चित्रा (नक्षत्रम्)
रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते चित्रानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् चित्रानक्षत्रं भवति चतुर्दशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।
आकृतिः
[सम्पादयतु]चित्ता मौक्तिकमेकम् - मौक्तिकाकृतौ विद्यमानं किञ्चन नक्षत्रम् ।
सम्बद्धानि अक्षराणि
[सम्पादयतु]पे पो रा री - चित्रानक्षत्रसम्बद्धानि अक्षराणि ।
अधिदैवम्, वैदिकविवेचनम्
[सम्पादयतु]- त्वष्टा नक्षत्रमभ्येति चित्रां शुभंशसं युवतिं रोचमानाम् ।
- निवेशयन्नमृतं भुवनानि विश्वा । तन्नक्षत्रं भूरिदमस्तु प्रजां वीरवतीं सनोतु गोभिर्नो अश्वैः संयुनक्तु ॥
वेदे चित्रानक्षत्रस्य अधिपतिः इन्द्रः इति निर्दिष्टः अस्ति । चित्रानक्षत्रमिन्द्रो देवता इत्येषः उल्लेखः तैत्तिरीयसंहितायाः ४-४-१० मन्त्रे दृश्यते । किन्तु तैत्तरीयब्राह्मणे चित्रानक्षत्रस्य अधिपतिः त्वष्टा देवता इति निर्दिष्टम् । अयं सुन्दर्या युवत्या चित्रया सह आगच्छन् अस्ति । सा अमृतवर्षिणी भुवनरक्षिका च । सः अस्मान् अनुगृह्णातु । धन-धेनु-अश्वादिभिः अस्मान् समृद्धान् करोतु ।
चित्रानक्षत्रं सप्तविंशत्सु नक्षत्रेषु मध्यमम् अस्ति । प्राचीनखगोलशास्त्रग्रन्थेषु चित्रानक्षत्रं दीर्घकर्णयुक्तः उलूकः इव चित्रितमस्ति । अतः एव वेदेषु इन्द्रः वृद्धश्रवाः तन्नाम दीर्घकर्णयुक्तः इति निर्दिष्टः ।
आश्रिताः पदार्थाः
[सम्पादयतु]- त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
- गणितपटुतन्तुवायाः शालाक्या राजधान्यन्ति ॥
भूषणज्ञा अलङ्कारादिषु कुशलाः । मणिज्ञा मणिलक्षणज्ञाः । रागज्ञा यैर्वस्त्रादिषु रागः क्रियते । लेख्यज्ञा लिपिवेत्तारः । गान्धर्वज्ञा गीतविदः । गन्धयुक्तिज्ञा बहुभिर्द्रव्यैर्मिश्रितैर्विशिष्टतरं सुगन्धद्रव्यं ये उत्पादयन्ति । गणितपटवो गणितदक्षाः । तन्तुवायाः कौकिकाः । शालाक्या अक्षिरोगचिकित्सकाः । राजधान्यं राजोपयोगि यद्धान्यं षष्टिकादि । एतत्सर्वं त्वाष्ट्रे चित्रायाम् ।
स्वरूपम्
[सम्पादयतु]- शान्तिकपौष्टिकमखिलं स्थिरकार्यवस्त्रभूषणं शिल्पम् ।
- उपनयनं वास्तुकृषिक्षितिपतिकार्यं च चित्रायाम् ॥
चित्रानक्षत्रे शान्तिकर्म, सम्पूर्णपौष्टिककर्म, स्थिरकर्म, वस्त्रम्, आभूषणम्, शिल्पकर्म, उपनयनम्, वास्तु, कृषिकर्म, राज्ञः कर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।
मृदुसंज्ञकनक्षत्राणि
[सम्पादयतु]- मृदुवर्गोऽनूराधाचित्रापौष्णैन्दवानि मित्रार्थे ।
- सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ॥
अथ मृदूनि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -
अनूराधा । चित्रा । पौष्णं रेवती । ऐन्दवं मृगशिरः । एतानि चत्वारि नक्षत्राणि मृदुवर्गः । तानि च मित्रार्थे मित्रवरणार्थं श्रवणादिप्रयोगे । सुरतविधौ सुरतकर्मणि । वस्त्रेषु वस्त्रकर्मादिषु । भूषणेष्वलङ्करणेषु । मङ्गलेषु विवाहोपनयनचूडाकरणेषु । गीते च । एतेषु च कर्मसु च हितानि श्रेष्ठानि ।