श्रवणबेळगोळ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
श्रवणबेळगोळ
नगरम्
गोमटेश्वरस्य(बाहुबलेः)विग्रहः (978-993 AD).
गोमटेश्वरस्य(बाहुबलेः)विग्रहः (978-993 AD).
राज्यानि कर्णाटकराज्यम्
मण्डलम् हासनमण्डलम्
Time zone UTC+5:30 (IST)
पुरातनम् चित्रम् (c. 1899)

श्रवणबेळगोळ (Shravanabelagola)कर्णाटकराज्यस्य हासनमण्डले विद्यमानं विश्वप्रसिद्धं जैनक्षेत्रम् । श्रवणबेळगोळ प्रन्तीयभाषया बिळियकोळ बेळगोळ इति प्रसिद्धम्। श्रमण नाम संन्यासी । पूवम् अत्र शतशः जैनसन्यासिनः आसन् अतः एव एतन्नाम स्यात् । अस्य क्षेत्रस्य देवरबेळगोळ श्वेतबेळगोळ गोम्मटपुरम् इति च नामानि सन्ति ।

श्रवणबेळगोळक्षेत्रे पर्वतद्वयम् अस्ति । लघुपर्वतः चन्द्रगिरिः, बृहत्पर्वतः इन्द्रगिरिः द्वयोरपि जैनमन्दिराणि गुहाः दुर्गं शिलाशासनानि च सन्ति । चन्द्रगिरेः प्रमुखाकर्षणं जिनालयेषु अत्यन्तं सुन्दरं चावुण्डरायबसदि इति । अत्र श्रीनेमिनाथस्य पञ्चपादपरिमितोन्नतः विग्रहः शिल्पकलादृष्टया च अतिसुन्दरः अस्ति ।

गोमटेश्वरमूर्तिः[सम्पादयतु]

कर्णाटकराज्ये स्थितानां जैनानां प्रसिद्धक्षेत्रेषु श्रवणबेळ्गोळ अतीव सुन्दरं महत्वपूर्णम् आकर्षकं च अस्ति । विशेषतः अत्र इन्द्रगिरिपर्वते बाहुबलेः महात्मनः सुन्दरमूर्तिः स्थापिता अस्ति । एतां गोमटेश्वरमूर्तिः इति अपि कथयन्ति । एषा मूर्तिः विश्वे एव अद्भुता उन्नता इति ख्याता अस्ति ।

जैनराजस्य राचमल्लस्य मन्त्री चावुण्डरायः मातुः सन्तोषाय एतां मूर्तिं निर्माय क्रिस्ताबे ९७८ तमे वर्षे प्रतिष्ठापितवान् । ग्रानैटइत्याख्यया एकशिलया निर्मिता मूर्तिः इन्द्रगिरिपर्वते ४७० पादपरिमितोन्नतप्रदेशे संस्थापिता अस्ति । पर्वतारोहणाय सोपानानि कृतानि सन्ति । विकसितकमले तिष्ठन्निव गोमटेश्वरः ५७ पादपरिमितोन्नतः ध्यानस्थः इव निमीलिताक्षः अस्ति । देहरचनादृष्ट्या अतीव अद्भुतं शिल्पमेतत् । देहस्योपरि सर्पाः सञ्चरन्तीव चित्रणं कृतमस्ति । देहे सुन्दरलतानां चित्राणि सन्ति । न केवलं जैनाः अपि तु सर्वधर्मीयाः अपि अत्र आगत्य दर्शनं कुर्वन्ति । मूर्तेः पादयोः समीपे स्थित्वा अपूर्वम् आनन्दानुभवम् प्राप्नुवन्ति ।

गोमटेश्वरस्य द्वादशवर्षेषु एकवारं महामस्तकाभिषेकः भवति । सहस्रशः जनाः प्रतिदिनं श्रवणबेळगोळक्षेत्रम् आगच्छन्ति । अत्र वसतिभोजनादिव्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

धूमशकटमार्गः निर्मितः अस्ति । निस्थानमस्ति ।

वाहनमार्गः[सम्पादयतु]

हासनतः ४२ कि.मी । मैसूरुतः ६४ कि.मी. ।
बेङ्गळूरुतः १५७. कि.मी.
चेन्नरायपट्ट्णतः १२ कि.मी.

हासनतः ५१ कि.मी.

मैसूरुतः ६४ कि.मी.

स्वाकीयं वाहनम् अस्ति चेत् आनुकूल्यम् अधिकम् ।

वसतिः[सम्पादयतु]

जैनमठं, यात्रीनिवासः

चन्द्रगिरिः

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रवणबेळगोळ&oldid=481824" इत्यस्माद् प्रतिप्राप्तम्