पूर्वाषाढा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पूर्वाषाढानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पूर्वाषाढानक्षत्रं भवति विंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

पूर्वाषाढानक्षत्रम्

आकृतिः[सम्पादयतु]

पूर्वाषाढ-उत्तराषाढा द्वे द्वे भेकम् - मण्डूकस्य आकृतौ विद्यमाने द्वे नक्षत्रे ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

बू धा भा ढा - पूर्वाषाढनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थिवीर्याः ।
या सामषाढा अनुयन्ति कामं तान आपः शं स्योना भवन्तु ॥
याश्च कूप्याः समुद्रिया याश्च नाद्याः वैशन्तीरुत प्रासचीर्याः ।
या सामषाढा मधु भक्षयन्ति ता न आपः शं स्योना भवन्तु ॥ (तैत्तरीयब्राह्मणम् १-५-२)

तैत्तिरीयसंहितायां (४-४-१०) आषाढ नक्षत्रमापो देवता इति उल्लिखितम् अस्ति । तन्नाम पूर्वाषाढनक्षत्रस्य देवता आपः । वैदिकसाहित्य ब्रह्मचारिणः पवित्रः पलाशदण्डः आषाढ इत्युच्यते । अस्य स्वामी जलं वैदिकसाहित्ये घृत-मधु-अमृत-जीवन-पय-क्षीर-भेषज-रस-क्षेम-सुख-शुभ-पवित्रप्रभृतिभिः पदैः निर्दिष्टः अस्ति । तैत्तिरीयब्राह्मणे उल्लिखितमस्ति यत् आषाढनक्षत्रस्य यद् जलम् आकाशात् आगच्छति तत् अस्ति पवित्रम् । अतः तत् पेयं पयश्च । भूमिं प्रति आगमनावसरे अपि तत् तथैव तिष्ठति । तस्मिन् आपदेवः उपविष्टः अस्ति । आषाढनक्षत्रं तम् अनुगच्छति । जले स्थितं मधु पिबति पाययति च । इदं जलं कुपं समुद्रं सरोवरं जलाशयं नदीञ्च प्रविशति । इदमस्ति मधु । इदम् अस्माकं कल्याणकरि अस्ति ।

आश्रिताः पदार्थाः[सम्पादयतु]

आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥

मृदवो मार्दवयुक्ताः । जलमार्गगामिनो जलमार्गेण ये गच्छन्ति ते जलमार्गगामिनो धीवरा जलप्राणिनश्च । सत्ययुक्ताः सत्यभाषिणः । शौचयुक्ताः परधनादिष्वलुब्धाः । धनयुक्ता ईश्वराः । सेतुकराः सेतुं ये कुर्वन्ति । वारिजीवका वारिणा जलेन ये जीवन्ति तेनैवार्थार्जनं कुर्वन्ति । यानि चाम्बुजातानि जलसम्भूतानि फलानि कुसुमानि च । ते सर्व एवाऽऽप्ये पूर्वाषाढायाम् ।

स्वरूपम्[सम्पादयतु]

शम्बरबन्धनमोक्षणवापीकूपादिनिग्रहं हननम्।
द्रुमखण्डनवनचारिणपक्षिणां च यत्कार्यमम्बुभे कार्यम् ॥

पूर्वाषाढानक्षत्रे नूतनवस्त्रधारणम्, प्राचीनस्य त्यागः, नूतनकूपनिर्माणस्य निग्रहः, पुरातनकूपानां नाशः, वृक्षस्य खण्डनं, वनचारी, पक्षिहननम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

उग्रसंज्ञकनक्षत्राणि[सम्पादयतु]

उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥

अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वाषाढा&oldid=395579" इत्यस्माद् पुनः प्राप्तिः