सामग्री पर जाएँ

सम्मेदशिखरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सम्मेदशिखरम् ( /ˈsəmmɛdəʃɪkhərəm/) (हिन्दी: सम्मेदशिखर,आङ्ग्ल: Sammed Shikhar) इत्येतत् जैनमतानुयायिनां पवित्रतमं स्थलं वर्तते । इदं चतुर्विंशतितीर्थङ्करेषु विंशतितीर्थङ्कराणां निर्वाणस्थानं वर्तते । भारतस्य झारखण्ड-राज्यस्य गिरिडीह-मण्डले स्थितम् इदं स्थलम् । इदं स्थलं जैनधर्मस्य “महातीर्थम्” अपि कथ्यते । सम्मेदशिखरस्य भूमिः पवित्रा अस्ति । विश्वस्य महत्त्वपूर्णं जैनतीर्थम् अस्ति सम्मेदशिखरम् । अयं १३५० (४४३० फीट्) मीटरमितः उन्नतः पर्वतः अस्ति । अयं झारखण्ड-राज्यस्य उच्चतमः पर्वतः वर्तते ।

नामरहस्यम्

[सम्पादयतु]

सम्मेदशिखरं भारतस्य जैनसमाजस्य सर्वोत्तमः तीर्थराट् मन्यते । अस्य मूलनाम किम् ? अर्थः कः ? अन्यानि कानि नामानि सन्ति ? सम्मेदशिखरम् इति नाम कथम् अभवत् ? इत्यादयः प्रश्नाः भवन्ति ।

“जिनागम श्री ज्ञाता” इत्यस्मिन् धर्मकथासूत्रे भगवतः मल्लिनाथस्य ध्यानम् अस्ति । तस्मिन् ध्याने “सम्मेय पव्वए”, सम्मेयसेलसिहरे इत्यादयः शब्दाः प्रयुज्यमानाः सन्ति । “श्री पर्युषण कल्पे”, “अपरनाम श्री कल्पसूत्रे” इत्येतयोः ग्रन्थयोः भगवतः पार्श्वनाथस्य ध्याने “सम्मेयसेलसिंहरमि” इति शब्दः प्राप्यते । “वसुदेव हिण्डी” इत्यस्मिन् प्राचीनग्रन्थे “सम्मेय पव्वए” शब्दस्य प्रयोगः कृतः अस्ति । अनेन ज्ञायते यत् – “अस्य पर्वतस्य नाम “सम्मेद” एव अस्ति । अनन्तरं सम्मेदशब्दस्य पृष्ठे पर्वतस्य पर्यायवाचिनः शब्दाः संयोज्यमानाः सन्ति । अतः सम्मेदशैल. सम्मेदाचल, सम्मेदगिरिः, सम्मेदशिखरम् इत्यादीनि नामानि प्राप्यन्ते ।

मध्यकालीनसाहित्यात् ज्ञायते यत् - सम्मेदशिखरे ये जनाः निवसन्ति स्म, तेषु अपि केचन समिदिगिरिः, समाधिगिरिः वा अपि इति कथयन्ति स्म । इदं विंशतितीर्थङ्कराणां निर्वाणस्थानं, समाधिस्थानं च वर्तते । अतः समाधिगिरिः अपि वक्तुं शक्यते ।

स्थानीयजनाः पारसनाथपर्वतः इत्यपि प्रयुज्यन्ते । सर्वकारीयकार्यालयेषु अपि इदं नाम एव प्रचलितम् अस्ति । पत्रालयः अपि “पारसनाथ पोस्ट् ऑफिस्” इति नाम्ना प्रसिद्धः । इदं स्थलं तपोवनम् वर्तते । यतः तत्र तीर्थङ्करैः दीर्घकालं यावत् उपासना कृता । किन्तु तेषु तीर्थङ्करेषु त्रयोविंशतितमः तीर्थङ्करः पार्श्वनाथः विशेषः वर्तते । “इदं स्थलं रमणीयं, पवित्रम्, एकान्तम् अस्ति” इति ज्ञात्वा पार्श्वनाथः बहुवारं तत्र गतवान् आसीत् । पार्श्वनाथेन तस्मिन् विस्तारे एव विचरणं कृतम् आसीत् । तेन बहूनि प्रवचनानि कृतानि आसन् ।

तत्रत्याः जनाः पार्श्वनाथस्य सम्माननं कुवन्ति स्म । इदानीम् अपि पार्श्वनाथस्य जन्मदिवसे तत्र उत्सवः आचर्यते । तस्मिन् उत्सवे जैनेतराः जनाः अधिकाः भवन्ति । साम्प्रतमपि जनाः निष्ठापूर्वकं तस्य भक्तिं कुर्वन्ति । जनाः ‘पारसनाथ महादेवः’, ‘पारसनाथ बाबा’ इत्यादिभिः नामभिः स्मरन्ति । उडीसा-राज्ये बहवः जनाः ये जैनाः न सन्ति, ते पार्श्वनाथमहावीरयोः समन्वितप्रतिमां स्वगृहे स्थापयन्ति ।

अस्य पर्वतस्य समीपस्थेषु क्षेत्रेषु भगवतः पार्श्वनाथस्य प्रभावः अत्यधिकः आसीत् । अतः एव “पारसनाथपर्वतः” इति नाम अपि प्रसिद्धं जातम् । ये जनाः जानन्ति यत् – “पारसनाथः जैनानुयायियां देवः अस्ति । अयं पर्वतः तीर्थङ्कराणां निर्वाणभूमिः वर्तते । ते अयं पर्वतः “पारसनाथस्य पर्वतः”, जैनतीर्थङ्कराणां पर्वतः च इति कथयन्ति ।

जैनागमेषु, पञ्चाङी, वासुदेव हिण्डी, चडवण्ण महापुरिस चरित्र, त्रिषष्टिशलाका पुरुष चरित्र, तीर्थकल्प इत्याद्षु चरित्रग्रन्थेषु “सम्मेदशिखरम्” इति नाम्नः उल्लेखः प्राप्यते []

मान्यताः

[सम्पादयतु]

सम्मेदशिखरं जैनधर्मस्य पवित्रतमेषु स्थलेषु अन्यतमं वर्तते । जैनधर्मेषु सम्मेदशिखरस्य महत्वं प्रतिपादितम् अस्ति । जैनग्रन्थेषु प्राप्यते यत् – यदि कोऽपि जनः जीवने एकवारम् एव सम्म्देशिखरतीर्थस्य यात्रां कुर्यात्, तर्हि सः पशुयोनौ, नरके च न गच्छति । कोऽपि जनः सम्मेदशिखरतीर्थं प्राप्य निष्ठापूर्वकं, भावपूर्वकं च भक्तिं करोति, सः मोक्षम् अवाप्नोति । तस्मिन् क्षेत्रे बहवः वनेचराः सन्ति । यथा – व्याघ्रः, सिंहः, मृगः इत्यादयः । तथापि तत्र वनेचराणां हिंसकः व्यवहारः न दृश्यते । अतः यात्रिणः भयेन विना एव यात्रां कुर्वन्ति ।

इतिहासः

[सम्पादयतु]

तीर्थङ्करेषु चतुर्विंशतितमस्य तीर्थङ्करस्य महावीरस्य पावापुरी-ग्रामे निर्वाणम् अभवत् । यद्यपि सः छद्मावस्थायां सम्मेदशिखरतीर्थं गतवान् । यतः सम्मेदशिखरपर्वतस्य समीपे ऋजुबालुका-नद्यास्तटे जम्भिय-ग्रामे महवीरः केवलज्ञानं प्रापत् []। पावापुरी-ग्रामः जम्भिय-ग्रामात् १२ योजने दूरे स्थितः अस्ति । अतः सम्भाव्यते यत् – “महावीरः सम्मेदशिखरप्रदेशम् अपि गतवान् आसीत्” । अतः भगवतः महावीरस्य स्मारिका अपि निर्मापिता अस्ति ।

आचार्यप्रद्युम्नसूरिणा नवमशताब्द्यां बहुवारं मगधदेशस्य भ्रमणं कृतम् । तेन सप्तवारं सम्मेदशिखरस्य यात्रा कृता आसीत् । पूर्वदेशे सप्तदश (१७) जिनालयतीर्थानि, एकादश जैनग्रन्थालयाः च प्रस्थापिताः । नवमशताब्द्याः प्रारम्भे सम्मेदशिखरप्रदेशे धर्मान्धतायाः आधिक्यम् आसीत् । किन्तु नवमशताब्द्याः अन्ते सम्मेदशिखरे सप्तदश (१७) तीर्थेषु निर्वाणस्तूपाः, जिनालयाः च निर्मापिताः । अनन्तरं ये जैनाः सम्मेदशिखरस्य यात्रां कर्तुं गतवन्तः आसन्, तैः सम्मेदशिखरे बह्व्यः स्मारिकाः, स्तूपाः च स्थापिताः । किन्तु अस्य कुत्रापि प्रामाणिकोल्लेखः न प्राप्यते ।

  • ई. स. १६७० तमे वर्षे आगरा-क्षेत्रस्य राज्ञा कुरपाल सोनपाल लोढा इत्याख्येन जिनालयानाम् जीर्णोद्धारः कृतः ।
  • ई. स. १५६२ तमस्य वर्षस्य अप्रैल-मासस्य द्वादशे (१२/०४/१५६२) दिनाङ्के अकबर-राज्ञा आचार्यवीरविजयसूरये सम्मेदशिखरम् उपहारस्वरूपेण प्रदत्तम् आसीत् ।
  • ई. स. १७५२ तमे वर्षे देहली-राज्यस्य अष्टदशेन राज्ञा अहमदशाह इत्याख्येन मधुबन-कोठी, जयपारनाला, जलहरी कुण्ड. पारसनाथपर्वतः च महताbaराय इत्यस्मै उपहारत्वेन प्रदत्तः आसीत् ।
  • ई. स. १७५५ तमवर्षतः अबुअलीखान बहादुर इत्याख्येन राज्ञा पारसनाथपर्वतः करमुक्तः उद्घोषितः ।

महताब राय इत्याख्यः सम्मेदशिखरमहातीर्थस्य मन्दिराणां जीर्णोद्धारं कर्तुम् इच्छति स्म । अतः तेन सम्मेदशिखरं करमुक्तं कारितम् । अनन्तरं मन्दिराणां जीर्णोद्धारः आरब्धः । समयान्तरे “महताब राय” इत्याख्यस्य मृत्युः अभवत् । ततः परं तत्कालीनेन राज्ञा आलम इत्याख्येन “महताब राय” इत्याख्यस्य ज्येष्ठपुत्राय “खुशालचन्द” इत्याख्याय “जगत् शेठ” इत्युपाधिः प्रदत्तः, तस्मै आज्ञापत्रं प्रदत्तं च ।

जीर्णोद्धारकार्यं पूर्ववत् एव प्रचलत् आसीत् । “खुशालचन्द” इत्याख्यस्य अपि इच्छा आसीत् यत् – “विंशतिः तीर्थङ्कराणां पादचिह्नानि भवेयुः” इति । अतः तेन सम्मेदशिखरे चरणपादुकानां, स्तूपानां स्थापना कारिता । तत्र तेन “जलमन्दिरम्” इति नामकः जिनप्रासादः अपि निर्मापितः । तस्मिन् प्रासादे जिनप्रतिमानां स्थापना जाता । अनेन प्रकारेण सम्मेदशिखरस्य जीर्णोद्धारकार्यं पूर्णम् अभवत् । साम्प्रतं गुजरात-राज्यस्य कर्णावती-नगरस्य पारसनाथपर्वतस्य प्रबन्धकः आनन्द जी कल्याण जी इत्याख्यस्य कश्चन कौटुम्बिकः एव अस्ति ।

मधुवनम्

[सम्पादयतु]

इदं स्थलं सम्मेदशिखरस्य समीपे एव वर्तते । अतीव रमणीयमस्ति स्थलमिदम् । इदं स्थलं परितः वृक्षाः सन्ति । अस्य स्थलस्य इतिहासः कः ? इति प्रश्नः भवति । यतः वि. सं. १७५० तमवर्षपर्यन्तं तीर्थवर्णनेषु मधुवनस्य उल्लेखः न प्राप्यते । किन्तु वि. सं. १८३५ तमे वर्षे दयारुचिगणि इत्याख्येन रचिते “सम्मेतशिखर-रास” अस्मिन् ग्रन्थे मधुवनस्य उल्लेखः प्राप्यते ।

वि. सं. १८०९ तमे वर्षे अहमदशाह इत्याख्येन राज्ञा महताबचन्दाय मधुवन, जयपारनाला इत्यादिनी स्थलानि उपहारस्वरूपेण प्रदत्तानि आसन् । अतः तदारभ्य अस्य स्थलस्य महत्त्वं वर्धितम् आसीत् । अष्टादशशताब्द्याम् अस्य स्थलस्य विकासस्य आरम्भः अभवत् इति अनुमानम् । पुरा पादचारेण तीर्थयात्रा क्रियते स्म । अतः यात्रा कठिना भवति स्म । यात्रासु नद्यः, वनानि च अवरोधकत्वेन भवन्ति स्म । तस्मिन् समये एकाकी जनः यात्रां न करोति स्म । जनाः समूहेषु एव यात्रां कुर्वन्ति स्म ।

जैनधर्मानुयायिनः इमां सम्मेदशिखरस्य यात्रां कुर्वन्ति स्म । यात्रायाः आरम्भाय जनाः पालगञ्ज-स्थलं प्राप्य मधुवनं गच्छन्ति स्म । पालगञ्ज-स्थलस्य राज्ञः आज्ञां सम्प्राप्य, पार्श्वनाथस्य मूर्तिं नीत्वा जनाः मधुवनं गच्छन्ति स्म । मधुवने पार्श्वनाथस्य मूर्तेः स्थापनां कुर्वन्ति स्म । अनन्तरं तत्रैव उत्सवः आचर्यते स्म ।

साम्प्रतं कोऽपि पालगञ्ज-स्थलं न गच्छति । यतः गिरिडीह-रेलस्थानकस्य निर्माणम् अभवत् । अतः जनाः ततः मधुवनं गच्छन्ति । जनाः पालगञ्ज-स्थलस्य माहात्म्यम् अपि न जानन्ति[]

पर्वतारोहणम्

[सम्पादयतु]

मधुवनानन्तरं भोमिया-महाराजस्य मन्दिरं स्थितम् अस्ति । कथ्यते यत् – भोमिया-महाराजस्य दर्शनेन यात्रा कष्टेन विना परिपूर्णा भवति । अस्य मन्दिरस्य समीपं तीर्थङ्कराणां मन्दिराणि सन्ति । मार्गशीर्ष-मासस्य कृष्णपक्षस्य दशम्यां तिथौ, फाल्गुन-मासस्य शुक्लपक्षस्य पूर्णिमायां तिथौ च सम्मेदशिखरे उत्सवः आचर्यते । अतः बहवः जनाः एकत्रिताः भवन्ति स्म । यद्यपि आवर्षं यात्रिकाणाम् आवागमनं तु भवति एव, तथापि सः दिवसः विशिष्टः भवति । भेमियामहाराजस्य मन्दिरात् सम्मेदशिखरस्य आरोहणं क्रियते ।

मार्गे सर्वप्रथमं चतुर्विंशतितीर्थङ्कराणां जिनालयः आगच्छति । जिनालये सर्वेषां तीर्थङ्कराणां मूर्तयः सन्ति । ततः आरोहणाय सङ्करी-इत्यतः सर्पाकारः मार्गः वर्तते । तेन मार्गेण गन्धर्वनाला-स्थलं प्राप्यते । तत्र जैनविश्रामालयः अस्ति । ततः आरोहणं कष्टमयं भवति । तत्र मार्गद्वयम् अस्ति । आवागमनाय तौ मार्गौ भवतः । अनन्तरं “सीतानाला”-स्थलं प्राप्यते । सम्पूर्णे पर्वते एकत्रिंशत् स्मारकाणि सन्ति । तेषु त्रिंशत् स्मारकेषु चरणपादुकाः सन्ति । एकस्मिन् स्मारके मन्दिरं वर्तते । तस्मिन् मन्दिरे बह्व्यः मूर्तयः सन्ति । पर्वते मन्दिराणि अल्पसङ्ख्यकानि सन्ति । यतः पर्वते प्रकृत्याः प्रकोपः अधिकः भवति । तेन मन्दिराणि नष्टानि भवन्ति । अतः मन्दिराणां निर्माणं न क्रियते । सर्वेषां तीर्थङ्कराणां दर्शनं कुर्वन् यात्रिकाः पर्वतारोहणं कुर्वन्ति । अनेन प्रकारेण अष्टादश-योजनमिता यात्रा प्रातःकालात् सन्ध्यापर्यन्तं सम्पूर्णा भवति ।

उद्धाराः

[सम्पादयतु]

चतुर्विंशतितीर्थङ्करेषु विंशतितीर्थङ्कराणां निर्वाणं सम्मेदशिखरे एव अभवत् । तैः अस्य तीर्थस्य जीर्णोद्धारः कृतः आसीत् []। ते -

  1. द्वितीयः तीर्थङ्करः अजितनाथः यदा निर्वाणं प्राप्तवान्, तदा अयोध्यानगर्याः चक्रवर्तिनः राज्ञः सागरस्य पौत्रेण भगीरथेन सागरसूरि इत्याख्यस्य उपदेशानुसारम् अस्य तीर्थस्य जीर्णोद्धारः कृतः आसीत् ।
  2. तृतीयतीर्थङ्करस्य सम्भवनाथस्य निर्वाणानन्तरं हेमनगरस्य राज्ञा हेमदत्तेन वारुक-इत्याख्यस्य गणधरस्य उपदेशानुसारं द्वितीयः जीर्णोद्धारः कृतः ।
  3. चतुर्थतीर्थङ्करस्य अभिनन्दननाथस्य निर्वाणानन्तरं घातकीखण्डस्य पुरणपुरस्य राज्ञा रत्नशेखरेण अस्य तीर्थस्य तृतीयः जीर्णोद्धारः कृतः आसीत् ।
  4. पञ्चमतीर्थङ्करस्य अभिनन्दननाथस्य निर्वाणानन्तरं घातकीखण्डस्य पुरणपुरस्य राज्ञा रत्नशेखरेण अस्य तीर्थस्य चतुर्थः जीर्णोद्धारः कृतः आसीत् ।
  5. षष्ठतीर्थङ्करस्य पद्मप्रभोः निर्वाणानन्तरं प्रभाकरनगरस्यस्य राज्ञा सुप्रभेण अस्य तीर्थस्य पञ्चमः जीर्णोद्धारः कृतः आसीत् ।
  6. सप्तमतीर्थङ्करस्य सुपार्श्वनाथस्य निर्वाणानन्तरं राज्ञा उद्योतेन सम्मेदशिखरतीर्थस्य षष्ठः जीर्णोद्धारः कृतः आसीत् ।
  7. अष्टमतीर्थङ्करस्य चन्द्रप्रभोः निर्वाणानन्तरं पुण्डरीकनगरस्यस्य राज्ञा ललितदत्तेन अस्य तीर्थस्य सप्तमः उद्धारः कृतः आसीत् ।
  8. नवमतीर्थङ्करस्य सुविधिनाथस्य निर्वाणानन्तरं श्रीपुरनगरस्यस्य राज्ञा हेमप्रभेण अस्य तीर्थस्य अष्टमः जीर्णोद्धारः कृतः आसीत् ।
  9. दशमतीर्थङ्करस्य शीतलनाथस्य निर्वाणानन्तरं भद्दिलपुरस्य राज्ञा मेघरथेन अस्य तीर्थस्य नवमः जीर्णोद्धारः कृतः आसीत् ।
  10. एकादशतीर्थङ्करस्य श्रेयांसनाथस्य निर्वाणानन्तरं बालनगरस्यस्य राज्ञा आनन्दसेनेन अस्य तीर्थस्य दशमः जीर्णोद्धारः कृतः आसीत् ।
  11. त्रयोदशतीर्थङ्करस्य विमलनाथस्य निर्वाणानन्तरं पूर्वमहाविदेहस्य कनकावतीनगर्याः राज्ञा कनकरथेन अस्य तीर्थस्य एकादशः जीर्णोद्धारः कृतः आसीत् ।
  12. चतुर्दशतीर्थङ्करस्य अनन्तनाथस्य निर्वाणानन्तरं कौशाम्बीनगर्याः राज्ञा बालसेनेन विद्याचरण-इत्याख्यस्य मुनेः उपदेशानुसारम् अस्य तीर्थस्य द्वादशः जीर्णोद्धारः कृतः आसीत् ।
  13. पञ्चदशतीर्थङ्करस्य धर्मनाथस्य निर्वाणानन्तरं श्रीपुरस्य राज्ञा भवदत्तेन आचार्यधर्मघोषसूरी-इत्याख्यस्य उपदेशानुसारम् अस्य तीर्थस्य त्रयोदशः जीर्णोद्धारः कृतः आसीत् ।
  14. षोडशतीर्थङ्करस्य शान्तिनाथस्य निर्वाणानन्तरं मित्रपुरस्य राज्ञा सुदर्शनेन सुदर्शन-इत्याख्यस्य गणधरस्य उपदेशानुसारम् अस्य तीर्थस्य चतुर्दशः जीर्णोद्धारः कृतः आसीत् ।
  15. सप्तदशतीर्थङ्करस्य कुन्थुनाथस्य निर्वाणानन्तरं शालिभद्रनगरस्यस्य राज्ञा देवधरेण अस्य तीर्थस्य पञ्चदशः जीर्णोद्धारः कृतः आसीत् ।
  16. अष्टादशतीर्थङ्करस्य अरनाथस्य निर्वाणानन्तरं भद्रपुरस्य राज्ञा आनन्दसेनेन अस्य तीर्थस्य षोडशः जीर्णोद्धारः कृतः आसीत् ।
  17. नवदशतीर्थङ्करस्य मल्लिनाथस्य निर्वाणानन्तरं कलिङ्गदेशस्य श्रीपुरस्य राज्ञा अमरदेवेन कस्यचित् मुनेः उपदेशानुसारम् अस्य तीर्थस्य सप्तदशः जीर्णोद्धारः कृतः आसीत् ।
  18. विंशतितमतीर्थङ्करस्य मुनिसुव्रतनाथस्य निर्वाणानन्तरं रत्नपुरीनगर्याः राज्ञा सोमदेवेन अस्य तीर्थस्य अष्टदशः जीर्णोद्धारः कृतः आसीत् ।
  19. एकविंशतितमतीर्थङ्करस्य नमिनाथस्य निर्वाणानन्तरं श्रीपुरस्य राज्ञा मेघदत्तेन अस्य तीर्थस्य एकोनविंशतितमः जीर्णोद्धारः कृतः आसीत् ।
  20. त्रयोविंशतितमतीर्थङ्करस्य पार्श्वनाथस्य निर्वाणानन्तरम् आनन्ददेशस्य गन्धपुरनगरस्य राज्ञा प्रभसेनेन आचार्यदिनकरसूरि-इत्याख्यस्य गणधरस्य उपदेशानुसारम् अस्य तीर्थस्य विंशतितमः जीर्णोद्धारः कृतः आसीत् ।

वीक्षणीयस्थलानि

[सम्पादयतु]

धर्ममङ्गलजैनविद्यापीठम्

[सम्पादयतु]

इदं स्थलं श्वेताम्बरसम्प्रदायेन सह संलग्नम् अस्ति । शान्तं, सौन्दर्यमयं स्थलमिदम् । अस्याः संस्थायाः स्थापना ई. स. १९७२ तमे वर्षे अभवत् । आचार्यपद्मप्रभसूरीश्वरस्य प्रेरणया अस्याः संस्थायाः निर्माणम् अभवत् । तत्र पूजायै शास्त्रीयपद्धत्यनुसारम् एकं मन्दिरं निर्मितमस्ति । अस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य मूर्तिः अस्ति । अस्य मन्दिरस्य निर्माणं श्वेतशैलैः कारितम् ।

चतुर्दशमन्दिराणि

[सम्पादयतु]

चतुर्दशमन्दिराणां समूहः अस्ति तत्र । चतुर्दशमन्दिराणां मध्ये भगवतः पार्श्वनाथस्य भव्यमन्दिरम् अस्ति । तस्मिन् मन्दिरे अन्येषां भगवताम् अपि मूर्तयः सन्ति । मन्यते यत् – “भक्तानां प्रत्येकम् इच्छा सकला भवति । अस्य मन्दिरस्य भित्तिषु चित्राणि प्रदर्शितानि सन्ति । चित्रैः जैनधर्मस्य परम्परायाः प्रदर्शनं भवति । अस्य दक्षिणदिशि पञ्च मन्दिराणि सन्ति । ते गौड, पार्श्वनाथः, आदिनाथः, स्वामी गणधरः, पार्श्वनाथः च । तत्र एव सम्मेदशिखरपट्टः वर्तते । अस्य अधः विंशतितीर्थङ्कराणां पादचिह्नानि स्थापितानि सन्ति । ये जनाः पर्वतपरिक्रमां कर्तुम् असमर्थाः भवन्ति, ते तेषां पादचिह्नानां दर्शनं कृत्वा यात्रायाः पुण्यफलं प्राप्नोति ।

भोमियादेवमन्दिरम्

[सम्पादयतु]

भोमियादेवः सम्मेदशिखरतीर्थस्य रक्षकः अस्ति । इदं मन्दिरं प्राचीनतमम् अस्ति । भगवता महावीरेण कौसाम्बी-नगर्याः समवसरणे प्रवचनं कृतम् आसीत् । तस्मिन् प्रवचने भोमियादेवमन्दिरस्य वर्णनं कृतम् आसीत् । तत्र सर्वेषां जनानां मनःकामना पूर्णा भवति । भोमियादेवस्य पूजनं, अर्चनं च जैनाः, जैनेतराः च कुर्वन्ति । अस्य मन्दिरस्य प्राङ्गणे भोमियादेवाय नैवेद्यं निवेदनानन्तरम् एव पर्वतारोहणं क्रियते । भगवतः भोमियादेवस्य कृपया, आशीर्वादेन जनानां यात्रा विघ्नरहिता, काठिन्यहीना च परिपूर्णा भवन्ति ।

जिनालयः

[सम्पादयतु]

सम्मेदशिखरस्य समीपे एकः भव्यः जिनालयः अस्ति । तस्मिन् मन्दिरे अधोगृहम् अपि अस्ति । तस्मिन् अधोगृहे अरिहन्तभगवतः मूर्तिः स्थिता अस्ति । इदं मन्दिरं परितः विंशतितीर्थङ्कराणाम्, अन्येषां देवानां च मूर्तयः अपि स्थिताः सन्ति । मन्दिरस्य पूर्वदिशि मधुचम्पामण्डपम् अस्ति । मण्डपे भोमियादेवस्य, घण्टाकर्णमहावीरस्य, महालक्ष्म्याः च मूर्तयः स्थिताः सन्ति ।

भोमियाभवनम्

[सम्पादयतु]

ई. स. १९७५ तमे वर्षे अस्य भवनस्य निर्माणम् अभवत् । जैनश्वेताम्बरश्रीसङ्घेन भोमियाभवनस्य निर्माणं कारितम् आसीत् । भोमियाभवने यात्रिभ्यः सौकर्याणि दीयन्ते स्म । भवने विश्रामालयः, भोजनायलः च अस्ति । अतः यात्रिभ्यः विश्रामस्य, भोजनस्य च व्यवस्था क्रियते । संस्थातः पारसनाथ-रेलस्थानकं पर्यन्तं परिवहनस्य सौकर्यम् अपि संस्थया एव दीयते ।

शत्रुञ्जयमन्दिरम्

[सम्पादयतु]

भोमियामन्दिरस्य समीपे शत्रुञ्जयमन्दिरं वर्तते । इदं मन्दिरं द्विभूमम् अस्ति । अस्मिन् मन्दिरे भगवतः पार्श्वनाथस्य प्रतिमा वर्तते । प्रथमभूमे भगवतः आदिनाथस्य द्वादश चतुर्मुखिप्रतिमाः सन्ति । तत्र पुष्पवाटिका अपि अस्ति । तस्यां पुष्पवाटिकायां त्रीणि मन्दिराणि सन्ति । १ शान्तिनाथ भक्ताम्बरमन्दिर, २ शान्तिनाथ गुरु मन्दिर, ३ भोमियाजी मन्दिर ।

जैनसङ्ग्रहालयः

[सम्पादयतु]

इदं स्थलं वीक्षणीयस्थलेषु प्रमुखं वर्तते । “श्रीमहिमाप्रभ सागरजी” इत्यस्य प्रेरणया “जितयशा फाउण्डेशन्, कोलकाता” इत्यनया संस्थया अस्य सङ्ग्रहालयस्य निर्माणं कारितम् । अयं सङ्ग्रहालयः सम्प्रदायनिरपेक्षः अस्ति । श्वेताम्बरसम्प्रदायः, दिगम्बरसम्प्रदायः, स्थानकवासीसम्प्रदायः, तेरापन्थीसम्प्रदायः च इत्येतेषु कोऽपि सम्प्रदायः अस्य सङ्ग्रहालयस्य प्रतिनिधित्वं न करोति । सम्पूर्णजैनधर्मस्य प्रतिनिधित्वं क्रियते । सङ्ग्रहालयपरिसरे बालकेभ्यः क्रीडायाः साधनानि सन्ति । भगवतः पार्श्वनाथस्य ६ पादपरिमिता भव्यतमा प्रतिमा अपि वर्तते । सङ्ग्रहालये जैनधर्मस्य विशेषघटनाधारिताः पञ्चविंशति प्रदर्शिन्यः सन्ति । भगवान् ऋषभदेवतः वर्तमानकालपर्यन्तं विशिष्टाः घटनाः प्रदर्शनीषु साम्प्रदायिकपक्षपातेन विना एव प्रदर्शिताः सन्ति । भारतस्य भूतपूर्वराष्ट्रपतिः “ज्ञानी जैल सिंह” इत्याख्यः अपि जैनसङ्ग्रहालयं दृष्टवान् । अनन्तरं “सम्मेदशिखरस्य स्वागतद्वारम् अस्ति अयं सङ्ग्रहालयः” इति राष्ट्रपतिना उक्तम् []

सराक जैन सङ्घटनम्

[सम्पादयतु]

ई. स.१९९० तमे वर्षे सुयशमुनेः प्रेरणया “अखिल भारतीय सराक जैन सङ्घटन” इत्यस्याः संस्थायाः निर्माणम् अभवत् । जैनसङ्ग्रहालयतः पूर्वदिशि ३०० मीटरमिते दूरे स्थिता अस्ति इयं संस्था । तत्र सराकज्ञातेः जनाः सन्ति । ते पुरा जैनधर्मान्तर्गताः आसन् । अतः इयं संस्था तेषां पुनः जैनधर्मे विलीनिकर्तुं प्रयासं करोति । तस्यां संस्थायां देवविमानमिव भव्यमन्दिरम् अस्ति । इदं मन्दिरं द्विभूमं वर्तते । अस्य अधोगृहे १४ पादपरिमिता उन्नता पार्श्वनाथभगवतः प्रतिमा वर्तते । इमां मूर्तिं परितः नवग्रहदेवानां मन्दिरस्य निर्माणम् अभवत् । अस्याः संस्थायाः पूर्वदिशि पाण्डुकशिला वर्तते । तत्र भगवतः जलाभिषेकः क्रियते ।

मार्गाः

[सम्पादयतु]

धूमशकटमार्गः

[सम्पादयतु]

सम्मेदशिखरं गिरिडीह-मण्डले अस्ति । तस्य समीपे पारसनाथ-रेलस्थानकं वर्तते । तत्स्थानकं देहली-हावडामार्गे स्थितम् अस्ति । ततः देहली-महानगरं १०८६ किलोमीटरमिते, हावडा-नगरं ३१८ किलोमीटरमिते च दूरे स्थितम् अस्ति । सम्मेदशिखरतः पारसनाथरेलस्थानकं २२ किलोमीटरमिते, गिरिडीह-नगरं २८ किलोमीटरमिते, इसरी-ग्रामः २२ किलोमीटरमिते च दूरे अस्ति । सम्मेदशिखरतः धनबाद-नगरं ७२ किलोमीटरमिते दूरे स्थितम् अस्ति । देहली-हावडा-रेलमार्गस्य अधिकाधिकानि रेलयानानि धनबाद-नगरे तिष्ठन्ति[]

बाह्यानुबन्धाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. श्री सम्मेदशिखर, महेन्द्र कुमार सिंधी, पृ.–५-७
  2. श्री सम्मेदशिखर, महेन्द्र कुमार सिंधी, पृ.–७
  3. श्री सम्मेदशिखर, महेन्द्र कुमार सिंधी, पृ.–२१
  4. भारतना मुख्य जैन तीर्थो, श्री महावीर श्रुति मण्डल, पृ.–२२४-२२५
  5. http://parasnath.nic.in/swetambar.html#जैन Archived २००९-०४-१० at the Wayback Machine म्युजियम
  6. "संग्रह प्रतिलिपि". Archived from the original on 2015-05-12. आह्रियत 2015-09-09. 

अधिकवाचनाय

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सम्मेदशिखरम्&oldid=481841" इत्यस्माद् प्रतिप्राप्तम्