शान्तिनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शान्तिनाथः
षोडशः जैनतीर्थङ्करः
Shantinatha.jpg
शान्तिनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०१९४ वर्षाणि पूर्वम्
परिवारः
पिता विश्वसेन
माता अचिरा
वंशः इक्ष्वाकुः
स्थानम्
जन्म हस्तिनापुरी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् मृगः
औन्नत्यम् ४० धनुर्मात्रात्मकम् (१२० मीटर्)
आयुः १,००,००० वर्षाणि
शासकदेवः
यक्षः गरुडः
यक्षिणी निर्वाणी
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

शान्तिनाथः ( /ˈʃɑːntɪnɑːθəhə/) (हिन्दी: शान्तिनाथ,आङ्ग्ल: Shantinath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु षोडशः तीर्थङ्करः अस्ति । भगवतः धर्मनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं मृगः अस्ति ।

कौमारावस्थायां शान्तिनाथस्य शरीरस्य औन्नत्यं चत्वारिंशत् (४०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गरुड” इत्याख्यः यक्षः, “निर्वाणी” इत्याख्या यक्षिणी च आसीत् । भगवान् शान्तिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

जन्म, परिवारश्च[सम्पादयतु]

त्रयस्त्रिंशत्सागरोपमानन्तरं भगवतः जीवः भरतक्षेत्रस्य हस्तिनापुर-नामिकायां नगर्याम् अवतीर्णः । तस्यां नगर्यां वैशाख-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भरणी-नक्षत्रे मध्यरात्रौ भगवतः शान्तिनाथस्य जन्म अभवत् [२]

शान्तिनाथस्य पिता विश्वसेनः, माता च अचिरादेवी आसीत् । विश्वसेनः हस्तिनापुरनगर्याः राजा आसीत् । एकदा श्रावण-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ भरणी-नक्षत्रे रात्रौ अचिरादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव अचिरादेवी राज्ञे विश्वसेनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः शान्तिनाथस्य जीवः अचिरादेव्याः गर्भं प्राविशत् [३]

आगामि-दिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रं स्वप्नानां फलादेशाय वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा अचिरादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशं कृतं यत् – “अचिरादेव्याः गर्भे एकः विशिष्टः बालकः अस्ति । सः तीर्थङ्करत्वलक्षणं धरति” इति ।

गर्भकालस्य नवमासानन्तरं भगवतः शान्तिनाथस्य जन्म अभवत् । प्रसवः अपि पीडारहितः जातः । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या प्रसन्नस्सन् सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् सर्वैः जन्मोत्सवः आचरितः । लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च भगवतः शान्तिनाथस्य जन्मोत्सवे समुपस्थिताः आसन् । लोकान्तिकदेवानां, इन्द्राणां च उपस्थितिः आवश्यकी वर्तते स्म ।

पूर्वजन्म[सम्पादयतु]

द्वादशे भवे भगवतः शान्तिनाथस्य जन्म अभवत् । तत्पूर्वम् एकादशभवानां यात्रा समाप्य शान्तिनाथः द्वादशे भवे राज्ञः विश्वसेनस्य गृहे अवतीर्णः ।

एकादश भवाः[सम्पादयतु]

  • प्रथमे भवे जम्बूद्वीपस्य भरतक्षेत्रस्य रत्नपुरनामिकायां नगर्यां “श्रीषेण” स्वरूपे जन्म अभवत् । श्रीषेणः रत्नपुरस्य राजा आसीत् ।
  • द्वितीये भवे जम्बूद्वीपस्य उत्तरकुरु नामके स्थले यौगलिकत्वेन भगवतः शान्तिनाथस्य जन्म अभवत् ।
  • तृतीये भवे भगवान् शान्तिनाथः सौधर्म-नामकं प्रथमं देवलोकं गतः । देवलोकस्य आयुष्यं भुक्त्वा पुनः मृत्युलोके अवतीर्णः ।
  • चतुर्थे भवे वैताढ्यगिरिक्षेत्रस्य उत्तरश्रेण्याः रथनुपुर-नामके नगरे अमिततेज-नामकः राजा अभवत् । अमिततेजः एव भगवतः शान्तिनाथस्य पूर्वजन्म आसीत् ।
  • पञ्चमे भवे भगवान् शान्तिनाथः प्राणत-नामकं दशमं देवलोकं गतः ।
  • षष्ठे भवे जम्बूद्वीपस्य महाविदेहस्य शुभा-नामिकायाः नगर्याः राजा बलदेवः अपराजितः अभवत् ।
  • सप्तमे भवे अच्युतनामकं द्वादशं देवलोकं गतः । तत्र इन्द्रस्वरूपेण आसीत् ।
  • अष्टमे भवे – जम्बूद्वीपस्य महाविदेहस्य रत्नसञ्चया-नामिकायां नगर्यां वज्रायुध-नामकः राजा आसीत् । वज्रायुधः चक्रवर्ती राजा आसीत् ।
  • नवमे भवे तृतीये ग्रैवेयके अहमिन्द्रः अभवत् । अहमिन्द्रेण पञ्चविंशतिसागरमात्रात्मकानां वर्षाणाम् आयुः भुक्तम् ।
दशमः भवः[सम्पादयतु]

जम्बूद्वीपस्य पूर्वमहाविदेहस्य पुष्कलावतीविजये पुण्डरीकिणी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनरथः आसीत् । सः धनरथस्य द्वे भार्ये आस्ताम् । प्रथमा प्रियमतिः, अपरा मनोरमा च । शान्तिनाथस्य जीवः नवमभवस्य आयुष्यं पूर्णं कृत्वा दशमभवे प्रियमत्याः गर्भं प्राविशत् । नवमासानन्तरं तस्य जन्म अभवत् । मेघरथः इति तस्य बालकस्य नाम कृतम् । मनोरमा अपि गर्भवती आसीत् । अतः तस्य बालकस्य नाम दृढरथः कृतम् ।

सुमन्दिरपुरस्य निहतशत्रुः नामकः राजा आसीत् । तस्य पुत्रीत्रयम् आसीत् । प्रियमित्रा, मनोरमा, सुमतिः च । प्रियमित्रायाः, मनोरमायाः च विवाहः मेघरथेन सह अभवत् । सुमत्याः विवाहः दृढरथेन सह अभवत् । प्रियमित्रा नन्दिषेण-नामकं पुत्रं, मनोरमा मेघसेन नामकं पुत्रं, सुमतिः रथसेन-नामकं पुत्रं च अजीजनत् ।

राज्ञा धनरथेन मेघरथस्य राज्याभिषेकः कृतः, तस्मै राज्यस्य दायित्वं च प्रदत्तम् आसीत् । तेन दृढरथः राज्यस्य युवराजः उद्घोषितः । अनन्तरं सः दीक्षाम् अङ्गीकृतवान् । मेघरथः न्यायानुसारं राज्यस्य सञ्चालनं करोति स्म । तस्य राज्ये कस्यापि वस्तुनः अभावः नासीत् । अतः प्रजाझ् सुखम् अजीवन् । मेघरथः धार्मिकः आसीत् । तेन कारणेन सम्पूर्णे नगरे धार्मिकवातावरणम् आसीत् ।

मेघरथः यदा साधनां कर्तुम् उपविशति स्म, तदा तस्य ध्यानं कदापि विचलितं न भवति स्म । स्वर्गलोके अपि मेघरथस्य साधनाविषयिकी प्रशंसा जाता । प्रशंसां श्रुत्वा सुराङ्गनाः अपि चकिताः अभवन् । ताभिः सुराङ्गनाभिः मेघरथं विचलितुं कर्तुं मनसि निर्णयः कृतः ।

एकदा मेघरथः पौषधशालायां पौषधं (Fasting) कुर्वन् आसीत् । तदा सुराङ्गनाः तत्र गत्वा नृत्यं कुर्वत्यः आसन् । ताभिः तत्रत्यां वातावरणम् अपि मादकं कृतम् । इतः परं ताभिः सुराङ्गनाभिः मेघरथः रतिक्रीडायै अभ्यर्थितः । तथापि मेघरथः साधनायां तटस्थः आसीत् । सुराङ्गनानां सर्वे प्रयासाः व्यर्थाः जाताः । आरात्रं यः प्रयासः कृतः तस्मिन् असफले सति प्रातःकाले सुराङ्गनाः स्वस्य वास्तविकस्वरूपं धृतवत्यः । स्वपरिचयं च दत्तवत्यः ताः ।

मेघरथस्य पिता धनरथः तीर्थङ्करः आसीत् । धनरथस्य प्रवचनं श्रुत्वा मेघरथः अपि वैराग्ययुतोऽभूत् । अतः मेघरथेन स्वस्य पुत्रस्य मेघसेनस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् ।

दृढरथेन, सप्तशतपुत्रैः, चतुर्सहस्रेण राजभिः च सह मेघरथः धनरथात् दीक्षां स्वीकृतवान् । एकलक्षं वर्षाणि यावत् मेघरथेन तपस्या कृता । अन्ते तीर्थङ्करपदं प्राप्य सः शैलेशीपदं प्रापत् । अनशनान्ते मेघरथस्य निर्वाणमभवत् । दृढरथः अपि साधनां कृत्वा सिद्धः अभवत् ।

अनन्तरं मेघरथः एकादशे भवे अवतीर्णः । एकादशे भवे मेघरथेन त्रयस्त्रिंशत्सागरमात्रात्मकानां वर्षाणाम् आयुष्यं प्राप्तम् ।

अनेन प्रकारेण शान्तिनाथेन प्रथमभवम् आरभ्य एकादशभवपर्यन्तम् आयुष्यं भुक्तम् । अनन्तरं शान्तिनाथस्वरूपेण द्वादशे भवे अवतीर्णः ।

नामकरणम्[सम्पादयतु]

बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः शान्तिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव ।

राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणस्य चर्चा जाता । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । किन्तु देवैः गर्भकाले घटितानां घटनानाम् उल्लेखं कर्तुं राजा उक्तः । अतः राज्ञा गर्भकालस्य घटनाः श्राविताः यत् – “अस्माकं राज्ये केभ्यश्चित् मासेभ्यः प्राग् व्याधिरोगस्य (plague) भयङ्करः प्रकोपः आसीत् । सर्वे जनाः तेन रोगेण ग्रस्ताः आसन् । अचिरादेवी अपि व्याधिरोगेण ग्रस्ता आसीत् । यदा बालकस्य जीवः गर्भं प्राविशत्, तदैव अचिरादेव्याः रोगः अपि शान्तः जातः । शनैः शनैः तद्रोगः राज्यात् अपि निर्गतः । अतः अस्य बालकस्य नाम शान्तिकुमारः इति करणीयम्” ।

विवाहः[सम्पादयतु]

“शान्तिकुमारः तीर्थङ्करः भविष्यति” इति विश्वसेनस्य मनसि आसीत् एव । तथापि विश्वसेनः शान्तिकुमारम् अन्यत् किमपि भावयितुम् इच्छति स्म । शैशवकालस्य समाप्त्यनन्तरं राजा विश्वसेनः यशोमत्या, अन्याभिः राजकन्याभिः च सह शान्तिकुमारस्य विवाहं कारितवान् ।

उचितसमये राज्ञा विश्वसेनेन शान्तिकुमारस्य राज्याभिषेकः कृतः । अनन्तरं विश्वसेनेन शान्तिकुमाराय राज्यस्य सम्पूर्णं दायित्वम् अदीयत । ततः परं राजा विश्वसेनः मुनिव्रतम् अङ्ग्यकरोत् । विश्वसेनः राज्यं त्यक्त्वा साधनां कर्तुं निर्गतः ।

दृढरथस्य जीवः शान्तिकुमारस्य पत्न्याः कुक्षौ प्रविष्टः । तस्मिन् एव समये यशोमत्या स्वप्नः दृष्टः । यशोमतिः स्वप्ने एकं चक्रं दृष्टवती । तच्चक्रम् आकाशमार्गात् तस्याः मुखं प्राविशत् । यशोमत्या अयं स्वप्नः शान्तिनाथाय श्रावितः । स्वप्नं श्रुत्वा शान्तिनाथः उक्तवान् यत् – “भवत्याः गर्भे पूर्वजन्मनः मम अनुजः दृढरथः अस्ति” । नवमासानन्तरं बालकस्य जन्म अभवत् । तस्य नाम चक्रायुधः इति कृतम् । अनन्तरं तस्य विवाहः अनेकाभिः कन्याभिः सह कारितः ।

राज्यम्[सम्पादयतु]

बहुकालानन्तरं शान्तिनाथस्य आयुधशालायां चक्ररत्नम् उद्भूतम् । चक्रस्य साहाय्येन शान्तिनाथेन अष्टशते वर्षेषु षड्खण्डाः जिताः । तेन सः चक्रवर्ती अभवत् । शान्तिनाथेन राजपदं प्राप्तम् । तेन मातृवत् विरक्तिपूर्वकं च राज्यस्य पालनं कृतम् आसीत् । शान्तिनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः ।

प्रजाजनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा शान्तिनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् । सः गान्धर्वदेवाः इव पञ्चेन्द्रियसुखानां भोगं करोति स्म । समयान्तरे शान्तिनाथस्य मनः विरक्तं जातम् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भोगावलिकर्मणः अन्तं ज्ञात्वा भगवता शान्तिनाथेन राज्ये सुव्यवस्था कृता । यद्यपि भगवता शान्तिनाथेन पञ्चाशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतम् आसीत् । यदा सः दीक्षायाः समयं ज्ञातवान्, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तवान् ।

शान्तिनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगतवन्तः । ततः परं भगवान् शान्तिनाथः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि जनाः अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा वैशाख-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ भरणी-नक्षत्रे भगवान् शान्तिनाथः सहस्रजनैः सह हस्तिनापुरस्य सहस्राम्रोद्यानं गतवान् आसीत् । तत्र लोकान्तिदेवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता शान्तिनाथेन दीक्षा अङ्गीकृता ।

दीक्षानन्तरम् एकमासं यावत् भगवान् शान्तिनाथः रहसि आसीत् । भगवान् शान्तिनाथः एकवर्षं यावत् विविधाः तपस्याः, साधनाः च चकार । सः विचरन् विचरन् पुनः हस्तिनापुर-नगरीं प्राप्तवान् ।

हस्तिनापुर-नगर्यां पौष-मासस्य शुक्लपक्षस्य नवम्यां तिथौ भरणी-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तदा लोकान्तिकदेवाः, नगरजनाः च अपि तत्र उपस्थिताः आसन् । सर्वे मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतवन्तः, उत्सवम् आचरितवन्तः च ।

ततः परं भगवान् शान्तिनाथः प्रथमं प्रवचनं कृतवान् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः निवृत्तिं प्राप्तवन्तः । भगवतः शान्तिनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् शान्तिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा शान्तिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ३६ गणधराः
  2. ४,३०० केवलज्ञानिनः
  3. ४,००० मनःपर्यवज्ञानिनः
  4. ३,००० अवधिज्ञानिनः
  5. ६,००० अवैक्रियलब्धिधारिणः
  6. ८०० चतुर्दशपूर्विणः
  7. २,४०० चर्चावादिनः
  8. ६२,००० साधवः
  9. ६१,६०० साध्व्यः
  10. २,९०,००० श्रावकाः
  11. ३,९३,००० श्राविकाः

अयं भगवतः शान्तिनाथस्य धार्मिकः परिवारः अस्ति । तेषु परिवारजनेषु षड्त्रिंशत् गणधरेषु “चक्रायुधस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः सर्वज्ञाः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता शान्तिनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ पुष्य-नक्षत्रे सम्मेदशिखरे भगवतः शान्तिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [५]

शान्तिनाथेन कौमारावस्थायां सार्धद्विलक्षवर्षाणां, राज्ये पञ्चलक्षवर्षाणां, दीक्षायां सार्धद्विलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने दशलक्षवर्षाणि भुक्तानि आसन् [६]

भगवतः शान्तिनाथस्य चिह्नं मृगः अस्ति । भगवतः शान्तिनाथस्य चरणयोः मृगस्य प्रतीकं वर्तते । मृगः स्वाभाविकतया सरलः, शान्तश्च वर्तते । मृगस्य एकः एव दोषः अस्ति यत् – “सः सङ्गीते आकृष्टे भवति” इति । अनेन कारणेन एव व्याधाः मृगस्य आखेटकं कुर्वन्ति ।

मृगः अस्मान् बोधयति यत् - “वयम् अपि सङ्गीतम् इव मधुरया वाण्या मुग्धाः मा भवेम इति चिन्तनीयम् । यतः पश्चात् परिशोचितव्यं भवति ।

धर्मनाथस्य निर्वाणानन्तरं त्रिसागरमात्रात्मकवर्षाणाम् अनन्तरं शान्तिनाथस्य मोक्षः अभवत् ।

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
धर्मनाथः
शान्तिनाथः अग्रिमः
कुन्थुनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 104
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 116
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 102
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. ११८
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75
  6. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शान्तिनाथः&oldid=321871" इत्यस्माद् पुनः प्राप्तिः