विशाखा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते विशाखानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् विशाखानक्षत्रं भवति षोडशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

विशाखानक्षत्रम्

आकृतिः[सम्पादयतु]

विशाखा कुलालचक्रं पञ्च - चक्राकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

ती तू ते तो - विशाखानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

दूरमस्मच्छवो यन्तु भीताः तन्नो देवा अनुमदन्तु यज्ञं, पश्चात् पुरस्तादभयं नो अस्तु । नक्षत्राणामधिपत्नी विशाखे श्रेष्ठविन्द्राग्नी भुवनस्य गोपौ । विषूचः शत्रूनप्नबाधमानौ । अपक्षुधं नुदतामरातिम् ॥

वैदिकसाहित्ये विशाखे नक्षत्रमिन्द्राग्नी इत्युक्तम् । तन्नाम विशाखानक्षत्रस्य उभौ अधिपती - इन्द्रः अग्निश्च । निरुक्तकारः विशाखायाः निर्वचनं कुर्वन् वदति यत् इयं खे- आकाशे विशेषरूपेण शेते इति । विशाखानक्षत्रे द्वे तारे स्तः इत्यतः वैदिकसाहित्ये द्विवचने प्रयोगः कृतः अस्ति । अस्य राधानक्षत्रम् इत्यपि अपरं नाम । राधा इत्येषः शब्दः राधस् इत्यस्मात् निष्पन्नं यस्य अर्थः तु तेजः धनं वा । तैत्तिरीयब्राह्मणस्य कथनानुगुणं श्रेष्ठे देवते इन्द्राग्नी अहिपत्न्या राधया सह आगच्छन्तः सन्ति । एते समग्रभुवनस्य संरक्षकाः । एते त्रयः शत्रुषु भीतिं जनयन्ति । दूरं प्रषयन्ति च । अपि च ते अस्माकं यज्ञे उपस्थाय अभयं यच्छन्ति । ऋग्वेदस्य १-१३५-४ मन्त्रे राधानक्षत्रेण सह चन्द्रस्य वर्णनं प्राप्यते । पिवतं मध्वो अन्धसः चन्द्रेण राधासागतम्

आश्रिताः पदार्थाः[सम्पादयतु]

इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥

रक्तपुष्पा लोहितपुष्पा रक्तफलाश्च ये शाखिनो वृक्षास्ते च सतिलमुद्गाः तिलैर्मुद्गैश्च सहिताः । कर्पासाः प्रसिद्धाः । माषाश्चणकाश्च प्रसिद्धा एव । ये पुरन्दरस्येन्द्रस्य हुताशस्याग्नेर्भक्ता अनुरक्ताः । एते सर्व एवेन्द्राग्निदैवते विशाखायाम् ॥

स्वरूपम्[सम्पादयतु]

उपचयवस्तुग्रहणं भूषणनववस्त्रचित्रकार्यं च ।
भेषजशकटप्रहरणशिल्पविचित्रं द्विदैवभे कार्यम् ॥

विशाखानक्षत्रे वर्धनयोग्यानां वस्तूनां सङ्ग्रहः, आभूषणम्, नूतनवस्त्रम्, चित्रलेखनम्,औषधम्, वाहनम्, प्रहारः, शिल्पकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

मृदुतीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

हौतभुजं सविशाखं मृदुतीक्ष्णं तद्विमिश्रफलकारि ।
अथ साधारणे नक्षत्रे ताभ्यां यानि च कर्माणि कारयेत्, तथा चराणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - हौतभुजं कृत्तिका । हुतं भुङ्क्ते हुतभुगग्निः । हुतभुज इदं हौतभुजम् । तस्येदमित्यण् । तद्धितेष्वचामादेरिति वृद्धिः । तच्च सविशाखं विशाखासहितम् । एतन्नक्षत्रद्वयं मृदुतीक्ष्णं मृदुसाधारणमित्यर्थः । तच्च विमिश्रफलकारि विमिश्रफलं करोति । मृदूनि दारुणानि च कर्माणि कुर्यादित्यर्थः ।


पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विशाखा&oldid=364665" इत्यस्माद् पुनः प्राप्तिः