रोहिणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते रोहिणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् रोहिणी भवति चतुर्थं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

कृत्तिकां दर्शयति वृषभमानचित्रम्

आकृतिः[सम्पादयतु]

शकटपञ्चरोहिणी - शकटस्य आकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

ओ वा वी वू - रोहिणीनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

प्रजापते वेतु पत्नी रोहिणी विश्वरूपा बृहती चित्रभानुः ।
सा नो यज्ञस्य सुविते दधातुं यथा जीवेम शरदः सुवीराः ॥
रोहिणी देव्युदगात् पुरस्तात् विश्वारूपाणि प्रतिमोदमाना ।
प्रजापतिं हविषा वर्धयन्ती प्रियादेवानामुपयातु यज्ञम् ॥ (तैत्तिरीयब्राह्मण ३-१-१)

रोहिणीनक्षत्रस्य अधिपतिः प्रजापतिः । तैत्तिरीयब्राह्मणस्य कथनानुगुणं रोहिणी प्रजापतेः पत्नी । प्रजापतिः बहुरूपा, बृहती, तेजस्वी च । सः अस्मदीयं यज्ञं सम्पन्नं करोति । ततः वयं दीर्घायुष्मन्तः भवाम । पुरतः एव रोहिणी उदेति । सा देवानां प्रिया । सम्पूर्णं विश्वं सन्तोषयति सा । हविषः प्रदानमात्रेण एव प्रजापतिः प्रसन्नः भविष्यति । वेदे प्रजापतिरोहिण्योः विषये उपाख्यानं यदुक्तं तत् न केवलं भूतकाले प्रवृत्तमात्रम् अद्यापि आकाशे व्याधरूपधारी शिवः, तदीयो श्वन् प्रश्वन् - नामकौ शुनौ, त्रिकाण्डबाणः, मृगरूपी ब्रह्मा, मृगरूपिणी रोहिणी च दृश्यन्ते ।

आश्रिताः पदार्थाः[सम्पादयतु]

रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसम्पन्नाः ॥

सुव्रताः शोभनव्रताः । पण्याः पण्यवृत्तयः । भूपा राजानः । धनिनः । योगयुक्ता योगरताः । शाकटिकाः शकटजीविनः । गावः । वृषा दान्तः । जलचराः प्राणिनः । कर्षकाः कृषिकराः । श्लोच्चयाः पर्वताः । ऐश्वर्यसम्पन्ना ऐश्वर्ययुक्ताः । एते रोहिण्यामाश्रिताः ।

स्वरूपम्[सम्पादयतु]

सुरनरसद्माद्यखिलं विवाहधनधान्यसङ्ग्रहोपनयनम् ।
उत्सवभूषणमङ्गलमजभे कार्यं सपौष्टिकं कर्म ॥

रोहिणीनक्षत्रे देवतायाः मनुष्यस्य गृहनिर्माणं, विवाहः, धनधान्यसङ्ग्रहः, उपनयनसंस्कारः, उत्सवः, आभूषणम्, माङ्गलिक-पौष्टिकादीनि कार्याणि कर्तुं शक्यन्ते ।

ध्रुवसंज्ञकनक्षत्राणि[सम्पादयतु]

त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
अभिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भात् ॥

अधुना ध्रुवाणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह – तेभ्यो नक्षत्रेभ्यस्त्रीण्युत्तराणि उत्तरफल्गुनी उत्तराषाढोत्तरभाद्रपदा तथा रोहिण्यः । एतानि नक्षत्राणि चत्वारि ध्रुवाणि स्थिराणीत्यर्थः । तैश्च ध्रुवैः किं तत् ? अभिषेको नृपादेः । शान्तिः शान्तिकमुत्पातप्रतीकारः । तरुवृक्षस्तस्य रोपणम् । नगरं पत्तनं तत्प्रतिष्ठादि । धर्मो धर्मक्रिया । बीजं बीजवपनम् । अन्येषां ध्रुवाणां स्थिराणां कर्मणामारम्भान् कुर्यादिति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रोहिणी&oldid=395790" इत्यस्माद् पुनः प्राप्तिः