ज्येष्ठा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

फलकम्:Underlinked

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते ज्येष्ठानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् ज्येष्ठानक्षत्रं भवति अष्टादशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

ज्येष्ठानक्षत्रम्

आकृतिः[सम्पादयतु]

अनूराधा ज्येष्ठाङ्गुल छत्राकारत्रयम् - छत्राकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

नो या इ ई - ज्येष्ठानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

इन्द्रो ज्येष्ठामनुनक्षत्रमेति यस्मिन् वृत्रं वृत्रतूर्ये ततार ।
तस्मिन् वयममृतं दुहाना क्षुधं दुरितिं दुरिष्टिं तरेम् ॥
पुरन्दराय वृषभाय धृष्णवे आषाढाय सहमानाय मीढुषे ।
इन्द्राय ज्येष्ठा मधुमद्दुहानाः । उक्तं कृणोतु यजमानाय लोकम् ॥

वैदिकसाहित्ये ज्येष्ठानक्षत्रमिन्द्रो देवता इत्युक्तम् । तन्नाम ज्येष्ठानक्षत्रस्य अधिपतिः इन्द्रः । इन्द्रः देवतासु ज्येष्ठः । अतः तस्य नक्षत्रं ज्येष्ठानक्षत्रमिति निर्दिष्टम् । ज्येष्ठायाः तिस्त्रः ताराः नितरां सुन्द्रराः दृश्यन्ते इत्यतः ज्योतिर्विदाः तत् 'कुण्डल'नाम्ना निर्दिष्टवन्तः । तैत्तिरीयब्राह्मणस्य कथनानुसारं ज्येष्ठानक्षत्रम् इन्द्रस्य प्रियं वर्तते । देवासुरयुद्धे इन्द्रः अस्मिन् एव नक्षत्रे असुराधिपस्य वृत्रस्य वधाम् अकरोत् । इन्द्रः ज्येष्ठया सह आगच्छन् अस्ति । अस्मिन् नक्षत्रे वयम् अमृतं प्राप्य क्षुधा-दुर्गति-कष्टेभ्यः मुक्तिं प्राप्नुमः। इन्द्रः दुष्टानां नाशकः, बली, धीरः, वीरः, व्रती, सहिष्णुः, सज्जनानां सन्तोषयिता, मधुनः दोग्धा च अस्ति । तं वयं नमस्कुर्मः ।

ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात् परिपाह्येनम् ।
अत्येन् नेषद् दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥
व्याघ्रेऽह्नय् जनिष्ठ वीरो नक्षत्रजा जायमानः सूवीरः ।
स मा वधीत् पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥ (अथर्ववेद ६-११०-२,३)

ज्येष्ठानक्षत्रम् अशुभम् उग्रञ्च अस्ति इति उल्लेखः वेदे विद्यते । अस्मादेव कारणाद् अथर्ववेदे इदं नक्षत्रं कुलघातकम् इति लिखितम् । ज्येष्ठानक्षत्रे जातः ज्येष्ठानां मारकः भवेत् इति कुत्रचित् उल्लिखितमस्ति ।

आश्रिताः पदार्थाः[सम्पादयतु]

पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥

अतिशूरा अतिसङ्ग्रामधीराः । कुलेनाभिजनेन वित्तेन धनेन यशसा कीर्त्या च अन्विताः संयुक्ताः । परस्वहृतः परधनहन्तारः । ये च नरेन्द्रा राजानो विजिगीषवः परान् जेतुमिच्छवः । ये च सेनानां नेतारः सेनापतयः । एते सर्व एव पौरन्दरे ज्येष्ठायाम् ॥

स्वरूपम्[सम्पादयतु]

रिपुवधभेदनदहनप्रहरणवह्निलोहकार्याद्यम् ।
स्तेयविधानं विविधं शिल्पं चित्रं सुरेशभे कार्यम् ॥

ज्येष्ठानक्षत्रे शत्रुसंहारः, भेदनम्, दाहनम्, प्रहरणम्, अग्निकार्यम्, लोहसम्बद्धकार्यम्, चौर्यम्, शिल्पकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

तीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
अभिघातमन्त्रवेतालबन्धभेदसम्बद्धाः

अथ तीक्ष्णानि नक्षत्राणि तैर्यानि कर्माणि क्रियन्ते तानि चाह -
मूलं प्रसिद्धम् । शिवाधिपमार्द्रा । शक्राधिपं ज्येष्ठा । भुजगाधिपं सर्पदैवत्यमाश्लेषा । एतानि नक्षत्राणि तीक्ष्णानि दारुणानीत्यर्थः । तेषु तीक्ष्णेषु सिद्ध्यन्ति । के ते ? अभिघात उपद्रवः । मन्त्रो मन्त्रसाधनप्रयोगः । वेतालं वेतालोत्थापनादिकर्म । बन्धो बन्धनम् । वधस्ताडनम् । भेदः पृथ्क्करणं श्लिष्टयोर्द्वयोः । सम्बन्धो राजकुल आवेदनम् । एते सिद्ध्यन्ति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ज्येष्ठा&oldid=265709" इत्यस्माद् पुनः प्राप्तिः