कुन्थुनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कुन्थुनाथः
सप्तदशः जैनतीर्थङ्करः
Worship of Kunthu.jpg
कुन्थुनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता सूरसेन
माता श्रीदेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म हस्तिनापुरी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिन्हम् अजः
औन्नत्यम् ३५ धनुर्मात्रात्मकम् (१०५ मीटर्)
आयुः ९५,००० वर्षाणि
शासकदेवः
यक्षः गन्धर्वः
यक्षिणी बला
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

कुन्थुनाथः( /ˈkʊnθʊnɑːθəhə/) (हिन्दी: कुन्थुनाथ,आङ्ग्ल: Kunthunath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु सप्तदशः तीर्थङ्करः अस्ति । भगवतः कुन्थुनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नम् अजः अस्ति । भगवान् कुन्थुनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् । भगवतः कुन्थुनाथस्य पञ्चत्रिंशत् गणधराः आसन् । तेषु गणधरेषु साम्बस्वामी प्रथमः गणधरः आसीत् ।

कौमारावस्थायां कुन्थुनाथस्य शरीरस्य औन्नत्यं पञ्चत्रिंशत् (३५) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गन्धर्व” इत्याख्यः यक्षः, “बला” इत्याख्या यक्षिणी च आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

त्रयस्त्रिंशत्सागरमात्रात्मकानां वर्षाणाम् आयुष्यं पूर्णं कृत्वा भरतक्षेत्रस्य हस्तिनापुर-नगरे चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ कृत्तिका-नक्षत्रे मध्यरात्रौ भगवतः कुन्थुनाथस्य जन्म अभवत् [२]

कुन्थुनाथस्य पितुः नाम सूरसेनः, मातुः नाम श्रीदेवी च आसीत् । सूरसेनः हस्तिनापुरस्य राजा आसीत् । सूरसेनः एकः तेजस्वी राजा आसीत् । तस्य शासनकाले जनाः आनन्देन जीवन्ति स्म । एकदा आषाढ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ कृत्तिकानक्षत्रे रात्रौ अर्धसुषुप्तावस्थायां श्रीदेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । राजा, राज्ञी च अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।

राजा सूरसेनः आगामिदिवसे स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति इति स्वप्नाः सूचयन्ति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी च प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभं समाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् । बालकस्य जन्मनः सर्वे प्रतीक्षां कुर्वन्तः आसन् ।

नवमासानन्तरं भगवतः कुन्थुनाथस्य जन्म अभवत् । प्रसवसमये काचिदपि पीडा न जाता । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः विविधस्थलानां जलैः शिशोः उपरि अभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।

यदा राजा पुत्रजन्मनः सन्देशं प्राप्तवान्, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । सर्वप्रथमं तु सूरसेनः कारागारात् सर्वेभ्यः बन्दीभ्यः मुक्तिम् अददात् । उत्सवे राजा जनेभ्यः दानं करोति स्म । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।

पूर्वजन्म[सम्पादयतु]

जम्बूद्वीपस्य पूर्वमहाविदेहे आवर्तदेशस्य खड्गी-नामिका नगरी आसीत् । तस्याः नगर्याः राजा सिंहावह आसीत् । सः अत्यन्तं प्रतापी राजा आसीत् । राज्ये तस्मै भोगस्य सर्वाः सामग्र्यः आसन् । तथापि तस्य मनसि कदापि मोहः नासीत् । सः प्रियजनानां, बान्धवानां च सौकर्याय एव प्रवृत्तः आसीत् ।

सद्भिः सह राज्ञः बहुवारं सम्पर्कः भवति स्म । साधूनाम् अध्यात्मवाण्या राज्ञः मनसि अपि वैराग्यस्य भावना उद्भूता । “अहम् अपि दीक्षां गृहीत्वा साधनां कुर्याम्” इति सिंहावहस्य मनसि विचारः आगतः । किन्तु राज्यसञ्चालनस्य दायित्वत्वात् सः विस्मृतवान् । अन्ते यदा तस्य पुत्रः राज्यसञ्चालनाय समर्थः अभवत्, तदा राज्ञा पुत्रस्य राज्याभिषेकः कृतः । तस्मै राज्यस्य दायित्वं प्रदत्तम् । अन्ते राजा संवराचार्यात् दीक्षां गृहीत्वा श्रमणत्वम् अङ्गीकृतवान् ।

बहुभिः अनुष्ठानैः राजर्षिणा आत्मनः पवित्रीकरणं कृतम् । तेन तीर्थङ्करगोत्रस्य बन्धनं कृत्वा अन्ते मोक्षः प्राप्तः ।

नामकरणम्[सम्पादयतु]

भगवतः कुन्थुनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं राज्ञा सूरसेनेन नामकरणसंस्कारस्य विधिः आयोजितः । नामकरणविधौ बालकस्य नामकरणं क्रियते । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । लोकान्तिकदेवाः चापि उत्सवम् आचरितवन्तः आसीत् । उत्सवे देवानाम् उपस्थितिः आवश्यकी वर्तते । नामकरणोत्सवे नगरस्य प्रतिष्ठितजनाः अपि आमन्त्रिताः आसन् ।

राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् । राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । श्रीदेवी बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य तेजः विस्मयकरः दृश्यते स्म । बालकस्य शरीरम् अपि कुन्थु-नामकं रत्नमिव प्रतिभाति स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् । सर्वेषां मतानि श्रुत्वा राजा स्वविचारम् उक्तवान् आसीत् ।

गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “यदा अयं बालकः गर्भे आसीत् तदा कस्यांश्चित् रात्रौ श्रीदेवी स्वप्ने कुन्थु-नामकानां रत्नानां बृहत्समूहम् अपश्यत् । अतः अस्य बालकस्य नाम कुन्थुकुमारः इति करणीयम् इति । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः एव एषः "कुन्थुनाथः" इति नाम्ना ख्यातः अस्ति [३]

विवाहः[सम्पादयतु]

श्रीदेव्या श्रेष्ठतया कुन्थुनाथस्य पालनं कृतम् आसीत् । समयान्तरे भगवतः कुन्थुनाथस्य बाल्यावस्था, किशोरावस्था च व्यतीता । कुन्थुनाथः यत्र यत्र गच्छति तत्र निवसन्तः जनाः तस्मिन् आकृष्टाः भवन्ति स्म । भगवतः शरीरम् उज्ज्वलम् आसीत् ।

किशोरावस्थायां कुन्थुनाथे प्रविष्टे सति राजा सूरसेनः अनेकाभिः राजकन्याभिः सह तस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः सूरसेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः तेन कुन्थुनाथस्य राज्याभिषेकः कृतः, कुन्थुनाथाय राज्यस्य दायित्वं चापि प्रदत्तम् आसीत् । ततः परं सूरसेनः दीक्षां स्व्यकरोत् ।

राज्यम्[सम्पादयतु]

कुन्थुनाथः यदा राजपदं प्रापत्, तावदेव तेन श्रेष्ठतया शासनं कृतम् आसीत् । कुन्थुनाथेन राज्यस्य मातृवत् पालनं कृतम् आसीत् । तेन सत्यनिष्ठया राज्यं पालितम् आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन कुन्थुनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । जनाः परस्परम् एव विवादान् निवारयन्ति स्म ।

राजा कुन्थुनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राजा सर्वेषां जनानां प्रियः आसीत् । राज्ञः मनसि सन्तोषः अपि आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । भगवतः कुन्थुनाथस्य प्रभावेण राज्ये कदापि अतिवृष्ट्याः, अनावृष्ट्याः वा कस्याः अपि प्राकृतिक्यापदः प्रकोपः नासीत् । तस्य राज्यम् आपद्विहीनम् आसीत् । राज्ये जनाः सुखिनः आसन् ।

एकदा कुन्थुनाथस्य राज्यस्य आयुधशालायां चक्ररत्नं समुद्भूतम् । किन्थुनाथः परम्परागतरीत्या सम्पूर्णं विश्वं जेतुं प्रस्थितवान् । सर्वत्र कुन्थुनाथस्य स्वागतं कृतम् । आहत्य द्वात्रिंशद्देशेषु तस्य शासनम् आसीत् । सम्पूर्णे भूमण्डले कुन्थुनाथस्य साम्राज्यम् आसीत् । सर्वत्र शासनतन्त्रमपि व्यवस्थितरीत्या चलत् आसीत् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवान् कुन्थुनाथः पञ्चशताधिकसप्तचत्वारिंशत्सहस्रं वर्षाणि यावत् राज्यस्य सञ्चालनं कृतवान् आसीत् । कुन्थुनाथस्य मनसि वैराग्यस्य भावना उद्भूता । अतः सः विरक्तः जातः । सः दीक्षायाः समयं ज्ञातवान् आसीत् । चक्रीपदस्य भोगावलीकर्मणां समाप्त्यनन्तरं सः स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वम् अददात् ।

कुन्थुनाथः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता कुन्थुनाथेन वार्षिकीदानम् आरब्धम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सः सुवर्णमुद्रिकानां दानं कुर्वन् आसीत् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा चैत्र-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ कृत्तिका-नक्षत्रे भगवान् कुन्थुनाथः सहस्रजनैः सह हस्तिनापुर-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता कुन्थुनाथेन दीक्षा स्वीकृता [४]

दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता कुन्थुनाथेन चक्रपुर-नगरस्य राज्ञः व्याघ्रसिंहस्य गृहे प्रथमः क्षीराहारः गृहीतः । दीक्षानन्तरं षोडशवर्षाणि यावत् भगवान् कुन्थुनाथः रहसि आसीत् । भगवता कुन्थुनाथेन षोडशवर्षाणि यावत् विविधाः तपस्याः, साधनाः च कृताः । षोडशवर्षाणाम् अनन्तरं सः पुनः हस्तिनापुरस्य सहस्राम्रोद्यानं प्राप्तवान् ।

हस्तिनापुरे चैत्र-मासस्य कृष्णपक्षस्य तृतीयायां तिथौ कृत्तिका-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [५]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च । भगवता कुन्थुनाथेन तत्र तीर्थस्य स्थापना कृता । अतः तदा सः तीर्थङ्करपदं प्राप्तवान् ।

ततः परं भगवता कुन्थुनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः कुन्थुनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् कुन्थुनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा कुन्थुनाथेन धार्मिकपरिवारस्य अपि रचना कृता[६]

  1. ३५ गणधराः
  2. ३,२०० केवलज्ञानिनः
  3. ३,३४० मनःपर्यवज्ञानिनः
  4. २,५०० अवधिज्ञानिनः
  5. ५,१०० अवैक्रियलब्धिधारिणः
  6. ६७० चतुर्दशपूर्विणः
  7. २,००० चर्चावादिनः
  8. ६०,००० साधवः
  9. ६०,६०० साध्व्यः
  10. १,८०,००० श्रावकाः
  11. ३,८१,००० श्राविकाः

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः समयस्य ज्ञानं भवति । यदा भगवता कुन्थुनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सहस्रेण साधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

एकमासस्य अनशनान्ते वैशाख-मासस्य कृष्णपक्षस्य प्रतिपदायां तिथौ कृत्तिका-नक्षत्रे सम्मेदशिखरे भगवतः कुन्थुनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [७]

कुन्थुनाथेन कौमारावस्थायां पञ्चाशदुत्तरसप्तशतोत्तरत्रयोविंशतिसहस्रवर्षाणां, राज्यकाले पञ्चशताधिकसप्तचत्वारिंशत्सहस्रवर्षाणां, दीक्षायां पञ्चाशतोत्तरसप्तशतोत्तरत्रयोविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चनवतिसहस्रं वर्षाणि भुक्तानि आसन् [८]

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
शान्तिनाथः
कुन्थुनाथः अग्रिमः
अरनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 106
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 101
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 121
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 124
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 105
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 123
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 106
  8. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 123

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुन्थुनाथः&oldid=317870" इत्यस्माद् पुनः प्राप्तिः