दिगम्बरः सम्प्रदायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

दिगम्बरः सम्प्रदायः ( /ˈdɪɡəmbərəh səmprədɑːjəhə/) (हिन्दी: दिगम्बर सम्प्रदाय, आङ्ग्ल: Digambar sect) जैनधर्मस्य आद्यसम्प्रदायः अस्ति । येषां वस्त्राणि दिशः एव सन्ति ते दिगम्बराः । जैनधर्मस्य दिगम्बरसम्प्रदाये साधुत्वं जीवनम् अत्यन्तं कठिनं वर्तते । बाह्याचरणं, नग्नावस्था, एकान्तवासः, वने विचरणं निवासश्च इत्यादयः दिगम्बरसम्प्रदायस्य नियमाः भवन्ति [१]। प्रतिदिनम् एकं वारं भोजनं करणीयम् भवति । भोजनं तिष्ठन् एव करणीयम् । जलपानमपि एकं वारम् एव करणीयम् । विधिपूर्वकम् एव आहारं स्वीकरणीयम् इत्यपि नियमः वर्तते । भोजनसमये कस्यापि भोजनपात्रस्य आधारः न स्वीकरणीयं भवति । कराञ्जलिः एव भोजनपात्रं भवति । कराञ्जलौ आहारं नीत्वा भुंक्तव्यं भवति । भोजनपरिवेषणाय अपि एकः श्रावकः भवति । सः मुनिभ्यः भोजनं परिवेषयति । यदि परिवेषकेन कापि त्रुटिः भवति, तर्हि तद्दिने तेन मुनिना उपवासः करणीयः भवति । आदिनं मौनं धारयति[२] । दीक्षिता स्त्री आर्जीका (आर्याजी) इति कथ्यते । सा केवलम् एकं श्वेतवस्त्रम् एव धरति । मोक्षप्राप्तये सम्यग्दर्शनम् इति प्रथमं सोपानं वर्तते । दिगम्बरसम्प्रदायस्य अनुयायिनः मोक्षप्राप्तये नग्नत्वं धरन्ति । महावीरभगवतः अनन्तरम् इन्द्रभूति-गौतमः, सुधर्मा, जम्बूस्वामी पर्यन्तं जैनधर्मे मतभेदः नासीत् । किन्तु जम्बूस्वामिनः अनन्तरं जैनधर्मस्य भागद्वयम् अभवत् । श्वेताम्बरसम्प्रदायानुसारं महावीरस्य निर्वाणस्य ६०९ वर्षानन्तरम् अर्थात् ई. स. ८३ तमे वर्षे शिवभूतिना बोटिक मत (दिगम्बरस्य) इत्यस्य स्थापना कृता । कोण्डिन्यकोट्टिवीरौ शिवभूतेः प्रमुखौ शिष्यौ आस्ताम् ।

दिगम्बरसम्प्रदायस्य तीर्थक्षेत्राणि[३][सम्पादयतु]

  • श्रवणबेळगोळ
  • चम्पापुरी
  • पावापुरी
  • गिरनार
  • कुंभोजगिरि
  • गजपन्था
  • मूळबिद्री
  • माङ्गीतूङ्गी

इत्यादीनि क्षेत्राणि दिगम्बरसम्प्रदायस्य तीर्थानि सन्ति ।

दिगम्बरसम्प्रदायस्य वैशिष्ट्यम्[सम्पादयतु]

चतुर्गतिषु मनुष्यगतौ एव मोक्षः प्राप्यते । मुनिदीक्षया विना मोक्षः न प्राप्यते[४] । केवलः पुरूषः एव सम्पूर्णदीक्षा स्वीकर्तुं शक्नोति । जैनधर्मस्य तत्वज्ञानस्य गहनाध्ययनार्थं जयपुर-नगरे टोडरमल् स्मारक ट्रस्ट इत्यनया संस्थया पञ्चवर्षीयः डीग्री-अभ्यासः प्रचलति ।[५] अनेन अभ्यासेन जैनसिद्धान्तानां ज्ञानं प्राप्तुं शक्यते । अनया संस्थया बहवः विद्वांसः भवन्ति । दिगम्बरविद्वांसः देशे विदेशे च जैनधर्मोपरि प्रवचनं कुर्वन्ति । लौकिकमार्गं त्यक्त्वा लोकोत्तरमार्गं प्रति प्रेषणाय दिगम्बरमुनयः प्रयासाः कुर्वन्ति ।

बाह्यानुबन्धः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  2. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  3. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  4. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 
  5. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 
"https://sa.wikipedia.org/w/index.php?title=दिगम्बरः_सम्प्रदायः&oldid=428092" इत्यस्माद् पुनः प्राप्तिः