उत्तराषाढा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते उत्तराषाढानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् उत्तराषाढानक्षत्रं भवति एकविंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

उत्तराषाढानक्षत्रम्

आकृतिः[सम्पादयतु]

पूर्वाषाढ-उत्तराषाढा द्वे द्वे भेकम् - मण्डूकस्य आकृतौ विद्यमाने द्वे नक्षत्रे ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

बे बो जा जि - उत्तराषाढनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

अन्नं पूर्वा रासतां भे आषाढा ऊर्जं देव्युत्तरा आ वहन्तु ॥

आषाढ नक्षत्रं विश्वेदेवा देवता इति उल्लिखितम् अस्ति । तन्नाम उत्तराषाढनक्षत्रस्य देवता विश्वेदेवः । ऋषयः समस्तदेवतासमूहं विश्वेदेवा इति कथयन्ति । सायणाचार्यः विश्वेदेवं देवविशेषं मन्यते । विश्वेदेवस्य भावभूमिकायां भारतीयार्याणां सङ्घात्मकभावः यः अस्ति सः सामाजिक-सांस्कृतिकैक्यस्य चिन्तनमपि विद्यते । वसवः आदित्याः यदा आहूयन्ते तदा विश्वेदेवः अपि आहूयते इत्येतत् तं विषयं समर्थयति । एतेनैव कारणेन अस्मिन् नक्षत्रे देवप्रतिष्ठापनम्, विवाहः, सीमन्तोन्नयनम्, राज्याभिषेकः, उपनयनम्, गृहारम्भः, गृहप्रवेशः इत्यादीनि सर्वाणि शुभकार्याणि क्रियन्ते । अथर्ववेदसंहितायां (१९-७-४) उक्तमस्ति यत् पूर्वाषाढनक्षते जलदेवताभ्यः उत्तराषाढनक्षत्रे विश्वेदेवाय च बलदायकं तेजोदायकं सुभक्ष्यम् अन्नं प्रदातव्यमिति ।

आश्रिताः पदार्थाः[सम्पादयतु]

विश्वेश्वरे महामात्रमल्लकरितुरगदेवतासक्ताः ।
स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥

महामात्रा हस्तिसाधनपतयः । मल्ला बाहुयुद्धज्ञाः । करिणो हस्तिनः । तुरगा अश्वाः । देवतासक्ता देवताभक्ताः । स्थावरा वृक्षादयः । योधा युद्धकुशलाः । भोगान्विताः भोगसमेताः । ये च जनास्तेजसा युक्तास्तेजस्विनः । ते सर्व एव विश्वेश्वर उत्तराषाढायाम् ।

स्वरूपम्[सम्पादयतु]

स्थापनमुण्डनमण्डनवास्तुनिवेशं प्रवेशनाद्यं च ।
बीजारोपणवाहनभूषणवस्त्रं च वैश्वभे कार्यम् ॥

उत्तराषाढानक्षत्रे स्थापनम्, मुण्डनम्, मण्डनम्, वास्तु, निवेशः, प्रवेशः, वाहनम्, आभूषणम्, वस्त्राणि इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

ध्रुवसंज्ञकनक्षत्राणि[सम्पादयतु]

त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
अभिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भात् ॥

अधुना ध्रुवाणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह –
तेभ्यो नक्षत्रेभ्यस्त्रीण्युत्तराणि उत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपदा तथा रोहिण्यः । एतानि नक्षत्राणि चत्वारि ध्रुवाणि स्थिराणीत्यर्थः । तैश्च ध्रुवैः किं तत् ? अभिषेको नृपादेः । शान्तिः शान्तिकमुत्पातप्रतीकारः । तरुवृक्षस्तस्य रोपणम् । नगरं पत्तनं तत्प्रतिष्ठादि । धर्मो धर्मक्रिया । बीजं बीजवपनम् । अन्येषां ध्रुवाणां स्थिराणां कर्मणामारम्भान् कुर्यादिति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उत्तराषाढा&oldid=395186" इत्यस्माद् प्रतिप्राप्तम्