सुपार्श्वनाथः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
सुपार्श्वनाथः
सप्तमः जैनतीर्थङ्करः
Thirthankara Suparshvanath Museum Rietberg RVI 306.jpg
सुपार्श्वनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२२० वर्षाणि पूर्वम्
परिवारः
पिता प्रतिष्ठसेन
माता पृथ्वी
वंशः इक्ष्वाकुः
स्थानम्
जन्म वाराणसी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् स्वस्तिकः
औन्नत्यम् २०० धनुर्मात्रात्मकम् (६०० मीटर्)
आयुः २०,००,००० पूर्वम् (१४१.१२ × १०१८ वर्षाणि)
शासकदेवः
यक्षः मातंग
यक्षिणी शांता
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

सुपार्श्वनाथः ( ( शृणु) /ˈsʊpɑːrʃvənɑːθəhə/) (हिन्दी: सुपार्श्वनाथ, आङ्ग्ल: Suparshvanath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु सप्तमः तीर्थङ्करः अस्ति । भगवतः सुपार्श्वनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं स्वस्तिकः च अस्ति ।

कौमारावस्थायां सुपार्श्वनाथस्य शरीरस्य औन्नत्यं द्विशतं (२००) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “मातङ्गः” इत्याख्यः यक्षः, “शान्ता” इत्याख्या शासनदेवी च आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

भरतक्षेत्रे वाराणसी-नामिका नगरी आसीत् । तस्यां नगर्यां ज्येष्ठ-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ विशाखा-नक्षत्रस्य मध्यरात्रौ भगवतः सुपार्श्वनाथस्य जन्म अभवत् [२]

सुपार्श्वनाथस्य पिता प्रतिष्ठसेनः, माता च पृथ्वीदेवी आसीत् । एकदा भाद्रपद-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ अनुराधा-नक्षत्रे रात्रौ पृथ्वीदेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव पृथ्वीदेवी राज्ञे प्रतिष्ठसेनाय चतुर्दशस्वप्नान् श्रावितवती । तस्मिन् रात्रौ एव भगवतः सुपार्श्वनाथस्य जीवः पृथ्वीदेव्याः गर्भे समतिष्ठत् [३]

आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आवाहिताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा पृथ्वीदेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवन्तः यत् – “पृथ्वीदेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः वर्तते । सः तीर्थङ्करत्वं प्राप्स्यति ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः सुपार्श्वनाथस्य जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णंं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या प्रसन्नस्सन् सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् ।

पूर्वजन्म[सम्पादयतु]

घातकी-खण्डद्वीपस्य पूर्वदिशि महाविदेहे क्षेमपुरी-नामिका नगरी आसीत् । तस्यां नगर्यां नन्दीसेन-नामकः एकः राजा आसीत् । नन्दीसेनः एव भगवतः सुपार्श्वनाथस्य पूर्वजन्म आसीत् ।

राजा नन्दीसेनः भोगसामग्रीभिः युतः आसीत् । तथापि सः अनासक्तः एव जीवति स्म । तेन सत्तायाः मोहः कदापि न अपेक्षितः । मुनिः इव सः जीवति स्म । सः सन्यासम् अङ्गीकर्तुम् इच्छति स्म । किन्तु शासनव्यवस्था अपि आवश्यकी वर्तते स्म । अतः भोगावलीकर्मभ्यः मुक्तिं प्राप्तुं सः प्रयासं करोति स्म ।

यदा तस्य उत्तराधिकारी शासितुं योग्यः अभवत्, तदा तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं राज्ञा नन्दीसेनेन आचार्यात् अरिदमनात् दीक्षां प्राप्य श्रमणधर्मः अङ्गीकृतः । बहुवर्षाणि यावत् तपस्यां कृत्वा राजा नन्दीसेनः तीर्थङ्करगोत्रस्य बन्धनं कृतवान् । अन्ते सः सिद्धत्वं प्राप्य स्वर्गलोकं गतः ।

नामकरणम्[सम्पादयतु]

भगवतः सुपार्श्वनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्ये जनाः अपि प्रफुल्लिताः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा पृथ्वीदेवी गर्भवती आसीत्, तदा तस्याः पार्श्वौ (कटीप्रदेशौ) सुन्दरौ दृश्येते स्म । सामान्यतया गर्भवतीस्त्रीणां कटिप्रदेशौ सुन्दरौ न दृश्येते । बालकः गर्भे अपि सुन्दरः आसीत् । अतः अस्य बालकस्य नाम सुपार्श्वः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव सुपार्श्वनाथः इति नाम ख्यातम् अस्ति ।

विवाहः[सम्पादयतु]

पञ्चमातृभिः भगवतः सुपार्श्वनाथस्य पालनं कृतम् । समयान्तरे भगवतः सुपार्श्वनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । भगवतः किशोरावस्थायां प्रवेशे सति राजा प्रतिष्ठसेनः राजकन्याभिः सह सुपार्श्वनाथस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः प्रतिष्ठसेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः सुपार्श्वनाथस्य राज्याभिषेकं कृतवान्, सुपार्श्वनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं प्रतिष्ठसेनः दीक्षां प्रापत् ।

राज्यम्[सम्पादयतु]

सुपार्श्वनाथः राजापदं प्राप्तवान् आसीत् । यथा माता बालकस्य पालनं करोति, तथैव तेन अपि राज्यस्य निस्पृहतया पालनं कृतम् आसीत् । सुपार्श्वनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः ।

प्रजाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा सुपार्श्वनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सात्विकः सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजासु सन्मुष्टिः आसीत् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवान् सुपार्श्वनाथः विंशतिपूर्वाङ्गाधिकः चतुर्दशवर्षाणि यावत् राज्यसञ्चालनम् अकरोत् । यदा तस्य दीक्षायाः समयः ज्ञातः, तदा सः स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य दायित्वं प्रदत्तवान् ।

ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवान् सुपार्श्वनाथः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

तेजस्विनः, शान्तचित्तस्य राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा ज्येष्ठ-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ विशाखा-नक्षत्रे भगवान् सुपार्श्वनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता सुपार्श्वनाथेन दीक्षा अङ्गीकृता ।

दीक्षानन्तरं नवमासान् यावत् भगवान् सुपार्श्वनाथः छद्मस्थः आसीत् । भगवता सुपार्श्वनाथेन अष्टमासान् यावत् विविधाः तपस्याः, साधनाः च कृताः । सः विचारं विचारं पुनः सहस्राम्रोद्यानं प्राप्तवान् ।

वाराणसी-नगर्यां माघ-मासस्य कृष्णपक्षस्य षष्ठ्यां तिथौ विशाखा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितश्च ।

अनन्तरं भगवता सुपार्श्वनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः सुपार्श्वनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् सुपार्श्वनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा सुपार्श्वनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ९५ गणधराः
  2. ११,००० केवलज्ञानिनः
  3. ९,१५० मनःपर्यवज्ञानिनः
  4. ९,००० अवधिज्ञानिनः
  5. १५,३०० अवैक्रियलब्धिधारिणः
  6. २,०३० चतुर्दशपूर्विणः
  7. ८,४०० चर्चावादिनः
  8. ३,००,००० साधवः
  9. ४,३०,००० साध्व्यः
  10. २,५७,००० श्रावकाः
  11. ४,९३,००० श्राविकाः

निर्वाणम्[सम्पादयतु]

यदा भगवता सुपार्श्वनाथेन स्वस्य निर्वाणकालः ज्ञातः, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

अनन्तरम् एकमासस्य अनशनान्ते फाल्गुन-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ मूल-नक्षत्रे सम्मेदशिखरे भगवतः सुपार्श्वनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [५]

सुपार्श्वनाथेन कौमारावस्थायां पञ्चलक्षवर्षाणां, राज्ये चतुर्दशलक्षवर्षाणां, दीक्षायां द्वादशपूर्वाङ्गं च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने विंशतिलक्षवर्षाणि भुक्तानि आसन् [६]

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
पद्मप्रभुः
सुपार्श्वनाथः अग्रिमः
चन्द्रप्रभुः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 62
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 74
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 61
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 76
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 62
  6. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 62

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुपार्श्वनाथः&oldid=314882" इत्यस्माद् पुनः प्राप्तिः