नक्षत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नक्षत्र इत्यस्मात् पुनर्निर्दिष्टम्)

ताराणां समूहः नक्षत्रमित्युच्यते । समस्ताकाशमण्डलात् सप्तविंशतिभिर्नक्षत्रैर्विभज्यते । प्रत्येकभागस्य नाम एकं नक्षत्र भवति । प्रत्येकनक्षत्रं चतुर्धा विभाज्यते तदैकचरणप्रमाणं ज्ञायते । नक्षत्राणां नामानि –

अश्विनी भरणी चैव कृत्तिका रोहिणी मृगः ।
आर्द्रा पुनर्वसु पुष्यस्तथाश्लेषा मघा ततः ॥
पूर्वाफाल्गुनिकाचैव उत्तराफाल्गुनी ततः ।
हस्तचित्रा तथा स्वाती विशाखा तदनन्तरम् ॥
अनुराघा ततो ज्येष्ठा ततो मूलं निगद्यते ।
पूर्वाषढोत्तराषाढा त्वभिच्छ्रवणा तथा ॥
घनिष्ठा शतताराख्यं पूर्वाभाद्रपदं ततः ।
उत्तराभाद्रपदं चैव रेवत्येतानि भानि च ॥

यथा-१. अश्विनी, २. भरणी, ३. कृत्तिका , ४. रोहिणी, ५. मृगशिरा, ६. आर्द्रा, ७.पुनर्वसु, ८. पुष्य, ९. आश्लेषा, १०. मघा, ११. पूर्वाफाल्गुनी, १२. उत्तराफाल्गुनी, १३. हस्त, १४. चित्रा, १५. स्वाती, १६. विशाखा, १७. अनुराधा, १८, ज्येष्ठा, १९. मूल, २०. पूर्वाषाढ, २१. उत्तराषाढ्, २२. श्रवणा, २३. धनिष्ठा, २४. शतभिषा, २५. पूर्वाभाद्रपद, २६. उत्तराभाद्रपद, २७. रेवती च । एतदतिरिक्तमभिजिदपि अष्टविंशतितमं नक्षत्रमस्ति । ज्योतिर्विदामभिप्रायः यदुत्तराषाढायाः अन्तिमचतुर्थांशस्तथा श्रवणायाः प्रारम्भिकपञ्चदशांशयोगेनाभिजिन्नक्षत्रं भवति तत्रोत्तराषाढायाः पञ्चदशघटिकास्तथा श्रवणस्य प्रारम्भिकचतुर्घटिकाः मिलित्वा १९. घटिकाः अभिजिन्नक्षत्रस्य भोगः वर्तते । सर्वेषु कार्येष्वेतानि प्रयुज्यन्ते ।

नक्षत्राणां स्वामी[सम्पादयतु]

नक्षत्रम् स्वामी नक्षत्रम् स्वामी
अश्विनी अश्विनीकुमारः भरणी यमः
कृत्तिका अग्निः रोहिणी ब्रह्मा
मृगशिरा चन्द्रमा आर्द्रा शिवः
पुनर्वसु अदितिः पुष्य गुरुः
आश्लेषा सर्पः मघा पितर
पूर्वाफाल्गुनी भगः उत्तराफाल्गुनी अर्यमा
हस्त सूर्यः चित्रा त्वष्ठा
स्वाती वायुः विशाखा इन्द्रः अग्निश्च
अनुराधा मित्रम् ज्येष्ठा इन्द्रः
मूल राक्षसः पूर्वाषाढ जलम्
उत्तराषाढ विश्वदेवः श्रवणा विष्णुः
धनिष्ठा वसुदेवः शतभिषा वरुणः
पूर्वाभाद्रपद ऊजयातब्रह्मा उत्तराभाद्रपद अहिर्बुहन्यसूर्यः
रेवती पूषा - -

उक्तं च बृहत्संहितायां यथा –
अश्विनीयमदहनकमलजशशिशुलभृददितिजीवफणिपितरः
योन्यर्यमद्रिनक्तत्वष्टपवनशक्राग्निमित्राश्च ।
शक्रो मित्रश्रतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्रुणः,
अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥

नक्षत्राणां प्रकारभेदः[सम्पादयतु]

नक्षत्राणि षोडशविधानि भवन्ति । एतेष्वेव सप्तविंशतिनक्षत्राणि भवन्ति । यथा-
१. ध्रुवसंज्ञकनक्षत्राणि –रोहिणी, उत्तराफाल्गुनी, उत्तराषाढ, उत्तरभाद्रपद ।
२. चरसंज्ञकनक्षत्राणि –पुनर्वसु, स्वाती, श्रवणा, धनिष्ठा, शतभिषा ।
३. उग्रनक्षत्राणि – भरणी, मघा, पूर्वाफाल्गुनी, पूर्वाषाढ ।
४. मिश्रनक्षत्राणि- कृत्तिका, विशाखा ।
५. क्षिप्रनक्षत्राणि – अश्विनी, पुष्य, हस्त, अभिजित् ।
६. मृदुनक्षत्राणि-मृगशिरा, चित्रा, अनुराधा, रेवती ।
७. तीक्ष्णनक्षत्राणि - आर्द्रा, आश्लेषा, ज्येष्ठा, मूल ।
८. उर्ध्वनक्षत्राणि, रोहिणी, पुष्य …….. ।
९. अधोमुखनक्षत्राणि- अश्लेषा, भरणी, कृत्तिका ……. ।
१०. तिर्यङ्मुखनक्षत्राणि- अश्विनी, पुनर्वसुः, हस्त, चित्रा, रेवती, अनुराधा…. ।
११. अन्धनक्षत्राणि – रोहिणी, विशाखा, धनिष्ठा …….. ।
१२. मध्यलोचननक्षत्राणि- भरणी, अश्लेषा, जेष्ठा ………. ।
१३. मन्दलोचननक्षत्राणि –शतभिषा, आश्लेषा, अनुराधा …….. ।
१४. सुलोचननक्षत्राणि-पुनर्वसु, स्वाती… ।
१५. पंचकनक्षत्राणि – धनिष्ठा, शतभिषा, पूर्वाभाद्र पदा, उत्तराभाद्रपदा, रेवती ।
१६. मूलनक्षत्राणि- ज्येष्ठा, अश्लेषा, रेवती, अश्विनी,मूल, मघा ।
यथा मुहूर्त्तचिन्तामणौ –
उत्तरात्रयरोहिण्यो भास्करश्च घ्रुवं स्थिरम् ।
तत्र स्थिरं वीजगेहशान्त्यारामादिसिद्धये ॥
स्वात्यादित्ये श्रुतेस्त्रीणि चन्द्रश्चापि चरं चलम् ।
तस्मिन् गजादिकारोहो वाटिकागमनादिकम् ।।
पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा ।
तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादिसिद्ध्यति ।।
विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् ।
तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादिसिद्ध्यति ।।
हस्ताश्विपुष्याभिजितः क्षिप्रं लघुगुरुस्तथा ।
तस्मिन्पण्यरतिज्ञानभूषाशिल्पकलादिकम् ।।
मृगान्त्यचित्रामित्रर्क्षं मूदुमैत्रं भृगुस्तथा ।
तत्र गीताम्बरक्रीडामित्रकार्यं विभूषणम् ॥
मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।
तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥
मूलाहिमिश्रोग्रमघोमुखं भवेद्रुर्ध्वास्यमार्देज्यहरित्रयं ध्रुवम् ।
तिर्यङ्मुखं मैत्रकरानिलादितिर्ज्येष्ठाश्विभानीदृशकृत्यभेषु सत् ॥
(मुहूर्त्तचिन्तामणिः – नक्षत्रप्रकरणम् / १-९)

नक्षत्राणां चरणाक्षराणि[सम्पादयतु]

चू चे चो चा अश्विनी । ली लू ले लो-भरणी ।आ इ उ ए –कृत्तिका । ओ वा वी वू- रोहिणी । वे वो का की- मृगशीरा । कू ध ङ् छ – आर्द्रा । के को ह ही –पुनर्वसु । हू हे हो डा-पुष्य । डी दू दे दी- अश्लेषा । मा मी मू मे –मघा । मो टा टी टू –पूर्वाफाल्गुनी । टे टो पा पी- उत्तराफाल्गुनी । पू ष ण ठ – हस्त । पे पो रारी- चित्रा । रु रे रो त- स्वाती । ती तू ते तो – विशाखा । ना नी नू ने –अनुराधा । नो या यी यू – ज्येष्ठा । ये यो भा भी- मूल । भू धा फा ढा –पूर्वाषाढ ।भे भो जा जी – उत्तराषाढा । खा खी खू खे –श्रवणा । गा गी गू गे – धनिष्ठा । गो सा सि सू – शतभिषा । से सो दा दी- पूर्वाभाद्रपद । दू थ भ ञ – उत्तराभाद्रपद । दे दो चा ची- रेवती ।

नक्षत्राणाम् आवली[सम्पादयतु]

# नाम देवता पाश्चात्यं नाम मानचित्रम् स्थिति:
1 अश्विनी (Ashvinī) केतुः β and γ Arietis Aries constellation map.png 00AR00-13AR20
2 भरणी (Bharanī) शुक्रः (Venus) 35, 39, and 41 Arietis Aries constellation map.png 13AR20-26AR40
3 कृत्तिका (Krittikā) रविः (Sun) Pleiades Taurus constellation map.png 26AR40-10TA00
4 रोहिणी (Rohinī) चन्द्रः (Moon) Aldebaran Taurus constellation map.png 10TA00-23TA20
5 मृगशिरा (Mrigashīrsha) मङ्गलः (Mars) λ, φ Orionis Orion constellation map.png 23TA40-06GE40
6 आर्द्रा (Ārdrā) राहुः Betelgeuse Orion constellation map.png 06GE40-20GE00
7 पुनर्वसु (Punarvasu) बृहस्पतिः(Jupiter) Castor and Pollux Gemini constellation map.png 20GE00-03CA20
8 पुष्या (Pushya) शनिः (Saturn) γ, δ and θ Cancri Cancer constellation map.png 03CA20-16CA40
9 आश्लेषा (Āshleshā) बुधः (Mercury) δ, ε, η, ρ, and σ Hydrae Hydra constellation map.png 16CA40-30CA500
10 मघा (Maghā) केतुः Regulus Leo constellation map.png 00LE00-13LE20
11 पूर्वफल्गुनी (Pūrva Phalgunī) शुक्रः (Venus) δ and θ Leonis Leo constellation map.png 13LE20-26LE40
12 उत्तरफल्गुनी (Uttara Phalgunī) रविः Denebola Leo constellation map.png 26LE40-10VI00
13 हस्ता (Hasta) चन्द्रः α, β, γ, δ and ε Corvi Corvus constellation map.png 10VI00-23VI20
14 चित्रा (Chitrā) मङ्गलः Spica Virgo constellation map.png 23VI20-06LI40
15 स्वातिः (Svātī) राहुः Arcturus Bootes constellation map.png 06LI40-20LI00
16 विशाखा (Vishākhā) बृहस्पतिः α, β, γ and ι Librae Libra constellation map.png 20LI00-03SC20
17 अनुराधा (Anurādhā) शनिः β, δ and π Scorpionis Scorpius constellation map.png 03SC20-16SC40
18 ज्येष्ठा (Jyeshtha) बुधः α, σ, and τ Scorpionis Scorpius constellation map.png 16SC40-30SC00
19 मूला (Mūla) केतुः ε, ζ, η, θ, ι, κ, λ, μ and ν Scorpionis Scorpius constellation map.png 00SG00-13SG20
20 पूर्वाषाढा (Pūrva Ashādhā) शुक्रः δ and ε Sagittarii Sagittarius constellation map.png 13SG20-26SG40
21 उत्तराषाढा (Uttara Ashādhā) रविः ζ and σ Sagittarii Sagittarius constellation map.png 26SG40-10CP00
22 श्रवणा (Shravana) चन्द्रः α, β and γ Aquilae Aquila constellation map.png 10CP00-23CP20
23 धनिष्ठा (Shravishthā) or Dhanisthā मङ्गलः α to δ Delphinus Delphinus constellation map.png 23CP20-06AQ40
24 शतभिषा (Shatabhishaj) राहुः γ Aquarii Aquarius constellation map.png 06AQ40-20AQ00
25 पूर्वभाद्रपदा (Pūrva Bhādrapadā) बृहस्पतिः α and β Pegasi Pegasus constellation map.png 20AQ00-03PI20
26 उत्तरभाद्रपदा (Uttara Bhādrapadā) शनिः γ Pegasi and α Andromedae Andromeda constellation map.png 03PI20-16PI40
27 रेवती (Revatī) बुधः ζ Piscium Pisces constellation map.png 16PI40-30PI00

28तमं नक्षत्रम्[सम्पादयतु]

28तमं नक्षत्रं अभिजित् (Abhijit)(α, ε and ζ Lyrae - Vega - उत्तराषाढ़ा-श्रवणयो: मध्ये स्थितम्)

"https://sa.wikipedia.org/w/index.php?title=नक्षत्रम्&oldid=475570" इत्यस्माद् प्रतिप्राप्तम्