सामग्री पर जाएँ

अनुराधा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते अनुराधानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् अनुराधानक्षत्रं भवति सप्तदशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

अनुराधानक्षत्रम्

आकृतिः

[सम्पादयतु]

अनूराधा ज्येष्ठाङ्गुल छत्राकारत्रयम् - छत्राकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि

[सम्पादयतु]

ना नी नू ने - अनुराधानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्

[सम्पादयतु]
चित्रं नक्षत्रमुदगात् पुरस्तात् अनुराधा इति यद् वदन्ति ।
तस्मिन् मित्र एति पथिभिर्देवयानैर्हिरण्ययैर्विततैरन्तरिक्षे ॥

वैदिकसाहित्ये अनुराधा नक्षत्रं मित्रो देवता इत्युक्तम् । तन्नाम विशाखानक्षत्रस्य अधिपतिः मित्रदेवता तन्नाम सूर्यदेवः । वेदे 'राद्ध' इत्येतस्य अर्थः समृद्धिः इति । अत एव अनुराधानक्षत्रं समृद्धिदात्री इति कथ्यते । इदं नक्षत्रं राधा(विशाखा)नक्षत्रस्य अनन्तरम् भवति इत्यतः अनुराधा इति निर्दिश्यते । आराधनशब्दस्य अर्थः अपि अस्मिन्नेव अर्थे इति कारणतः इदं नक्षत्रं सिद्धि-समृद्धिदायकम् अस्ति । तैत्तरीयब्राह्मणस्य अनुसारं पूर्वदिशि उदेति । अस्मिन् नक्षत्रे मित्रदेवः अन्तरिक्षे स्थितेन स्वर्णनिर्मितेन देवयानेन आगच्छति ।
उपरितने अनुवाके 'मैत्रेण कृषन्ते' इत्यस्य अर्थं विवृण्वन् आचार्यः सायणः कथयति यत् अनुराधानक्षत्रे हलः चाल्यते इति । अत्र अनुराधायाः व्युत्पत्तिः 'अन्वेषामरात्स्मेति । तदनूराधाः' इति दर्शिता अस्ति ।

आश्रिताः पदार्थाः

[सम्पादयतु]
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥

शौर्यसमेता बलसंयुक्ताः । गणनायका गणप्रधानाः । साधूनां ये रताः । गोष्ठिरता नर्मसक्ताः । यानरता वाहनसक्ता गमनसक्ता वा । ये च लोके जनपदे साधवः सज्जनाः । शरत्समुत्पन्नं शारदं सर्वमशेषं यत्किञ्चिद्धान्यादि । एतन्मैत्रेऽनुराधायाम् ।

स्वरूपम्

[सम्पादयतु]
करमर्दनमुपनयनं यात्रासुरसद्मसन्निवेशाद्यम् ।
स्थिरचरकार्यं त्वखिलं भूषणश्वेभकर्म मित्रर्क्षे॥

अनुराधानक्षत्रे विवाहः, उपनयनम्, यात्रा, देवताप्रतिष्ठापनम्, स्थिरकर्म, चरकर्म, आभूषणकार्यम्, अश्व-हस्तिसम्बन्धिनी कार्याणि इत्यादीनि कर्तुं शक्यन्ते ।

मृदुसंज्ञकनक्षत्राणि

[सम्पादयतु]
मृदुवर्गोऽनूराधाचित्रापौष्णैन्दवानि मित्रार्थे ।
सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ॥

अथ मृदूनि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - अनूराधाचित्रा । पौष्णं रेवती । ऐन्दवं मृगशिरः । एतानि चत्वारि नक्षत्राणि मृदुवर्गः । तानि च मित्रार्थे मित्रवरणार्थं श्रवणादिप्रयोगे । सुरतविधौ सुरतकर्मणि । वस्त्रेषु वस्त्रकर्मादिषु । भूषणेष्वलङ्करणेषु । मङ्गलेषु विवाहोपनयनचूडाकरणेषु । गीते च । एतेषु च कर्मसु च हितानि श्रेष्ठानि ।



"https://sa.wikipedia.org/w/index.php?title=अनुराधा&oldid=395096" इत्यस्माद् प्रतिप्राप्तम्