मुनिसुव्रतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुव्रतनाथः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
मुनिसुव्रतनाथः
विंशतितमः जैनतीर्थङ्करः
Sri Munisuvrat Swami Bhagwan ,Santhu.JPG
मुनिसुव्रतनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता सुमित्रः
माता पदमावती
वंशः हरिवंशः
स्थानम्
जन्म राजगृह
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः कृष्णः
चिह्नम् कूर्मः
औन्नत्यम् २० धनुर्मात्रात्मकम् (६० मीटर्)
आयुः ३०,००० वर्षाणि
शासकदेवः
यक्षः वरुणः
यक्षिणी नरदत्ता
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

मुनिसुव्रतनाथः( /ˈmʊnɪsʊvrətəhə/) (हिन्दी: मुनिसुव्रतनाथ,आङ्ग्ल: Munisuvratnatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु विंशतितिमः तीर्थङ्करः अस्ति । भगवतः मुनिसुव्रतनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं कूर्मः च अस्ति । भगवान् मुनिसुव्रतनाथः हरिवंशीयः, गौतमगोत्रीयश्चासीत् ।

कौमारावस्थायां मुनिसुव्रतनाथस्य शरीरस्य औन्नत्यं विंशति (२०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “वरुण” इत्याख्यः यक्षः, “नरदत्ता” इत्याख्या यक्षिणी आसीत् । भगवान् मुनिसुव्रतनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।

जन्म, परिवारश्च[सम्पादयतु]

देवायुष्यं समाप्य भगवतः मुनिसुव्रतनाथस्य जीवः पुनः मृत्युलोकम् आगच्छत् । भरतक्षेत्रस्य राजगृह-नामिका नगरी आसीत् । तस्यां नगर्यां वैशाख-मासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रवण-नक्षत्रस्य मध्यरात्रौ भगवतः मुनिसुव्रतनाथस्य जन्म अभवत् [२]

सुमित्र-नामकः राजगृहनगर्याः राजा आसीत् । सुमित्रः मुनिसुव्रतनाथस्य पिता आसीत्, माता च पद्मावती आसीत् । श्रावण-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ श्रवण-नक्षत्रे रात्रौ पद्मावती तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव पद्मावतीदेवी राज्ञे सुमित्राय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः मुनिसुव्रतनाथस्य जीवः पद्मावतीदेव्याः गर्भं प्राविशत् [३]। इन्द्रादिभिः देवैः च्यवनकल्याणकमहोत्सवः आचरितः आसीत् ।

आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रेण एव स्वप्नानां फलादेशः भवितुं शक्यते । स्वप्नशास्त्रिणां पूजनं कृत्वा पद्मावतीदेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवन्तः यत् – “पद्मावतीदेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करः भविष्यति” इति ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः मुनिसुव्रतनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णे जगति शान्तवातावरणम् आसीत् । राजा सुमित्रः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।

ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः मुनिसुव्रतनाथस्य जन्मोत्सवः आचरितः ।

पूर्वजन्म[सम्पादयतु]

भगवतः मुनिसुव्रतनाथस्य जीवः पूर्वजन्मनि पश्चिममहाविदेहस्य भरतविजयस्य चम्पा-नामिकायां नगर्याम् अवतीर्णः आसीत् । सुरश्रेष्ठनामकः तस्याः नगर्याः राजा आसीत् । भगवान् मुनिसुव्रतनाथः पूर्वजन्मनि सुरश्रेष्ठः राजा आसीत् । सुरश्रेष्ठेन तस्मिन् जन्मनि धर्मस्य साधना कृता । तेन बहुवर्षाणि यावत् राज्यसञ्चालनमपि कृतम् आसीत् ।

सुरश्रेष्ठस्य राज्यस्य नागरिकाः नीतिमन्तः आसन् । अतः राज्ञा कदापि कस्मैचित् अपि दण्डः न प्रदत्तः । अन्ते राजा सुरश्रेष्ठः विरक्तः अभवत् । दीक्षाम् अङ्गीकृत्य अभिग्रहस्य, स्वाध्यायस्य, ध्यानस्य च विशिष्टा साधना सुरश्रेष्ठेन कृता ।

नामकरणम्[सम्पादयतु]

भगवतः मुनिसुव्रतनाथस्य जन्मनः एकादशदिनोत्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः मुनिसुव्रतनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा पद्मावतीदेवी गर्भवती आसीत्, तदा पद्मावतीदेव्या निष्ठापूर्वकं बहवः व्रतोपवासाः कृताः । अतः अस्य बालकस्य नाम मुनिसुव्रतकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततःएव मुनिसुव्रतनाथः इति नाम प्रसिद्धम् अस्ति ।

विवाहः[सम्पादयतु]

भगवतः मुनिसुव्रतनाथस्य बाल्यावस्था मनोरञ्जने अतीता । समयान्तरे सः तारुण्यं प्रापत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सुमित्रेण भगवतः मुनिसुव्रतनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । मुनिसुव्रतनाथस्य विवाहानन्तरं राज्ञः सुमित्रस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः मुनिसुव्रतनाथस्य राज्याभिषेकं कृतवान्, मुनिसुव्रतनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सुमित्रः स्थवीरमुनेः दीक्षां प्रापत् । दीक्षानन्तरं सः गृहं त्यक्त्वा साधनायां लीनः अभवत् ।

राज्यम्[सम्पादयतु]

यदा मुनिसुव्रतनाथः राजा अभवत् तदा तेन राज्यस्य निष्ठापूर्वकं, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । मुनिसुव्रतनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । भगवान् मुनिसुव्रतनाथः सम्पूर्णे राज्ये जनेभ्यः सर्वाणि सौकर्याणि यच्छति स्म । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । यथा कमले पङ्के उत्पन्ने सत्यपि पङ्कात् मुक्तं भवति, तथैव भगवान् मुनिसुव्रतनाथः अपि राज्यस्य सर्वभोगेषु सम्पृक्ते सन् अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलः इव आसीत् ।

राज्ञः मुनिसुव्रतनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । प्रजाजनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजा सुखीनी आसीत् । यतः मुनिसुव्रतनाथः सदैव जनानां हिताय दत्तचित्तः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः मुनिसुव्रतनाथः एव सर्वस्वम् आसीत् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवान् मुनिसुव्रतनाथेन पञ्चदशसहस्रवर्षाणि यावत् राज्यसञ्चालनं कृतम् आसीत् । तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । राज्ये अपि मुनिसुव्रतनाथेन वार्षिकीदानस्य घोषणा कृता । स्वर्गलोकात् बहवः देवाः, चतुष्षष्टिः इन्द्राः चापि तत्र समुपस्थिताः आसन् ।

ततः परं भगवान् मुनिसुव्रतनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

मुनिसुव्रतनाथः पराक्रमी, तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा फाल्गुन-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे भगवान् मुनिसुव्रतनाथः सहस्रजनैः सह राजगृहनगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षे भगवता मुनिसुव्रतनाथेन दीक्षा अङ्गीकृता । तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् ।

दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरे दिने भगवान् मुनिसुव्रतनाथः ब्रह्मदत्तनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य माहात्म्यम् अवबोधितम् आसीत् ।

दीक्षानन्तरं सार्धैकादशमासान् यावत् भगवान् मुनिसुव्रतनाथः रहसि साधनां कुर्वन् आसीत् । भगवता मुनिसुव्रतनाथेन विविधाः तपस्याः, साधनाः च कृता । सः सर्वत्र विचरन् पुनः राजगृह-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । चम्पकवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत् ।

सार्धैकमासानां साधनाकाले भगवान् मुनिसुव्रतनाथः साधनया घातकर्मणां नाशं कृतवान् आसीत् । राजगृह-नगर्यां माघ-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ श्रवण-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

अनन्तरं भगवता मुनिसुव्रतनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः मुनिसुव्रतनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः मुनिसुव्रतनाथस्य प्रथमे प्रवचने एव तीर्थस्य स्थापना जाता । तदैव मुनिसुव्रतनाथः तीर्थङ्करः इति पदं प्रापत् । यदा कोऽपि तीर्थस्य रचनां करोति, तदा सः तीर्थङ्करः कथ्यते । अतः मुनिसुव्रतनाथः अपि तीर्थङ्करः इति नाम्ना ख्यातः अस्ति ।

जनेषु भगवतः मुनिसुव्रतनाथस्य प्रभावः अत्यधिकः वर्तते स्म । भगवान् मुनिसुव्रतनाथः सर्वज्ञः आसीत् । अतः जनानां मनसि मुनिसुव्रतनाथाय महती आस्था आसीत् । जनानां जीवने अपि मुनिसुव्रतनाथस्य महान् प्रभावः अभवत् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् मुनिसुव्रतनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा मुनिसुव्रतनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. १८ गणधराः
  2. १,८०० केवलज्ञानिनः
  3. १,५०० मनःपर्यवज्ञानिनः
  4. १,८०० अवधिज्ञानिनः
  5. २,००० अवैक्रियलब्धिधारिणः
  6. ५०० चतुर्दशपूर्विणः
  7. १,२०० चर्चावादिनः
  8. ३०,००० साधवः
  9. ५०,००० साध्व्यः
  10. १,७२,००० श्रावकाः
  11. ३,५०,००० श्राविकाः

अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रयस्त्रिंशत् गणधरेषु “मल्लिस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः पूर्वमेव सर्वं जानान्ति । तथैव यदा भगवता मुनिसुव्रतनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धपदं प्रापत् । चतुष्षष्टिः इन्द्रैः भगवतः मुनिसुव्रतनाथस्य शरीरस्य निहरणक्रिया कृता ।

एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अश्विनी-नक्षत्रे सम्मेदशिखरे भगवतः मुनिसुव्रतनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः[५]। इन्द्रादिभिः देवैः मोक्षकल्याणकमहोत्सवः आचरितः ।

मुनिसुव्रतनाथेन कौमारावस्थायां पञ्चशताधिकसप्तसहस्रवर्षाणां, राज्ये पञ्चदशसहस्रवर्षाणां, दीक्षायां पञ्चशताधिकसप्तसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशत्सहस्रं वर्षाणि भुक्तानि आसन् [६]

मल्लिनाथस्य निर्वाणानन्तरं चतुर्पञ्चाशत्वर्षाण्यनन्तरं मुनिसुव्रतनाथः मोक्षं प्रापत् ।

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
मल्लिनाथः
मुनिसुव्रतः अग्रिमः
नमिनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३६
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३४
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १११
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३५
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११३
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३६

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुनिसुव्रतः&oldid=321873" इत्यस्माद् पुनः प्राप्तिः