ऋषभदेवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(ऋषभदेवः तीर्थङ्करः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ऋषभदेवः
प्रथमः जैनतीर्थङ्करः
India, uttar pradesh, jina rishabhanatha, 800-900.JPG
ऋषभनाथस्य प्रतिमा, लॉस एंजिल्स् , काउंटी कला संग्रहालय
विवरणम्
अन्यनाम आदिनाथः, ऋषभनाथः, वृषभनाथः
परिवारः
पिता नाभिराय
माता मरुदेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणम् कैलाशपर्वतः
लक्षणम्
वर्णः सुवर्णः
चिन्हम् वृषभः
औन्नत्यम् ५०० धनुर्मात्रात्मकम् (१५०० मीटर्)
आयु: ८,४००,००० पूर्व वर्षाणि (५९२.७०४ × १०१८ वर्ष)
शासकदेवः
यक्षः गौमुखः
यक्षिणी चक्रेश्वरी
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

ऋषभदेवः  ( शृणु) (हिन्दी: ऋषभदेव,आङ्ग्ल: Rishabhadev) जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत् [१]। सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते । सः योगी आसीत् । तस्य पुत्रस्य भरतस्य नामानुसारम् एव भारतदेशः इति नाम प्रदत्तम् ।

जन्म, परिवारश्च[सम्पादयतु]

ऋषभदेवस्य जन्म अयोध्या-नगरे चैत्र-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अभवत् [२]। तस्मिन् दिने उत्तराषाढा-नक्षत्रमासीत् ।

मरूदेवी तस्य माता, पिता च नाभिराय आसीत् । यदा मरुदेवी गर्भवती आसीत्, तदा मरूदेव्या तस्यां रात्रौ चतुर्दश स्वप्नाः दृष्टाः । ते च – १ वृषभः, २ गजः, ३ सिंहः, ४ लक्ष्मीः, ५ पुष्पमाला, ६ चन्द्रः, ७ सूर्यः, ८ महेन्द्रः ध्वजः, ९ कुम्भः, १० पद्मसरोवरः, ११ क्षीरसमुद्रः, १२ देवविमानम्, १३ रत्नराशिः, १४ निर्धूमाग्निः च । स्वप्नशास्त्रानुसारम् एते स्वप्नाः मङ्गलाः भवन्ति ।

मरुदेवी चतुर्दशस्वप्नान् दृष्ट्वा प्रसन्ना जाता । मरुदेव्या स्वप्नविषयिणी वार्ता नाभिकुलकराय उक्ता । नाभिकुलकरः अपि आश्चर्यचकितः जातः । मरुदेव्या स्वप्नानां वर्णनं कृतम् । तच्छ्रुत्वा नाभिकरः अतीव प्रसन्नः अभवत् । सः ज्ञातवान् आसीत् यत् – मरुदेव्याः कुक्षौ कश्चन श्रेष्ठः पुत्रः अस्ति ।

गर्भकालस्य समाप्त्यनन्तरं मरुदेवी एकां पुत्रीं, एकं पुत्रं च अजीजनत् । सः पुत्रः ऋषभदेवः आसीत् । भगवतः जन्मना समग्रे विश्वे अज्ञातशान्त्याः वातावरणं जातम् । इन्द्रेण सह बहवः देवाः भगवतः ऋषभदेवस्य जन्मोत्सवम् आचरन् । तावदेव जन्मोत्सवस्य प्रथा आरब्धा ।

नामकरणम्[सम्पादयतु]

भगवतः ऋषभदेवस्य नामकरणार्थं बहवः यौगलिकाः एकत्रिताः अभवन् । भगवतः नामकरणप्रसङ्गे बहवः जनाः उपस्थिताः आसन् । तस्य युगस्य इयं प्रथमा घटना आसीत्, यस्याम् एतावन्तः जनाः उपस्थिताः अभवन् ।

तस्मिन् समये नामकरणस्य प्रश्नः आसीत् । नाभिकुलकरेण उक्तं यत् – मरुदेव्या चतुर्दश स्वप्नाः दृष्टाः आसन् । तेषु स्वप्नेषु प्रथमः स्वप्नः वृषभस्य आसीत् । शिशोः वक्षस्थले अपि वृषभस्य एव चित्रम् अस्ति । अतः नाभिकुलकरः "वृषभकुमार" इति नामकरणं कर्तुम् इच्छति स्म। तत्र स्थितैः सर्वैः जनैः अपि समर्थनं कृतम् आसीत् । अन्ते पुत्रस्य वृषभकुमारः, पुत्र्याः सुनन्दा च इति नामकरणं कृतम् ।

दिगम्बर-आम्नाये भिन्नं मतं वर्तते । महापुराणानुसारं जन्मनः एकादशदिवसानन्तरम् इन्द्रः स्वयम् आगत्य नामकरणिविधिं कृतवान् । इन्द्रं दृष्ट्वा तत्र बहवः जनाः गतवन्तः । इन्द्रेण उक्तं यत् – “अयं बालकः भविष्यत्काले धर्मस्य रक्षणं करिष्यति । अतः युग्लिकैः वृषभकुमारः इति नाम प्रदत्तम् ।

वैदिकग्रन्थे भागवते रचनाकारेण लिखितमस्ति यत् – बालकस्य शरीरस्य सौन्दर्यं, तेजस्वितां च दृष्ट्वा नाभिराज्ञा ऋषभदेव इति नाम प्रदत्तम् । ऋषभदेवः जैनधर्मस्य आद्यप्रवर्तकः आसीत् । अतः जैनधर्मस्य इतिहासकारैः आदिनाथः इति नाम प्रदत्तम् ।

भगवतः प्रथमं नाम वृषभदेवः इति आसीत् । किन्तु उच्चारणस्य सरलतायै वृषभात् ऋषभः अभवत् ।

कल्पसूत्रस्य टीकायां भगवतः पञ्च नामानि प्राप्यन्ते । १ वृषभः, २ प्रथम राजा, ३ प्रथम भिक्षाचरः, ४ प्रथम जिनः, ५ प्रथमः तीर्थङ्करः च । इतोऽपि आदिनाथः, आदिमबाबा इत्यादीनि नामानि अपि सम्प्राप्यन्ते ।

वंशोत्पत्तिः[सम्पादयतु]

यदा भगवतः ऋषभदेवस्य जन्म अभवत्, तदा कोऽपि वंशः नासीत् । यदा सः एकवर्षीयः आसीत्, तदा सः स्वस्य पितुः क्रोडे क्रीडन् आसीत् । तस्मिन् समये इन्द्रः विविधाः सामग्रीः च नीत्वा ऋषभदेवस्य समीपं गतः ।

नाभिकुलकरेण एतावतः वस्तूनि दृष्ट्वा ऋषभदेवः उक्तः यत् – “भवान् यत्किमपि इच्छति चेत् स्वीकरोतु” । तदा ऋषभदेवेन सर्वप्रथमम् इक्षुयष्टिः स्वीकृता । अनन्तरं सः इक्षुयष्टिं खादितुं प्रयासः कुर्वन् आसीत् ।

अनेन प्रसङ्गेन इन्द्रः घोषणां चकार यत् – ऋषभदेवाय इक्षुः रोचते । अतः भविष्यत्काले अपि अस्य वंशस्य नाम “इक्ष्वाकुः” भविष्यति । तावदेव वंशपरम्परा चलन्ती अस्ति ।

विवाहः[सम्पादयतु]

यदा ऋषभदेवः तारुण्यावस्थां प्राविशत्, तदा तस्य विवाहः कन्याद्वयेन सह कारितः आसीत् । एका कन्या सहजन्मा, अपरा च अनाथा आसीत् ।

इयं विवाहपरम्परा जनेभ्यः नूतना आसीत् । यतः जनाः विवाहपरम्परया अपरिचिताः आसन् । ते न जानन्ति स्म यत् विवाहस्य का उपयोगिता, महत्त्वं च ?

तदा विवाहप्रथा एव नासीत् । अन्येभ्यः विकारभावना नासीत् । ये सहोदराः भवन्ति स्म, ते परस्परम् अधिकारं मन्यन्ते स्म । ऋषभदेवस्य प्रथमा पत्नी सुनन्दा आसीत् । सा सहोदरी आसीत् । किन्तु अपरा तु अनाथा आसीत् ।

अपरायाः पत्न्याः पितरौ दिवङगतौ आस्ताम् । तस्याः सहोदरः अपि मृत्युं प्राप्तः । अतः सा एकाकिनीं एव आसीत् । एकदा सा वने विचरणं कुर्वती आसीत् । मरुदेवी अपि तस्मिन्समये अटनार्थं वनं गतवती । तत्र तां बालिकाम् एकाकी दृष्ट्वा मरुदेवी पृष्टवती - “कुत्रास्ति ते सहभागी” ? तया बालिकया मरुदेव्यै स्वस्याः सम्पूर्णः वृत्तान्तः कथितः ।

तस्याः बालिकायाः जीवनवृत्तान्तं श्रुत्वा मरुदेव्या विचारितम् यत् – “इयम् एकाकिनी कथं जीवनं यापयिष्यति ? “गृहे एषा ऋषभेण सह क्रीडिष्यति, अनन्तरम् ऋषभस्य पत्नी भविष्यति” इति विचार्य मरुदेवी तां बालिकां स्वगृहम् आनितवती । अनन्तरं सा कन्या सुमङ्गला इति नाम्ना ख्याता अभवत् । सा एव ऋषभदेवस्य अपरा द्वितीया वा पत्नी जाता ।

यौगलिककाले मर्यादिता पुत्रोत्पत्तिः भवति स्म । प्रत्येकस्य युग्मस्य एकवारम् एव सन्तत्योत्पत्तिः भवति स्म । सा उत्पत्तिः अपि युग्मरूपेण एव विद्यते स्म । एकः पुत्रः, अपरा पुत्री च । किन्तु ऋषभदेवस्य गृहे इयं परम्परा भग्ना जाता ।

सुनन्दा एकं युग्मम् अजीजनत् । बाहुबली, सुन्दरी च । किन्तु सुमङ्गला पञ्चाशत् युग्मानि अजीजनत् । तेषु प्रथमं युग्मं भरत, ब्राह्मी च आसीत् । अनन्तरम् अन्येषु युग्मेषु सर्वे पुत्राः एव आसन् । ऋषभस्य आहत्य द्वे पुत्र्यौ, शतं पुत्राः च आसन् ।

ऋषभदेवस्य शतपुत्राः
  1. भरतः
  2. बाहुबली
  3. शङ्खः
  4. विश्वकर्मा
  5. विमलः
  6. सुलक्षणः
  7. अमलः
  8. चित्राङ्गः
  9. ख्यातकीर्तिः
  10. वरदत्तः
  11. दत्तः
  12. सागरः
  13. यशोधरः
  14. अवरः
  15. थवरः
  16. कामदेवः
  17. ध्रुवः
  18. वत्सः
  19. नन्दः
  20. सूरः
  1. सुनन्दः
  2. कुरुः
  3. अङ्गः
  4. बङ्गः
  5. कौशलः
  6. वीरः
  7. कलिङ्गः
  8. मागधः
  9. विदेहः
  10. सङ्गमः
  11. दशार्णः
  12. गम्भीरः
  13. वसुवर्मा
  14. सुवर्मा
  15. राष्ट्रः
  16. सुराष्ट्रः
  17. बुद्धिकरः
  18. विविधकरः
  19. सुयशः
  20. यशःकीर्तिः
  1. यशस्करः
  2. कीर्तिकरः
  3. सुषेणः
  4. ब्रह्मसेणः
  5. विक्रान्तः
  6. नरोत्तमः
  7. चन्द्रसेनः
  8. महसेनः
  9. सेसेणः
  10. भानुः
  11. कान्तः
  12. पुष्पयुतः
  13. श्रीधरः
  14. दुर्धर्षः
  15. सुसुमारः
  16. दुर्जयः
  17. अजयमानः
  18. सुधर्मा
  19. धर्मसेनः
  20. आनन्दनः
  1. आनन्दः
  2. नन्दः
  3. अपराजितः
  4. विश्वसेनः
  5. हरिषेणः
  6. जयः
  7. विजयः
  8. विजयन्तः
  9. प्रभाकरः
  10. अरिदमनः
  11. मानः
  12. महाबाहुः
  13. दीर्घबाहुः
  14. मेषः
  15. सुघोषः
  16. विश्व
  17. वराहः
  18. वसुः
  19. सेनः
  20. कपिलः
  1. शैलविचारी
  2. अरिञ्जयः
  3. कुञ्जरबलः
  4. जयदेवः
  5. नागदत्तः
  6. काश्यपः
  7. बलः
  8. वीरः
  9. शुभमतिः
  10. सुमतिः
  11. पद्मनाभः
  12. सिंहः
  13. सुजातिः
  14. सञ्जयः
  15. सुनामः
  16. नरदेवः
  17. चित्तहरः
  18. सुखरः
  19. दृढरथः
  20. प्रभञ्जनः

एते शतं पुत्राः समयान्तरे अन्याभिः कन्याभिः सह विवाहम् अकुर्वन् । तेन कारणेन जनसङ्ख्यायां वृद्धिः जाता । दिगम्बर-परम्परायाः आचार्यः जिनसेनः मन्यते यत् – “भगवतः ऋषभदेवस्य एकोत्तरशतं पुत्राः आसन्” इति । वृषभसेन अपि एकः अपरः पुत्रः आसीत् ।

ऋषभस्य राज्याभिषेकः[सम्पादयतु]

यौगलिकानां संख्यायाः आधिक्येन राज्ये सर्वत्र अभावः समुद्भवत् । अतः सर्वे यौगलिकाः अभावेन त्रस्ताः जाताः । यौगलिकाः नाभिकुलकरं प्रति गत्वा अभावस्य समाधानं कारयितुम् इच्छन्ति स्म । राज्यस्य व्यवस्था अपि शिथिला जाता । खाद्यपदार्थानाम् अभावस्य आधिक्यम् आसीत् । नाभिकुलकरः अपि समाधानं कर्तुम् असमर्थः आसीत् । सः अपि स्वस्य कर्त्तव्यात् मुक्तिम् इच्छति स्म ।

एकस्मिन् दिवसे कानिचन युग्मानि ऋषभकुमारेण सह वार्तालापं कुर्वन्ति आसन् । तदैव खाद्यपेयपदार्थाणाम् अभावविषयिणी चर्चा जाता । सर्वे जनाः दुःखिताः आसन् । ते इमां समस्यां निवारयितुम् ऋषभदेवं प्रति उचुः ।

तदनन्तरम् ऋषभेण उक्तं यत् – “राज्ये कोऽपि राजा भवेत् इति आवश्यकम् अस्ति । राजा एव समस्यायाः समाधानं कर्तुं सक्षमः भवति । यतः सः शासनं कर्तुं जानाति । राज्यस्य व्यवस्थानां परिवर्तनम् आवश्यकम् अस्ति” । अनुशासनेन एव समस्यायाः समाधानं भविष्यति ।

युगलकैः उक्तं यत् – “राजा किं भवति ? इति वयं न जानीमः" । अनन्तरम् ऋषभेण राज्ञः कर्त्तव्यानि कथितानि । ऋषभः नाभिकुलकराय निवेदनं कर्तुम् उक्तवान् ।

सर्वे यौगलिकाः नाभिकुलकरं प्रति गतवन्तः । नाभिकुलकरः प्रागेव चिन्तितः आसीत् । अतः नाभिकुलकरेण स्वस्य पदं त्यक्तम् । तेन उक्तं यत् – “भोजनाभावस्य निवारणं कर्तुम् असमर्थोऽस्मि । भवन्तः ऋषभं कथयन्तु । सः एव राजा भविष्यति । सः एव समस्यानां निवारणं करिष्यति” ।

सर्वे यौगलिकाः स्वस्य मत्यनुसारम् ऋषभदेवस्य राज्याभिषेकस्य सज्जतां कुर्वन्तः आसन् । सर्वे विविधप्रकारकैः पुष्पैः ऋषभदेवस्य शरीरम् अलङ्कृतवन्तः । अनन्तरम् तैः ऋषभस्य राज्याभिषेकः कृतः ।

एतत् सर्वं दृश्यम् इन्द्रः स्वर्गलोके एव पश्यन् आसीत् । सर्वं दृष्ट्वा इन्द्रः प्रसन्नः अभवत् । सः त्वरितमेव मृत्युलोकं प्रापत् । जनानां विनयं दृष्ट्वा तस्य स्थलस्य नाम विनीता इति प्रदत्तम् । तावदेव सा नगरी विनीता-नगरी इति ख्याता ।

कृषिशिक्षणम्[सम्पादयतु]

सर्वप्रथमम् ऋषभदेवेन खाद्यसमस्यायाः विचारः कृतः आसीत् । यतः भोजनं प्राप्स्यति, चेत् सर्वे अनुशासिताः भविष्यन्ति । अन्याः समस्याः अपि खाद्यसमस्यया सह संलग्नाः आसन् ।

समयः परिवर्तितः जातः । अतः सर्वप्रथमं स्वस्य जीवनशैल्याः परिवर्तनस्य आवश्यकता वर्तते स्म । पुरा सर्वे वृक्षेभ्यः फलानि प्राप्यन्ते स्म । किन्तु समयपरिवर्तनेन वृक्षाः अल्पानि फलानि ददति स्म । अतः ऋषभदेवेन सर्वेभ्यः कृषिकर्मणः शिक्षणं प्रदत्तम् आसीत् ।

कृषेः अन्नोत्पादनं कुर्युः इति ऋषभः सर्वान् जनान् आदिदेश । “अस्माभिः क्षेत्रे (Farm) बीजारोपणं कृत्वा अन्नोत्पादनं करणीयम् । तेनैव वयं सुखं प्राप्स्यामः” इति ऋषभेण उक्तम् । तदनन्तरं सर्वे जनाः परिश्रमं कृतवन्तः । अन्ते खाद्यसमस्यायाः निवारणम् अभवत् । इतः परम् अन्यासां समस्यानामपि शनैः शनैः समाधानं कृतम् । कृषौ बह्व्यः समस्याः उद्भूताः । किन्तु ऋषभेण सर्वासां समस्यानां निवारणं कृत्वा जनानां प्रोत्साहनं कृतम् ।

तस्मिन् काले केनापि अग्निः न दृष्टः आसीत् । एकदा कैश्चित् जनैः वने अग्निः दृष्टः । ते भयभीताः सन्तः ऋषभस्य समीपं गतवन्तः । अनन्तरम् ऋषभेण सर्वेभ्यः जनेभ्यः अग्निविषयकं ज्ञानं प्रदत्तम् । तत्पश्चात् अग्नेः पाकः करणीयः इत्यपि पाठितम् । यतः जनाः कृषेः उद्भूतानि अपक्वानि अन्नानि एव खादन्ति स्म । तेन पीडा भवति स्म । अतः सर्वे अग्निना भोजनं पचन्ति स्म ।

शस्त्रास्त्रशिक्षणम्[सम्पादयतु]

ऋषभेण जनानां रक्षणार्थम् एकः वर्गः निर्मापितः । तेन तस्य वर्गस्य सदस्येभ्यः खड्गचालनम् इत्यादि शस्त्रविद्यायाः शिक्षणम् अपि प्रदत्तम् आसीत् । कथं ? कदा ? कस्योपरि ? च तेषां शस्त्राणां प्रयोगः करणीयः इति अपि ऋषभेण पाठितम् । ते जनाः केवलं रक्षणार्थम् आसन् । ते एव क्षत्रियाः इति कथ्यन्ते ।

कलाव्यवसायशिक्षणम्[सम्पादयतु]

ऋषभेण एकः अन्यः वर्गः निर्मापितः । तस्मिन् वर्गे जनाः शिल्पकला, कृषिकला इत्यादीः कलाः पठन्ति स्म । सः उत्पादनस्य शिक्षणम् अददात् । अपरं तेन उत्पादितवस्तूनां विनिमयः कथं करणीयः ? इत्यपि पाठितम् । वस्तूनां परस्परं विनिमयः भवति स्म ।

विनिमयस्य संख्याने काठिन्यं भवति स्म । यतः जनाः शिक्षिताः नासन् । अतः ऋषभेण तस्य वर्गस्य जनाः पाठिताः । उत्पादकतः उपभोक्तृपर्यन्तं वस्तूनां विनिमये पारिश्रमिकं लाभं प्राप्नोति स्म । सः एव व्यापारः कथ्यते । ये व्यापारं कुर्वन्ति स्म ते व्यापारिकाः कथ्यन्ते स्म । ते व्यापारिकाः वैश्याः इति कथ्यन्ते ।

सेवा व्यवस्था[सम्पादयतु]

ऋषभदेवेन जनेभ्यः कृषेः, शस्त्रास्त्राणां, व्यापारस्य च शिक्षणं प्रदत्तम् आसीत् । तेन जनाः कार्यरताः अभवन् । किन्तु ये जनाः कृष्यादि कार्येषु काठिन्यम् अनुभवन्ति स्म, ते सेवाकार्ये स्वच्छताकार्ये च संलग्नाः भवन्ति स्म । ये जनाः सेवां कुर्वन्ति स्म, ते पारिश्रमिकम् अपि प्राप्नुवन्ति स्म । ते शूद्राः कथ्यन्ते । अनेन प्रकारेण ऋषभदेवेन समानतया कार्यस्य विभाजनं कृतम् ।

शास्त्रेषु निहितेषु चतुर्वर्णेषु वर्णत्रयस्य उत्पत्तिः भगवतः ऋषभदेवस्य शासनकाले एव अभवत् । अनन्तरं भरतस्य शासनकाले ब्राह्मणवर्णस्य उत्पत्तिः जाता ।

राज्यसभायां, ग्रामेषु प्रवचनं कर्तुं, शिक्षणं प्रदातुं च जनानाम् आवश्यकता वर्तते स्म । अतः राज्ये ये जनाः वाक्पटवः आसन्, ते जनाः प्रवचनादिकार्येषु संलग्नाः अभवन् । ते ब्राह्मणाः कथ्यन्ते स्म ।

ग्रामव्यवस्था[सम्पादयतु]

सामूहिकजीवनस्य विचारं कृत्वा ऋषभः ग्राम्यव्यवस्थायै प्रयासं कृतवान् । सः जनान् सामूहिकजीवनस्य महत्त्वम् अवाबोधयत् । तेन उक्तं यत् – “इदानीं समयः परिवर्तितः । अतः निवासे अपि परिवर्तनमावश्यकम् । इदानीन्तनं यावत् वयं वृक्षाणामधः निवसामः स्म । ऋतवः अपि सानुकूलाः आसन् । किन्तु अधुना ऋतवः कदाचित् अनुकूलाः, कदाचित् प्रतिकूलाः च भवन्ति । शीतलतायाः, उष्णतायाः च अपि आधिक्यं भविष्यति । तेन कारणेन शारीरिकी सहनशीलता अपि न्यूनां भविष्यति । अतः गृहनिर्माणं करणीयम्” इति ।

सर्वैः जनैः सामूहिकजीवनस्य महत्त्वम् अवगतम् । ये जनाः वने निवसन्तः आसन्, ते ग्रामम् आगत्य निवसितवन्तः । यत्र सर्वे निवासं कुर्वन्ति स्म, सा विनीता-नगरी आसीत् । सा नगरी साम्प्रतम् अयोध्या इति नाम्ना ख्याता वर्तते [३]

दण्डव्यवस्था[सम्पादयतु]

यौगलिकेषु बहवः जनाः अपराधान् कुर्वन्ति स्म । जनेषु अपराधवृद्धिम् अपाकर्तुम् ऋषभेण दण्डविधेः रचना कृता । पुरा “धिक्कार” इति नामकः दण्डः दीयते स्म । किन्तु तस्य प्रभावः न्यूनः अभवत् । तेन कारणेन ऋषभेण नूतनदण्डविधेः रचना कृता । तेन उद्घोषितं यत् – यः कोऽपि अपराधं करिष्यति, तस्मै कठोरदण्डं दास्यामि ।

नूतनदण्डविधौ ऋषभेण चत्वारः प्रकाराः सृष्टाः ।

१ परिभाषणम् - अपराधिने कठोरशब्दैः प्रताडनम् ।

२ मण्डली-बन्धः – अपराधिनः क्षेत्रं सीमितं करणम् ।

३ चारक-बन्धः – अपराधिने कारावासः ।

४ छविच्छेदः – अपराधिनः कस्यचित् अङ्गस्य छेदनम् ।

उपरोक्ताः प्रदत्ताः दण्डाः अत्यन्तं प्रभावकाः आसन् । तैः दण्डैः राज्ये अपराधेषु नियन्त्रणं जातम् । अनेन कारणेन सर्वे सन्तुष्टाः आसन् ।

कलाप्रशिक्षणम्[सम्पादयतु]

ऋषभदेवेन जनेषु स्वावलम्बिताम् आनेतुं विविधं शिक्षणं प्रदत्तम् आसीत् । कलायाः शिक्षणम् अपि प्रदत्तम् ।

  • तेन भरताय अपि चतुष्षष्ट्याः कलानां शिक्षणं प्रदत्तम् आसीत् ।
  • बाहुबलये प्राणिलक्षणस्य ज्ञानं प्रदत्तम् ।
  • सुन्दर्यै स्त्रीणां चतुष्षष्टिकलानां शिक्षणं प्रदत्तम् [४]

गृहत्यागः[सम्पादयतु]

भगवतः ऋषभस्य जीवनस्य अधिकानि वर्षाणि सामाजिकराजनैतिकमहत्त्वानां स्थापनायै व्यतीतानि जातानि । लोकजीवनस्य शुद्धिकरणे तस्य महत्परिश्रमः आसीत् ।

समयान्तरे देवलोकस्य सारस्वतः, आदित्यः, अग्निः, वरुणः, गर्दतोयः, तुषितः, अव्याबाघः, आग्नेयः, रिष्टः च एते नव देवाः ऋषभस्य निवासस्थलं गतवन्तः । देवैः ऋषभः उक्तः यत् – “भगवन् ! लोकव्यवहारस्य सम्पूर्णव्यवस्था भवता कृता । कृपया इदानीं धर्मतीर्थानां प्रवर्तनं कुरु” इति । ततः परं सर्वे देवाः स्वर्गलोकं गतवन्तः ।

देवतानां वचांसि श्रुत्वा ऋषभः निश्चयं कृत्वा भूमण्डलस्य एकोत्तरशतधा विभागान् कृतवान् । अनन्तरं तेन प्रत्येकेषां विभागानां दायित्वं स्वस्य पुत्रेभ्यः प्रदत्तम् । तत्पश्चात् ऋषभदेवः दायित्वात् निवृत्तः अभवत् । सः वार्षिकीदानं कुर्वन् आसीत् । तदा सर्वे जनाः दृष्ट्वा अवगतवन्तः यत् – “ऋषभदेवः गृहं त्यत्क्त्वा गच्छति” इति ।

जनाः चिन्तिताः अभवन् । ते विचारयन्ति स्म यत् – “वयं किं करिष्यामः ? अस्माकं कष्टानां, समस्यानां च समाधानं कः करिष्यति ? यद्यपि ऋषभदेवेन भरतादिभ्यः पुत्रेभ्यः दायित्वं प्रदत्तम् अस्ति, तथापि ऋषभदेवसदृशी कस्यापि क्षमता नास्ति । तादृशी प्रतिभा अन्येषु जनेषु असम्भवा" इति ।

तदनन्तरं सर्वैः जनैः विचारितं यत् – “अस्माभिः अपि ऋषभदेवः अनुकरणीयः । तेन अस्माकं समस्याः स्वयम् ऋषभदेवः एव दूरीकरिष्यति” । फाल्गुन-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ यदा ऋषभेण गृहं त्यक्तं, तदा चतुस्सहस्रं जनैः अपि दीक्षा स्वीकृता[५] । ऋषभदेवः निष्क्रमणसमये वस्त्राभूषणानि, केशान् च तत्रैव त्यक्तवान् ।

सर्वे दीक्षिताः जनाः ऋषभस्य अनुकरणं कुर्वन्ति स्म । किन्तु ऋषभदेवः मौनं स्वीकृतम् । सः न किमपि खादति स्म, न किमपि पिबति स्म च । ऋषभस्य छद्मावस्थायाः सर्वे दीक्षिताः नैराश्यं प्राप्नुवन् । सर्वे साधुत्वं त्यक्त्वा वनं गतवन्तः । केचित् कन्दाहारिणः, केचित् मूलाहारिणः, केचित् फलाहारिणः वा अभवन् ।

भगवतः धार्मिकपरिवारः[सम्पादयतु]

यदा भगवता दीक्षा गृहीता, तदा चतुस्सहस्त्रं शिष्याः तेन सहैव आसन् । किन्तु भगवतः मौनात्, कठोरसाधनायाः च ते सर्वे शिष्याः अज्ञाताः आसन् । अतः सर्वे व्यभिचरन् । केवलज्ञानस्य प्राप्त्यनन्तरं तस्य धार्मिकपरिवारस्य पुनर्गठनमभवत् ।

तस्य परिवारे चतुराशीतिसहस्रं श्रमणाः आसन् । तेषां व्यवस्थायै भगवता चतुरशीतिगणानां रचना कृता । प्रतिगणम् एकः प्रधानः आसीत् । सः गणधरः इति कथ्यते स्म । भगवतः प्रथमः गणधरः ऋषभसेनः आसीत् ।

भगवतः परिवारे विभागाः आसन् यथा –

  1. ८४ गणधराः
  2. २०,००० केवलज्ञानिनः
  3. १२,७५० मनःपर्यवज्ञानिनः
  4. ९,००० अवधिज्ञानिनः
  5. २०,६०० वैक्रियलब्धिधारिणः
  6. ४,७५० चतुर्दशपूर्विणः
  7. १२,६५० चर्चावादिनः
  8. ८४,००० साधवः (प्रमुखः ऋषभसेनः)
  9. ३,००,००० साध्व्यः (प्रमुखा ब्राह्मी)
  10. ३,०५,००० श्रावकाः
  11. ५,५४,००० श्राविका

जैनसाहित्येषु वर्णनम्[सम्पादयतु]

जैनसाहित्येषु ऋषभदेवस्य सविस्तरं वर्णनं प्राप्यते । तथैव वैदिकबौद्धसाहित्येषु अपि बहुत्र तस्य उल्लेखः प्राप्यते । पुराणेषु अपि ऋषभस्य वंशपरम्परा दृश्यते । यथा – "ब्रह्मणा आदौ प्रथममनुः उत्पादितः । तत्पश्चात् मनोः प्रियव्रतः, प्रियव्रतात् आग्नीघ्रादयः दश पुत्राः, आग्नीघ्रात् नाभिः, अनन्तरं नाभेः ऋषभस्य च उत्पत्तिः जाता" [६]

ऋषभेण स्वराज्यं भरताय प्रदत्तम् । तावदेव अयं हिमदेशः भारतदेशः इति नाम्ना प्रसिद्धः जातः । वैदिकग्रन्थेषु ऋषभस्य साधनायाः, तपश्चर्यायाः च विशिष्टं वर्णनं प्राप्यते । दीर्घतपस्यायाः कारणात् ऋषभस्य शरीरं शुष्कं जातम् आसीत् । शरीरस्य नाड्यः अपि दॄश्यन्ते स्म । अन्ते सः नग्नावस्थायां महाप्रस्थानं कृतवान् आसीत् ।

निर्वाणम्[सम्पादयतु]

भगवान् ऋषभः अयोध्यातः वहली-पर्यन्तं, यूनान तः स्वर्णभूमिपर्यन्तं विहारं विचरणं भ्रमणं वा कृतवान् । भगवते स्वस्य जीवनावसानस्य पूर्वज्ञानम् अभवत् । अतः सः दशसहस्त्रेण साधुभिः सह अष्टापदपर्वतस्य (कैलाश) आरोहणं कृतवान् । भगवता ऋषभदेवेन पर्यङ्कासने सिद्धत्वं प्राप्तम् आसीत् । अन्ते पौष-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भगवतः निर्वाणम् अभवत् । भगवतः सम्पूर्णायुष्यं ८४ लक्षम् वर्षाणि आसीत् [७]

वीथिका[सम्पादयतु]

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
ऋषभदेवः अग्रिमः
अजितनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

जैनधर्मः

दिगम्बरः सम्प्रदायः

श्वेताम्बरः सम्प्रदायः

भिक्षुः आचार्यः

पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "ऋषभदेव". http://bharatdiscovery.org/. Retrieved 13 April 2015. 
  2. श्री गणेश ललवानी, श्रीमति राजकुमारी बेगानी (1989). त्रिषष्ठीशलाकापुरुषचरित. देवेन्द्रराज मेहता, प्राकृत भारती अकादमी, जयपुर. p. 86. 
  3. श्रीजैनधर्मप्रसारक सभा (1952). त्रिषष्ठी शलाका पुरुष चरित्र. श्रीजैनधर्मप्रसारक सभा, भावनगर. p. 88. 
  4. "भगवान ऋषभनाथ को जानेंurl=http://hindi.webdunia.com/jain-religion/tirthankar-rishabhdev-109020300030_1.html". http://hindi.webdunia.com/. 
  5. मुनि सुमेरमल (लाडनूं) (1996). तीर्थङ्कर चरित्र. सन्तोषकुमार सुराण. p. 46. 
  6. "ऋषभदेव से जुडी है जैन धर्म की प्राचीनता". http://www.vidyasagar.net/. Retrieved 13 April 2015. 
  7. मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा. तीर्थङ्कर चरित्र. गुरुश्री रामचन्द्र प्रकाशन समिति. p. 471. 

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऋषभदेवः&oldid=298324" इत्यस्माद् पुनः प्राप्तिः