमग्नम् अभवत् । भगवान् तिष्ठन् एव साधनां कुर्वन् आसीत् । अतः जलं भगवतः नासिका पर्यन्तम् आगतम् ।

किञ्चित्क्षणानन्तरं धरणेन्द्रः अपि स्वस्य अवधिज्ञानेन इमां स्थितिं ज्ञातवान् । तत्क्षणमेव धरणेन्द्रः स्वस्य पत्न्या सह पार्श्वनाथस्य समीपं गतवान् । धरणेन्द्रेण भगवतः पार्श्वनाथस्य पदयोः अधः एकं कमलं रचितम् । स्वयं सप्तफणयुतः सन् भगवतः पार्श्वनाथस्य मस्तकोपरि छत्रम् अस्थापयत् । तथापि भगवतः मनसि समभावः एव आसीत् । कमठः निरन्तरं वृष्टिं कुर्वन् आसीत् । तदा धरणेन्द्रेण कमठः अवबोधितः यत् – “अरे दुष्ट ! भगवतः मनसि समभावः अस्ति, तथापि त्वम् इदानीमपि दुष्टतां न त्यजसि ?

धरणेन्द्रस्य वचनेन कमठः भयभीतः जातः । कमठेन वृष्टिः रोधिता । अनन्तरं पार्श्वनाथं प्रणम्य सः निर्गतवान् । धरणेन्द्रः अपि भगवतः स्तुतिं चकार । सः अपि स्वस्थानं गतवान् [१२]

केवलज्ञानम्[सम्पादयतु]

दीक्षानन्तरं चतुरशीतिदिनानि यावत् भगवान् पार्श्वनाथः रहसि आसीत् । भगवता पार्श्वनाथेन चतुरशीतिदिनानि यावत् विविधाः तपस्याः, साधनाः च कृताः । चतुरशीतिदिनानन्तरं सः पुनः वाराणसी-नगर्याः उद्यानं प्राप्तवान् ।

वाराणसी-नगर्यां चैत्र-मासस्य कृष्णपक्षस्य चतुर्थ्यां तिथौ विशाखा-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [१३]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च । भगवता पार्श्वनाथेन तत्र तीर्थस्य स्थापना कृता । अतः तदा सः तीर्थङ्करपदं प्राप्तवान् ।

भगवता पार्श्वनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः जगतः निवृत्तिं प्राप्तवन्तः । भगवतः पार्श्वनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् पार्श्वनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा पार्श्वनाथेन धार्मिकपरिवारस्य अपि रचना कृता[१४]

  1. १० गणधराः
  2. १,००० केवलज्ञानिनः
  3. ७५० मनःपर्यवज्ञानिनः
  4. १,४०० अवधिज्ञानिनः
  5. १,१०० अवैक्रियलब्धिधारिणः
  6. ३५० चतुर्दशपूर्विणः
  7. ६०० चर्चावादिनः
  8. १६,००० साधवः
  9. ३८,००० साध्व्यः
  10. १,६४,००० श्रावकाः
  11. ३,३९,००० श्राविकाः


अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “शुभदत्तः” इत्याख्यः प्रथमः गणधरः आसीत् ।

चातुर्याम-धर्मः[सम्पादयतु]

भगवान् पार्श्वनाथः चातुर्याम-धर्मस्य निरूपकः आसीत् । ततः परं चतुर्विंशतितमः तीर्थङ्करः भगवान् महावीरः पञ्चमहाव्रतधर्मस्य व्याख्यां चकार । अतः भगवतः पार्श्वनाथस्य धर्मः चातुर्याम-धर्मः इति नाम्ना एव प्रसिद्धः जातः ।

चतुर्विंशतितीर्थङ्करेषु प्रथमः, अन्तिमश्च तीर्थङ्करः पञ्चमहाव्रतधर्मस्य प्रवर्तनं कुर्वन् आसीत् । अन्ये द्वाविंशतितीर्थङ्कराः चातुर्यामधर्मस्य प्ररूपकाः आसन् । ’चातुर्याम’, ’पञ्चयाम’ च इत्येतयोः केवलं शब्दभेदः एव वर्तते । चातुर्याम-धर्मे ब्रह्मचर्यः भिन्नं महाव्रतं न मन्यते । अपितु ब्रह्मचर्यम् अपरिग्रहमहाव्रते एव सम्मिलितम् अस्ति ।

स्त्रियः द्विपदपरिग्रहे मन्यन्ते स्म । ब्रह्मचारिणः स्त्रीणां त्यागं कुर्वन्ति । अतः ब्रह्मचर्यम् अपरिग्रहमहाव्रते एव सम्मिलितं भवति । चातुर्यामधर्मस्य विकासः एव पञ्चमहाव्रतानां धर्मः मन्यते [१५]

अपूर्वप्रभावः[सम्पादयतु]

मिस्र, ईरान्, साइबेरीया, अफघानिस्तान् इत्यादयः देशाः पार्श्वनाथस्य व्यक्तित्वात् प्रभाविताः आसन् । तत्कालीनाः जनाः, राजानः च पार्श्वनाथस्य धर्मस्योपासनां विशेषतया कुर्वन्ति स्म । यदा चीन-देशीयः प्रसिद्धः यात्री ‘ह्वेनसांग्’ इत्याख्यः यदा तेषां प्रदेशानां यात्रां चकार, तदा तेन बहवः निर्ग्रन्थमुनयः दृष्टाः ।

महात्मनः बुद्धस्य पितृव्यः अपि भगवतः पार्श्वनाथस्य श्रमणोपासकः आसीत् । करकण्डु-इत्यादयः बौद्धराजानः अपि भगवतः पार्श्वनाथस्य शिष्यत्वं प्रापन् । केचन साहित्यकाराः कथयन्ति यत् – “महात्मना बुद्धेन षड्वर्षाणि यावत् भगवतः पार्श्वनाथस्य धर्मशासने साधना कृता आसीत्” ।

तत्कालीनेषु सर्वेषु धर्मसम्प्रदायेषु भगवतः पार्श्वनाथस्य साधनापद्धत्याः प्रभावः आसीत् । भगवतः पार्श्वनाथस्य शासनकाले शुभदत्त, आर्य हरिदत्त, आर्य समुद्रसूरि, आर्य केशीश्रमण च इत्यादयः प्रतिभाशालिनः, तपस्विनः च आचार्याः अपि अभवन् [१६]

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः समयस्य ज्ञानं भवति । यदा भगवता पार्श्वनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः त्रयस्त्रिंशत् साधुभिः सह सम्मेदशिखरं प्राप्तवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

एकमासस्य अनशनान्ते श्रावण-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ विशाखा-नक्षत्रे सम्मेदशिखरे भगवतः पार्श्वनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [१७]

पार्श्वनाथेन कौमारावस्थायां त्रिंशद्वर्षाणां, दीक्षायां सप्ततेः वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने शतं वर्षाणि भुक्तानि आसन् [१८]

नेमिनाथस्य निर्वाणानन्तरं पञ्चशताधिकसप्तशतोत्तरत्रयाशीतिवर्षानन्तरं पार्श्वनाथस्य मोक्षः अभवत् ।

जैनतीर्थङ्कराः
पूर्वतनः
नेमिनाथः
पार्श्वनाथः अग्रिमः
महावीरः

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः_सम्प्रदायः
  3. श्वेताम्बरः_सम्प्रदायः
  4. भिक्षुः_आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १५३
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७०
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६६
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६७
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६७-१६८
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६८
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६८-१७०
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १७०
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७०-१७२
  10. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७२-१७३
  11. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७३
  12. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७५
  13. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १५३
  14. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७६-१७७
  15. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७६
  16. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७६
  17. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १५३
  18. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७७

 अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पार्श्वनाथः&oldid=481650" इत्यस्माद् प्रतिप्राप्तम्