भिक्षुः आचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


भिक्षुः आचार्यः (/ˈbhɪkʃhʊhʊ ɑːxɑːrjəhə/) (हिन्दी: भिक्षु आचार्य, आङ्ग्ल: Bhikshu Acharya) तेरापन्थ-सम्प्रदायस्य संस्थापकः प्रवर्तकश्च आसीत् [१]। सः 'श्रमण'-परम्परायाः महान् संवाहकः आसीत् । तेन एव तेरापन्थ-सम्प्रदायाय सम्पूर्णे भारते प्रचारः कृतः । तदनन्तरं तस्मिन् सम्प्रदाये बहवः आचार्याः अभवन् । सर्वे तेरापन्थ-सम्प्रदायस्य अनुयायिनः भिक्षु-आचार्यस्य पूजां कुर्वन्ति । तथा च सम्पूर्णे भारते अयं भिखणजी इति नाम्ना अपि प्रसिद्धः जातः[२] । अयं जैनसम्प्रदायस्य महान् आचार्यः आसीत् । जन्मना एव अयं साधुविचारकः आसीत् । स्थानकवासी-सम्प्रदायस्य आचार्यरघुनाथस्य निर्देशानुसारं तेन स्थानकवासी-सम्प्रदायस्य साधुत्वम् अङ्गीकृतम् ।

जन्म, परिवारश्च[सम्पादयतु]

आचार्यभिक्षोः जन्म ई. स. १७२६ तमे वर्षे जुलाई-मासस्य प्रथमे दिनाङ्के, १७८३ तमे विक्रमसंवत्सरे आषाढ-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ अभवत्[३]राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य कण्टालिया-नामके ग्रामे तस्य जन्म अभवत् । तस्य पितुः नाम शाह बल्लुजी इति , तथा च मातुः नाम दीपाबाई इति आसीत् । अयम् ओसवाल-ज्ञातीयः, सकलेचा-वंशीयः च आसीत् । [४]भिक्षोः पूर्वाश्रमस्य नाम (जन्मनाम) भीखण इति आसीत् ।

सामान्यजीवनम्[सम्पादयतु]

प्रारम्भादेव तस्य व्यक्तित्वं साधारणम् एव आसीत् । तत्कालीनायाः परम्परयाः अनुसारं लघुवयसि एव तस्य विवाहः जातः[५] । वैवाहिके जीवने सति अपि सः वैराग्यमयं जीवनं जीवितुम् इच्छति स्म । धर्मं प्रति सः सदैव तत्परः आसीत् । तस्य पत्निः अपि धार्मिका आसीत् । तौ द्वौ दीक्षां प्राप्तुम् इच्छतः स्म । किन्तु किञ्चित् समयान्तरे तस्य पत्न्याः देहावसानम् अभवत् । तदनन्तरं सः स्वयमेव दीक्षां प्राप्तुं जागतिकः अभवत् । परन्तु दीक्षायै तस्य मातुः आज्ञा नासीत् । तत्कालीनस्य स्थानकवासी-सम्प्रदायस्य आचार्यस्य रघुनाथस्य कथनानुसारं भिक्षुणा मातुः आज्ञा प्राप्ता । माता रघुनाथाचार्यम् उक्तवती यत् – “अहं कथं दीक्षायै आज्ञां दातुं शक्नोमि ? यदा भिक्षुः मम गर्भे आसीत्, तदैव अहं सिंहस्य स्वप्नं दृष्टवती आसम्[६] । तस्य स्वप्नस्य अनुसारम् अयं कस्यचित् देशस्य राजा भविष्यति । सिंहः इव पराक्रमी अपि भविष्यति” इति । तदा आचार्येण उक्तं यत् – “ राजा एकस्मिन् देशे एव पूज्यते । किन्तु तव पुत्रस्य साधुत्वे सति सम्पूर्णे जगति तस्य पूजा भविष्यति” इति । अतः अन्ते भिक्षोः माता रघुनाथाचार्यस्य कथनानुसारं दीक्षायै अनुमतिम् अददात्[७]

साधुजीवनम्[सम्पादयतु]

ई. स. १७५१ तमे वर्षे, १८०८ तमे विक्रमसंवत्सरे मार्गशीर्ष-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ भिक्षुः आचार्यरघुनाथात् दीक्षां प्रापत्[८] । आचार्यभिक्षोः दृष्टिः, मेधा च सूक्ष्मतमा आसीत् । तत्वस्य गहनतायाः प्राप्तिः तस्य स्वभावः एव आसीत् । किञ्चित् वर्षान्तरे सः जैनशास्त्रज्ञः अभवत् ।

ई. स. १७५८ तमे वर्षे १८१५ तमे विक्रमसंवत्सरे तस्य मनसि साधुवर्गस्य आचारविचारयोः प्रति क्रान्तेः भावना जागतिका । तेन स्वस्य क्रान्तिपूर्णाः विचाराः आचार्यरघुनाथस्य समक्षं स्थापिताः[९] । वर्षद्वयं यावत् विचारविमर्शः अभवत् । विचारभेदेन निर्णयस्याभावे सति आचार्यभिक्षुः कैश्चित् साधुभिः सह ई. स. १७६० तमे वर्षे १८१७ तमे विक्रमसंवत्सरे चैत्र-मासस्य शुक्लपक्षस्य नवम्यां तिथौ मारवाड-क्षेत्रस्य बगडी-ग्रामे पृथगभूत्[१०] । आचार्यभिक्षोः धर्मक्रान्तेः विरोधः अभवत् । कारणं तस्मिन् काले आचार्यरघुनाथस्य प्रभावः प्रबलः आसीत् । अतः जनैः भिक्षोः सहयोगः न कृतः । ग्राम्यजनैः तेभ्यः साधुभ्यः निवासार्थं स्थानम् अपि न प्रदत्तम् । अतः आचार्यभिक्षुः, अन्ये साधवश्च अन्यत्र विहाराय अगच्छन् । किन्तु चक्रवातेन तेषां मार्गः अवरूद्धः । तदा तैः श्मशाने एव निवासः कृतः आसीत् । यत्र ते साधवः निवासं कृतवन्तः, तत्र जैतसिंह नामाख्यस्य स्मारकम् आसीत् । [११]साम्प्रतम् अपि तत् स्मारकं विद्यमानम् अस्ति ।

सङ्घस्य बहिष्कारेण कोऽपि आचार्यभिक्षोः साहाय्यं न करोति स्म । सर्वे जनाः तस्य विरोधम् एव कुर्वन्ति स्म । किन्तु सः लौहपुरुषः आसीत् । अतः सः तटस्थतया स्वस्य कार्यं करोति स्म । सः सत्यस्य महानुपासकः अपि आसीत् । सः सत्याय स्वस्य प्राणस्य अपि त्यागं कर्तुं शक्नोति स्म । [१२]ई. स. १७६० तमे वर्षे (वि. सं. १८१७) आषाढ-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ मेवाड-क्षेत्रस्य केलवा-ग्रामे द्वादशसाधुभिः सह आचार्यभिक्षुणा शास्त्राधारिता दीक्षा प्राप्ता । तस्मिन् दिने एव तेरापन्थ सम्प्रदायस्य स्थापना अभवत् । तस्मिन् दिने एव आचार्यभिक्षोः नेतृत्वे एकस्य सुसङ्घटितस्य सङ्घस्य निर्माणं जातम् ।[१३] सः सङ्घः तेरापन्थ इति नाम्ना प्रख्यातः अभवत् ।

सङ्घटनस्य नेतृत्वम्[सम्पादयतु]

ई. स. १७६० (वि. सं. १८१७) तमवर्षतः ई. सं १७७४ (वि. सं. १८३१) तमं वर्षं यावत् आचार्यभिक्षोः महासङ्घस्य पञ्चदशवर्षीयं जीवनं सङ्घर्षमयम् आसीत् । [१४]पञ्चवर्षपर्यन्तम् आहारमपि न प्राप्नोति स्म । कदाचित् आहारः प्राप्नोति स्म कदाचिन्न प्राप्नोति स्म । तस्यां सङ्घर्षमयस्थितौ आचार्यभिक्षुः कठोरतपश्चर्यां, साधनां, शास्त्राणां च गहनाध्ययनं चकार । तेन सङ्घस्य भविष्यत्कालस्य अपि चिन्तनं कृतम् आसीत् ।

उत्तराधिकारी भारमलजी[सम्पादयतु]

भारमलजी इत्ययम् आचार्यभिक्षोः प्रमुखः शिष्यः आसीत् । [१५]अतः ई. स. १७७५ (वि. सं. १८३२) तमे वर्षे आचार्यभिक्षुणा स्वस्य प्रमुखशिष्यः भारमलजी इत्ययम् उत्तराधिकारीत्वेन उद्घोषितः । तस्मिन् समये एव सः सङ्घस्य मर्यादानां निर्माणम् अपि अकरोत् । तस्मिन् वर्षे एव तेन मार्गशीर्षमासस्य कृष्णपक्षस्य सप्तम्यां तिथौ प्रथमं मर्यादापत्रं लिखितम् आसीत् । तदनन्तरं नूतनमर्यादानां निर्माणं कृतम् । तेन कारणेन सङ्घः सुदृढः जातः ।

आचार्यभिक्षोः अन्तिमं मर्यादापत्रम्[सम्पादयतु]

ई. स. १८०२ तमस्य वर्षस्य (वि. सं. १८५९) माघ-मासस्य शुक्लपक्षस्य सप्तम्यां तिथौ आचार्यः भिक्षुः अन्तिमं मर्यादापत्रं लिखितवान् आसीत् [१६]। सङ्घे एकः एव आचार्यः स्यात् इति नियमेन सङ्घस्य शक्तिः वर्धिता जाता । तेन सङ्घटनं सुदृढं जातम् । सम्प्रदाये सर्वेषां साधूनां पृथक्-पृथक् शिष्याः भवन्ति स्म । किन्तु अन्तिमे मर्यादापत्रे सर्वेषां शिष्याणाम् एकः एव आचार्यः स्यात् इति लिखितम् आसीत् । अतः स्वशिष्यपरम्परायाः विच्छेदः जातः । भविष्यत्कालस्य आचार्यस्य निर्वाचनस्य अधिकारः अपि वर्तमानाचार्याय एव प्रदत्तम् आसीत् ।

साम्प्रते काले तेरापन्थ-सम्प्रदायसङ्घः अनुशासितः, मर्यादितः, व्यवस्थितः च धर्मसङ्घः अस्ति । अस्य श्रेष्ठकार्यस्य सम्पूर्णः श्रेयः आचार्यभिक्षवे एव अस्ति[१७]

आचार्यभिक्षोः विचारवैशिष्ट्यम्[सम्पादयतु]

आचार्यभिक्षोः मौलिकानि चिन्तनानि समाजाय शुभचिन्तकानि भवन्ति स्म । सः हिंसा, दया, दान इत्यादिषु विषयेषु निरन्तरं चिन्तनं करोति स्म । तेषां विषयाणां सः व्याख्यां कृतवान् । तस्य व्याख्याः वैज्ञानिकाः भवन्ति स्म[१८]

आचार्यभिक्षुः अहिंसायाः उपासकः आसीत् । सः कदापि हिंसां नेच्छति स्म । पञ्चेन्द्रियजीवेभ्यः एकेन्द्रियप्राणिनां हननं कर्तव्यम् इति आचार्यभिक्षोः दृष्ट्या अनुचितम् आसीत् । आगमेषु अस्य विरोधः अपि कृतः अस्ति[१९]

अध्यात्मने, व्यवहाराय च तस्य विचारः अपि भिन्नः एव आसीत् । दयादानयोः विषये लौकिकः, लोकोत्तरश्च भेदः प्रस्तुत्य आचार्यभिक्षुणा जैनसमाजे प्रचलितानां मान्यतानां समक्षं नूतनं चिन्तनं प्रस्थापितम् । [२०] तस्मिन् समये समाजस्य मापदण्डः दयादानयोः आधारितः आसीत् । दयादानाभ्याम् एव सर्वोपलब्धिः पुण्योपलब्धिः वा भविष्यति इति मान्यता आसीत् । आचार्यभिक्षुणा लौकिकदयादानयोः व्यवस्थायाः सम्बन्धः कर्तव्यसहयोगाभ्यां सह कारितः । अनया प्रक्रिया मौलिकस्य सत्यस्य आच्छादनं निरस्तीकृतम् । साध्यसाधनयोः विषये अपि तस्य दृष्टिकोणः स्पष्टः एव आसीत् । सुखसाधनाभ्याम् एव सुखसाध्ययोः प्राप्तिः शक्या इति तस्य मतम् आसीत् । [२१]तेन उक्तं यत् – यानि वस्त्राणि रक्तेन सह संसर्गीभूतानि सन्ति तानि वस्त्राणि कदापि शुद्धिं न प्राप्नुवन्ति । तथैव यस्य मनुष्यस्य प्रवृत्तिः हिंसा प्रधाना वर्तते, तस्मै पवित्रलक्ष्यस्य प्राप्तिर्न भवति ।

कवित्वेन आचार्यभिक्षुः[सम्पादयतु]

आचार्यभिक्षुः एकः कविः, साहित्यकारश्चापि आसीत् । [२२]सः राजस्थानी-भाषायां ३८००० पद्यानां रचनाम अपि कृतवान् । तया रचनया जैनसाहित्यं समर्थम् (विपुलम्) अकरोत् । आचारस्य प्रतिपादनं, तत्वदर्शनस्य विश्लेषणं, धर्मसङ्घस्य मौलिकमर्यादानां निरूपणम् इत्यादयः तस्य साहित्यरचनायाः प्रमुखाः विषयाः आसन् । तस्य रचनासु प्राचीनवैराग्यस्य आख्यानम् इति निहितम् अस्ति ।

आचार्यभिक्षुः कविः नासीत् , न भवितुम् ऐच्छत् । यद्यपि तेन भाषाशास्त्रस्य, छन्दशास्त्रस्य, अलङ्कारशास्त्रस्य, रसशास्त्रस्य च प्रशिक्षणम् अपि न प्राप्तम् आसीत्,[२३] तथापि तेन बह्व्यः उत्तमाः रचनाः कृताः । तासु रचनासु सः रसानाम्, अनुप्रासानाम्, अलङ्काराणां च प्रयोगं कृतवान् । पाठकाः तस्य काव्यरसेन सर्वदा मुग्धाः भवन्ति ।

मृत्युः[सम्पादयतु]

आचार्यभिक्षोः जीवनं ज्योतिर्मयम् आसीत् । तस्य जीवनस्य प्रतिक्षणं पुरुषार्थाय, समाजकल्याणाय एव आसीत् । तस्य शासनकाले ४९ साधवः, ५६ साध्व्यश्च आसन् । जैनधर्मस्य आचार्येषु तस्य नाम विख्यातम् अभवत् । ई. स. १८०३ तमस्य वर्षस्य (वि. सं. १८६०) भाद्रपदमासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ राजस्थान-राज्यस्य मारवाड-क्षेत्रस्य सिरियारी-ग्रामे सप्तसप्ततितमे (७७) वयसि आचार्यभिक्षुः समाधिं स्व्यकरोत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  2. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  3. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  4. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  5. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  6. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  7. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  8. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  9. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  10. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  11. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  12. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  13. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 16 December 2014. 
  14. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  15. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  16. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  17. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  18. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  19. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  20. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  21. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  22. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
  23. "आचार्य भिक्षु". terapanthinfo.com. Retrieved 17 December 2014. 
"https://sa.wikipedia.org/w/index.php?title=भिक्षुः_आचार्यः&oldid=364769" इत्यस्माद् पुनः प्राप्तिः