सामग्री पर जाएँ

नक्षत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नक्षत्र इत्यस्मात् पुनर्निर्दिष्टम्)

ताराणां समूहः नक्षत्रमित्युच्यते । समस्ताकाशमण्डलात् सप्तविंशतिभिर्नक्षत्रैर्विभज्यते । प्रत्येकभागस्य नाम एकं नक्षत्र भवति । प्रत्येकनक्षत्रं चतुर्धा विभाज्यते तदैकचरणप्रमाणं ज्ञायते । नक्षत्राणां नामानि –

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।
आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥
पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।
हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥
अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।
पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥
घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।
उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

यथा-१. अश्विनी, २. भरणी, ३. कृत्तिका , ४. रोहिणी, ५. मृगशिरा, ६. आर्द्रा, ७.पुनर्वसु, ८. पुष्य, ९. आश्लेषा, १०. मघा, ११. पूर्वाफाल्गुनी, १२. उत्तराफाल्गुनी, १३. हस्त, १४. चित्रा, १५. स्वाती, १६. विशाखा, १७. अनुराधा, १८, ज्येष्ठा, १९. मूल, २०. पूर्वाषाढ, २१. उत्तराषाढ्, २२. श्रवणा, २३. धनिष्ठा, २४. शतभिषा, २५. पूर्वाभाद्रपद, २६. उत्तराभाद्रपद, २७. रेवती च । एतदतिरिक्तमभिजिदपि अष्टविंशतितमं नक्षत्रमस्ति । ज्योतिर्विदामभिप्रायः यदुत्तराषाढायाः अन्तिमचतुर्थांशस्तथा श्रवणायाः प्रारम्भिकपञ्चदशांशयोगेनाभिजिन्नक्षत्रं भवति तत्रोत्तराषाढायाः पञ्चदशघटिकास्तथा श्रवणस्य प्रारम्भिकचतुर्घटिकाः मिलित्वा १९. घटिकाः अभिजिन्नक्षत्रस्य भोगः वर्तते । सर्वेषु कार्येष्वेतानि प्रयुज्यन्ते ।

नक्षत्राणां स्वामी

[सम्पादयतु]
नक्षत्रम्स्वामीनक्षत्रम्स्वामी
अश्विनीअश्विनीकुमारःभरणीयमः
कृत्तिकाअग्निःरोहिणीब्रह्मा
मृगशिराचन्द्रमाआर्द्राशिवः
पुनर्वसुअदितिःपुष्यगुरुः
आश्लेषासर्पःमघापितर
पूर्वाफाल्गुनीभगःउत्तराफाल्गुनीअर्यमा
हस्तसूर्यःचित्रात्वष्ठा
स्वातीवायुःविशाखाइन्द्रः अग्निश्च
अनुराधामित्रम्ज्येष्ठाइन्द्रः
मूलराक्षसःपूर्वाषाढजलम्
उत्तराषाढविश्वदेवःश्रवणाविष्णुः
धनिष्ठावसुदेवःशतभिषावरुणः
पूर्वाभाद्रपदऊजयातब्रह्माउत्तराभाद्रपदअहिर्बुहन्यसूर्यः
रेवतीपूषा--

उक्तं च बृहत्संहितायां यथा –
अश्विनीयमदहनकमलजशशिशुलभृददितिजीवफणिपितरः
योन्यर्यमद्रिनक्तत्वष्टपवनशक्राग्निमित्राश्च ।
शक्रो मित्रश्रतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्रुणः,
अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥

नक्षत्राणां प्रकारभेदः

[सम्पादयतु]

नक्षत्राणि षोडशविधानि भवन्ति । एतेष्वेव सप्तविंशतिनक्षत्राणि भवन्ति । यथा-
१. ध्रुवसंज्ञकनक्षत्राणि –रोहिणी, उत्तराफाल्गुनी, उत्तराषाढ, उत्तरभाद्रपद ।
२. चरसंज्ञकनक्षत्राणि –पुनर्वसु, स्वाती, श्रवणा, धनिष्ठा, शतभिषा ।
३. उग्रनक्षत्राणि – भरणी, मघा, पूर्वाफाल्गुनी, पूर्वाषाढ ।
४. मिश्रनक्षत्राणि- कृत्तिका, विशाखा ।
५. क्षिप्रनक्षत्राणि – अश्विनी, पुष्य, हस्त, अभिजित् ।
६. मृदुनक्षत्राणि-मृगशिरा, चित्रा, अनुराधा, रेवती ।
७. तीक्ष्णनक्षत्राणि - आर्द्रा, आश्लेषा, ज्येष्ठा, मूल ।
८. उर्ध्वनक्षत्राणि, रोहिणी, पुष्य …….. ।
९. अधोमुखनक्षत्राणि- अश्लेषा, भरणी, कृत्तिका ……. ।
१०. तिर्यङ्मुखनक्षत्राणि- अश्विनी, पुनर्वसुः, हस्त, चित्रा, रेवती, अनुराधा…. ।
११. अन्धनक्षत्राणि – रोहिणी, विशाखा, धनिष्ठा …….. ।
१२. मध्यलोचननक्षत्राणि- भरणी, अश्लेषा, जेष्ठा ………. ।
१३. मन्दलोचननक्षत्राणि –शतभिषा, आश्लेषा, अनुराधा …….. ।
१४. सुलोचननक्षत्राणि-पुनर्वसु, स्वाती… ।
१५. पंचकनक्षत्राणि – धनिष्ठा, शतभिषा, पूर्वाभाद्र पदा, उत्तराभाद्रपदा, रेवती ।
१६. मूलनक्षत्राणि- ज्येष्ठा, अश्लेषा, रेवती, अश्विनी,मूल, मघा ।
यथा मुहूर्त्तचिन्तामणौ –
उत्तरात्रयरोहिण्यो भास्करश्च घ्रुवं स्थिरम् ।
तत्र स्थिरं वीजगेहशान्त्यारामादिसिद्धये ॥
स्वात्यादित्ये श्रुतेस्त्रीणि चन्द्रश्चापि चरं चलम् ।
तस्मिन् गजादिकारोहो वाटिकागमनादिकम् ।।
पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा ।
तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादिसिद्ध्यति ।।
विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् ।
तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादिसिद्ध्यति ।।
हस्ताश्विपुष्याभिजितः क्षिप्रं लघुगुरुस्तथा ।
तस्मिन्पण्यरतिज्ञानभूषाशिल्पकलादिकम् ।।
मृगान्त्यचित्रामित्रर्क्षं मूदुमैत्रं भृगुस्तथा ।
तत्र गीताम्बरक्रीडामित्रकार्यं विभूषणम् ॥
मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।
तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥
मूलाहिमिश्रोग्रमघोमुखं भवेद्रुर्ध्वास्यमार्देज्यहरित्रयं ध्रुवम् ।
तिर्यङ्मुखं मैत्रकरानिलादितिर्ज्येष्ठाश्विभानीदृशकृत्यभेषु सत् ॥
(मुहूर्त्तचिन्तामणिः – नक्षत्रप्रकरणम् / १-९)

नक्षत्राणां चरणाक्षराणि

[सम्पादयतु]

चू चे चो ला - अश्विनी । ली लू ले लो-भरणी ।आ इ उ ए –कृत्तिका । ओ वा वी वू- रोहिणी । वे वो का की- मृगशीरा । कू ध ङ् छ – आर्द्रा । के को ह ही –पुनर्वसु । हू हे हो डा-पुष्य । डी दू दे दी- अश्लेषा । मा मी मू मे –मघा । मो टा टी टू –पूर्वाफाल्गुनी । टे टो पा पी- उत्तराफाल्गुनी । पू ष ण ठ – हस्त । पे पो रारी- चित्रा । रु रे रो त- स्वाती । ती तू ते तो – विशाखा । ना नी नू ने –अनुराधा । नो या यी यू – ज्येष्ठा । ये यो भा भी- मूल । भू धा फा ढा –पूर्वाषाढ ।भे भो जा जी – उत्तराषाढा । खा खी खू खे –श्रवणा । गा गी गू गे – धनिष्ठा । गो सा सि सू – शतभिषा । से सो दा दी- पूर्वाभाद्रपद । दू थ भ ञ – उत्तराभाद्रपद । दे दो चा ची- रेवती ।

नक्षत्राणाम् आवली

[सम्पादयतु]
#नामदेवतापाश्चात्यं नाममानचित्रम्स्थिति:
1अश्विनी (Ashvinī)केतुःβ and γ Arietis00AR00-13AR20
2भरणी (Bharanī)शुक्रः (Venus)35, 39, and 41 Arietis13AR20-26AR40
3कृत्तिका (Krittikā)रविः (Sun)Pleiades26AR40-10TA00
4रोहिणी (Rohinī)चन्द्रः (Moon)Aldebaran10TA00-23TA20
5मृगशिरा (Mrigashīrsha)मङ्गलः (Mars)λ, φ Orionis23TA40-06GE40
6आर्द्रा (Ārdrā)राहुःBetelgeuse06GE40-20GE00
7पुनर्वसु (Punarvasu)बृहस्पतिः(Jupiter)Castor and Pollux20GE00-03CA20
8पुष्या (Pushya)शनिः (Saturn)γ, δ and θ Cancri03CA20-16CA40
9आश्लेषा (Āshleshā)बुधः (Mercury)δ, ε, η, ρ, and σ Hydrae16CA40-30CA500
10मघा (Maghā)केतुःRegulus00LE00-13LE20
11पूर्वफल्गुनी (Pūrva Phalgunī)शुक्रः (Venus)δ and θ Leonis13LE20-26LE40
12उत्तरफल्गुनी (Uttara Phalgunī)रविःDenebola26LE40-10VI00
13हस्ता (Hasta)चन्द्रःα, β, γ, δ and ε Corvi10VI00-23VI20
14चित्रा (Chitrā)मङ्गलःSpica23VI20-06LI40
15स्वातिः (Svātī)राहुःArcturus06LI40-20LI00
16विशाखा (Vishākhā)बृहस्पतिःα, β, γ and ι Librae20LI00-03SC20
17अनुराधा (Anurādhā)शनिःβ, δ and π Scorpionis03SC20-16SC40
18ज्येष्ठा (Jyeshtha)बुधःα, σ, and τ Scorpionis16SC40-30SC00
19मूला (Mūla)केतुःε, ζ, η, θ, ι, κ, λ, μ and ν Scorpionis00SG00-13SG20
20पूर्वाषाढा (Pūrva Ashādhā)शुक्रःδ and ε Sagittarii13SG20-26SG40
21उत्तराषाढा (Uttara Ashādhā)रविःζ and σ Sagittarii26SG40-10CP00
22श्रवणा (Shravana)चन्द्रःα, β and γ Aquilae10CP00-23CP20
23धनिष्ठा (Shravishthā) or Dhanisthāमङ्गलःα to δ Delphinus23CP20-06AQ40
24शतभिषा (Shatabhishaj)राहुःγ Aquarii06AQ40-20AQ00
25पूर्वभाद्रपदा (Pūrva Bhādrapadā)बृहस्पतिःα and β Pegasi20AQ00-03PI20
26उत्तरभाद्रपदा (Uttara Bhādrapadā)शनिःγ Pegasi and α Andromedae03PI20-16PI40
27रेवती (Revatī)बुधःζ Piscium16PI40-30PI00

28तमं नक्षत्रम्

[सम्पादयतु]

28तमं नक्षत्रं अभिजित् (Abhijit)(α, ε and ζ Lyrae - Vega - उत्तराषाढ़ा-श्रवणयो: मध्ये स्थितम्)

"https://sa.wikipedia.org/w/index.php?title=नक्षत्रम्&oldid=487259" इत्यस्माद् प्रतिप्राप्तम्