नेमिनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
नेमिनाथः
द्वाविंशतितमः जैनतीर्थङ्कराः
Neminath Ji.jpg
नेमिनाथस्य प्रतिमा
विवरणम्
अन्यनाम अरिष्टनेमी
ऐतिहासिककाल: ३ सहस्त्राब्दी ई.पू.
परिवारः
पिता समुद्रविजयः
माता शिवादेवी
वंशः हरिवंशः
स्थानम्
जन्म सौरीपुर
निर्वाणम् गिरनारपर्वतः
लक्षणम्
वर्णः कृष्णः
चिह्नम् शङ्खः
औन्नत्यम् १० धनुर्मात्रात्मकम् (३० मीटर्)
आयुः १००० वर्षाणि
शासकदेवः
यक्षः गोमेधः
यक्षिणी अम्बिका
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

नेमिनाथः ( /ˈnɛmɪnɑːθəhə/) (हिन्दी: नेमिनाथ,आङ्ग्ल: Neminath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वाविंशतितमः तीर्थङ्करः अस्ति । भगवतः नेमिनाथस्य वर्णः श्यामः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं शङ्खः अस्ति ।

कौमारावस्थायां नेमिनाथस्य शरीरस्य औन्नत्यं दशः (१०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “गोमेध” इत्याख्यः यक्षः, “अम्बिका” इत्याख्या यक्षिणी च आसीत् । भगवान् नेमिनाथः हरिवंशवंशीयः, गौतमगोत्रीयश्चासीत् ।

जन्म, परिवारश्च[सम्पादयतु]

देवायुष्यं पूर्णं कृत्वा भरतखण्डस्य शौरीपुर-नगरे भगवान् नेमिनाथः अवातरत् । श्रावण-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ चित्रा-नक्षत्रे मध्यरात्रौ शौरीपुर-नगरस्य समुद्रविजय-नामकस्य राज्ञः गृहे भगवतः नेमिनाथस्य जन्म अभवत् ।

नेमिनाथस्य पिता समुद्रविजयः, माता च शिवादेवी आसीत् । समुद्रविजयः शौरीपुर-नगरस्य श्रेष्ठः राजा आसीत् । कार्त्तिक-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ चित्रा-नक्षत्रे रात्रौ शिवादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव शिवादेवी राज्ञे समुद्रविजयाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः नेमिनाथस्य जीवः शिवादेव्याः गर्भं प्राविशत् [२]

आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा शिवादेवी चतुर्दशः स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशम् अकुर्वन् यत् – “शिवादेव्याः गर्भे कश्चन श्रेष्ठः बालको विद्यते । सः बालकः तीर्थङ्करत्वं प्राप्स्यति ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः नेमिनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मनः सन्देशं प्राप्य राजा समुद्रविजयः प्रसन्नः जातः । राजा समुद्रविजयः तत्कालमेव सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार । ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानमपि अक्रियत । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः नेमिनाथस्य जन्मोत्सवः आचरितः ।

पूर्वजन्म[सम्पादयतु]

चतुर्विंशतितीर्थङ्करेषु एकविंशतिः तीर्थङ्कराः प्रागैतिहासिककाले अभवन् । त्रयोविंशतितमः, चतुर्विंशतितमः च तीर्थङ्करः ऐतिहासिककाले अभवताम् । द्वाविंशतितमः तीथङ्करः नेमिनाथात् पूर्वं प्रागैतिहासिकं मन्यते स्म । किन्तु साम्प्रते काले बहूनां विदुषां मतानुसारेण नेमिनाथः ऐतिहासिकः तीर्थङ्करः आसीत् । नेमिनाथस्य पूर्वजन्मनः विवरणमपि प्राप्यते ।

प्रथमः, द्वितीयः च भवः[सम्पादयतु]

जम्बूद्वीपस्य भरतक्षेत्रे अचलपुरनामकं किञ्चन नगरम् आसीत् । तस्य नगरस्य राजा विक्रमधनः आसीत् । तस्य पत्नी धारिणी आसीत् । धारिणी एकं पुत्रम् अजीजनत् । तस्य नाम धनकुमारः इति । धनकुमारस्य विवाहः कुसुमपुरस्य राज्ञः सिंहस्य पुत्र्या धनवत्या सह अभवत् ।

एकदा धनकुमारः, धनवती च इत्येतौ जलक्रिडायै गतवन्तौ आस्ताम् । तत्र ताभ्यां कश्चन रोगी मुनिः दृष्टः । तत्र ताभ्यां तस्य मुनेः सेवा कृता । यदा सः मुनिः अचलपुर-नगरम् प्राप्तवान्, तदा ताभ्यां मुनेः भक्तिः कृता आसीत् । मुनेः उपदेशात् तौ दम्पती श्रावकत्वं स्वीकृतवन्तौ ।

विक्रमधनः दीक्षाम् अङ्गीकर्तुम् ऐच्छत् । अतः तेन धनकुमारस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं धनकुमारेण अपि स्वस्य पुत्रस्य जयन्तस्य राज्याभिषेकं कृत्वा तस्मै राज्यं प्रदत्तम् । धनकुमारः, धवनती च एतौ द्वौ दीक्षाम् अङ्गीकृतवन्तौ । अन्ते सौधर्मनामकं प्रथमं देवलोकं प्राप्तवन्तौ । तत्र महर्धिकदेवौ अभवताम् ।

तृतीयः, चतुर्थश्च भवः[सम्पादयतु]

भरतक्षेत्रस्य वैताढ्यपर्वतश्रेण्यां सूरतेज-नामकं नगरं स्थितमासीत् । विद्याधरसूरः नामकः तस्य नगरस्य राजा आसीत् । विद्युन्मती-नामिका तस्य पत्नी आसीत् । धनकुमारस्य जीवः तृतीये भवे विद्युन्मत्याः गर्भं प्रविष्टः । गर्भकालस्य समाप्त्यनन्तरं पुत्रस्य जन्म अभवत् । तस्य नाम चित्रगतिः इति कृतम् ।

वैताढ्यपर्वतस्य दक्षिणश्रेण्यां शिवमन्दिर-नगरम् आसीत् । तस्य नगरस्य राजा अनन्तसिंहः आसीत् । शशीप्रभा-नामिका तस्य पत्नी आसीत् । धनवत्याः जीवः तृतीये भवे अनन्तसिंहस्य रत्नवती-नामिकायाः पुत्रीस्वरूपेण अवतीर्णः । समयान्तरे तस्याः विवाहः चित्रगतिना सह अभवत् । चित्रगतिः स्वस्य पुरन्दर-नामकस्य पुत्रस्य राज्याभिषेकं कृतवान् । तेन पुरन्दराय राज्यस्य दायित्वम् अपि प्रदत्तम् आसीत् ।

अन्ते चित्रगतिना स्वस्य पत्नीभिः, अनुजभातृभ्यां (मनोगतिः, चपलगतिः) च सह दमधरमुनेः दीक्षा प्राप्ता । बहुवर्षाणि यावत् चित्रगतिः तपस्यां चकार । सः माहेन्द्र-नामके चतुर्थे देवलोके महर्धिकदेवः अभवत् । तस्य पत्नी, भ्रातरौ चापि तस्मिन्नेव लोके देवाः अभवन् ।

पञ्चमः, षष्ठः च भवः[सम्पादयतु]

पूर्वमहाविदेहस्य पद्मविजये सिंहपुर-नगरम् आसीत् । हरिनन्दी-नामकः सिंहपुरस्य राजा आसीत् । प्रियदर्शना-नामिका तस्याः पत्नी आसीत् । चित्रगतेः जीवः देवायुष्यं समाप्य प्रियदर्शनायाः पुत्रस्वरूपेण अजायत । तस्य नाम अपराजितः इति कृतम् ।

जनानन्दपुरस्य राजा जितशत्रुः आसीत् । तस्याः पत्नी धारिणी आसीत् । रत्नवत्याः जीवः धारिण्याः पुत्रीस्वरूपेण अवतीर्णः । प्रीतिमतिः इति तस्याः नामकरणं कृतम् । स्वस्य पुत्र्यां यौवने प्राप्ते सति जितशत्रुणा तस्याः विवाहः स्वयंवरपद्धत्या कारितः । अपराजितः राजा अपि स्वयंवरविवाहाय गतवान् आसीत् । प्रीतिमत्या स्वयंवरे अपराजितस्य वरणं कृतम् । मनोगतेः, चपलगतेः च जीवः अपि माहेन्द्रदेवलोकस्य आयुष्यं समाप्य अस्मिन् जन्मनि सूर, सोम च स्वरूपेण अभवत् ।

अपराजितेन श्रेष्ठतया राज्यस्य सञ्चालनं कृतम् आसीत् । प्रजाजनाः सुखिनः आसन् । तस्य पुत्रः पद्मनाभः आसीत् । समयान्तरे अपराजितेन पद्मनाभस्य राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तं च । तेन पत्न्या, अनुजाभ्यां च सह दीक्षा अङ्गीकृता । दीक्षानन्तरं तैः महत्साधना कृता । अन्ते सर्वे मोक्षं सम्प्राप्य आरण-नामके एकादशे देवलोके देवाः अभवन् ।

सप्तमः, अष्टमः च भवः[सम्पादयतु]

भरतक्षेत्रस्य हस्तिनापुर-नगर्यां श्रीषेणनामकः राजा आसीत् । तस्य पत्न्याः नाम श्रीमती इति । अपराजितस्य जीवः देवलोकस्य सम्पूर्णायुष्यं समाप्य श्रीमत्याः गर्भं प्राविशत् । नवमासानन्तरं सा एकं पुत्रम् अजीजनत् । तस्य नाम शङ्खः इति कृतम् । प्रीतिमत्याः जीवः अङ्गदेशास्य चम्पानगर्याः राज्ञः जितारिणः गृहे पुत्रीस्वरूपेण अवतीर्णः । तस्याः नाम यशोमती इति कृतम् आसीत् । पूर्वजन्मनः अपराजितस्य अनुजौ अस्मिन् जन्मनि यशोधरः, गुणधरः इत्येतौ श्रीषेणस्य पुत्रौ अभवताम् ।

एकदा समीपस्थस्य सीमाडा-नगरस्य जनाः साहाय्यं याचितुं हस्तिनापुर-नगरं समागताः । पल्लिनगरस्य समरकेतु-नामकः कश्चन राजा आसीत् । समरकेतुः सीमाडा-नगरस्य, नगरजनानां च धनं, सम्पत्तिं च अपहृतवान् । नगरजनानां याचनां श्रुत्वा श्रीषेणेन युद्धाय सेना प्रेषिता । श्रीषेणः स्वयमपि गन्तुं सज्जः अभवत् । किन्तु यदा शङ्खः युद्धस्य समाचारं प्राप्तवान्, तदा श्रीषेणस्य स्थाने शङ्खः स्वयमेव युद्धं कर्तुं गतः । तदनन्तरं भयङ्करं युद्धम् अभवत् । अन्ते समरकेतोः सैन्यं नष्टं जातम् । समरकेतुना शङ्खाय समर्पणं कृतम् । समरकेतुना लुण्ठिता सम्पत्तिः जनेभ्यः प्रतिदत्ता ।

समरकेतुं बद्ध्वा शङ्खः हस्तिनापुर-नगरं प्रत्यागच्छन् आसीत् , तदा मार्गे राजा मणिशेखरः अमिलत् । मणिशेखरः शङ्खं दृष्ट्वा पलायितुम् ऐच्छत् । मणिशेखरः बलात् एव यशोमत्या सह विवाहं कर्तुम् इच्छति स्म । अतः यशोमती अवसरं प्राप्य स्वस्य व्यथां शङ्खाय उक्तवती । शङ्खेन मणिशेखरः अवबोधितः । किन्तु तथापि मणिशेखरः न अवगतः । अन्ते शङ्खेन मणिशेखरेण सह युद्धं कृतम् । मणिशेखरः युद्धे पराजितो जातः । मृत्युभयात् मणिशेखरः पलायितवान् । शङ्खस्य शौर्यं दृष्ट्वा यशोमती शङ्खात् आकृष्टा अभवत् । यशोमत्याः पिता चम्पानरेशः जितारिः अपि युद्धस्थलं प्राप्तवान् आसीत् । यशोमती शङ्खेन सह विवाहं कर्तुम् ऐच्छत् । अतः पुत्र्याः मनसः इच्छां ज्ञात्वा जितारिणा वने एव यशोमत्याः शङ्खेन सह विवाहः कारितः ।

राजा श्रीषेणः पुत्रस्य विजयस्य, प्रत्यागमनस्य च सन्देशं प्राप्तवान् । श्रीषेणेन शङ्खस्य उत्साहपूर्वकं स्वागतं कृतम् । शङ्खस्य शौर्यगाथां श्रुत्वा श्रीषेणः प्रसन्नः जातः । श्रीषेणेन राज्ये उत्सवस्य घोषणा कृता । तस्मिन् उत्सवे एव श्रीषेणेन शङ्खस्य राज्याभिषेकः कृतः । अनन्तरं शङ्खाय राज्यस्य दायित्वं प्रदत्तम् । श्रीषेणः स्वयं वैराग्यं प्रापत् । सः साधनां कर्तुं राज्यं त्यक्तवान् । बहुवर्षानन्तरं तेन कैवल्यज्ञानं प्राप्तम् ।

राजा शङ्खः नीतिपूर्वकं राज्यस्य सञ्चालनं कुर्वन् आसीत् । एकदा राजा शङ्खः पत्न्या सह अटितुमुपवनं गतवान् । तस्य मित्राणि, अनुचराः अपि सहैव गतवन्तः आसन् । उद्याने एव भोजनस्य व्यवस्था आसीत् । सर्वे तत्र वार्तालापं कुर्वन्तः आसन् । तदैव एकः मुनिः तत्र आगतः । मुनिं दृष्ट्वा शङ्खः नमस्कृतवान् । यशोमती अपि मुनिं दृष्ट्वा चकिता अभवत् । मुनिः जलार्थं हस्तसङ्केतं कृतवान् । शङ्खः मुनेः सङ्केतम् अवगतवान् आसीत् किन्तु तत्क्षणमेव जलं कुतः आनेयिष्यामि ? इति व्यचारयत् । तदा यशोमती भोजनालयं गत्वा जलम् आनीतवती । शुद्धजलं प्राप्य मुनिः जलम् अपिबत् । अस्मिन् प्रसङ्गे राज्ञा शङ्खेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् । राज्ञी यशोमती अपि एकभवतारी (एकस्मात् भवात् अनन्तरं मोक्षप्राप्तिः) अभवत् । अग्रिमे जन्मनि सा महासत्याः राजीमत्याः स्वरूपेण जन्म प्राप्तवती ।

एकदा मुनिः श्रीषेणः हस्तिनापुर-नगरीं प्राप्तवान् आसीत् । राजा शङ्खः द्वाभ्यां भ्रातृभ्यां, यशोमत्या, सकलपरिवारेण च सह श्रीषेणमुनेः दर्शनं कर्तुं गतवान् । सर्वे श्रीषेणमुनेः प्रवचनं श्रुतवन्तः । प्रवचनानन्तरं शङ्खेन श्रीषेणमुनिं प्रति प्रश्नः पृष्टः यत् – “यशोमत्याः मयि एतावान् स्नेहः प्रेम वा कथम् अस्ति ? अस्य किं कारणम् अस्ति ? मह्यं कथयतु” इति ।

तदा श्रीषेणेन शङ्खः उक्तः यत् – “यदा भवान् पूर्वजन्मनि प्रथमे भवे धनकुमारः आसीत्, तदा सः धनवतीस्वरूपेण भवतः पत्नी आसीत् । अनन्तरं द्वितीये भवे सौधर्मनामके देवलोके सा भवतः सखी आसीत् । पुनः तृतीये भवे मृत्युलोके भवतोः जन्म अभवत् । तस्मिन् जन्मनि भवान् चित्रगतिः आसीत् । सा रत्नवतीस्वरूपेण तव पत्नी आसीत् । पुनः चतुर्थे भवे भवन्तौ माहेन्द्रनामकं देवलोकं गतवन्तौ आस्ताम् । तत्रापि सा भवतः सखी आसीत् । अनन्तरं पञ्चमे भवे पुनः भवन्तौ मृत्युलोकम् आगतौ । तदा तस्मिन् जन्मनि भवान् अपराजितः आसीत् । सा प्रीतिमतीस्वरूपेण भवतः धर्मपत्नी आसीत् । अनन्तरं पुनः षष्ठे भवे भवन्तौ आरणनामकं देवलोकं प्राप्तवन्तौ । तस्मिन् देवलोके अपि सा भवतः सखी एव आसीत् । इत्थं यशोमत्या सह भवतः सप्तजन्मनां सम्बन्धः वर्तते । इदं भवतोः सप्तमभवः वर्तते । अग्रिमे अष्टमे भवे भवन्तौ अनुत्तरविमाने देवौ भविष्यतः । देवलोकस्य आयुष्यं समाप्य भवान् नवमे भवे भरतक्षेत्रस्य “अरिष्टनेमी” “नेमिनाथः” वा इति नामकः द्वाविंशतितमः तीर्थङ्करः भविष्यति । तदा यशोमत्याः नाम राजीमती इति भविष्यति । भवतोः विवाहः निश्चितः भविष्यति, किन्तु अविवाहितावस्थायाम् एव राजीमती दीक्षाम् अङ्गीकरिष्यति मोक्षं प्राप्स्यति च” ।

स्वस्य पूर्वभवानां वर्णनं श्रुत्वा शङ्खस्य मनसि वैराग्यः समुद्भूतः । राज्ञा शङ्खेन अनुजाभ्यां, यशोमत्या, बहुभिः मित्रैश्च सह दीक्षा स्वीकृता । अन्ते सः साधनां कृत्वा मोक्षं प्रापत् । अनन्तरम् अनुत्तर-अपराजित-नामके देवलोके देवः अभवत् ।

नामकरणम्[सम्पादयतु]

भगवतः नेमिनाथस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः नेमिनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । नामकरणदिवसे शिवादेवी श्यामकान्तियुतं शिशुं नीत्वा आयोजितं स्थलं प्राप्तवती । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा शिवादेवी गर्भवती आसीत्, तदा अस्माकं राज्यम् अनिष्टयुक्तम् आसीत् । अपरं च शिवादेवी गर्भकाले स्वप्ने एकम् अरिष्टरत्नमयं चक्रम् (नेमि) अपि दृष्टवती आसीत् । अतः अस्य बालकस्य नाम अरिष्टनेमी इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एव अरिष्टनेमिनाथः नेमिनाथः इति वा नाम प्रसिद्धम् अस्ति ।

हरिवंशस्य उत्पत्तिः[सम्पादयतु]

अरिष्टनेमिनाथस्य पिता समुद्रविजयः हरिवंशीयः प्रतापी राजा आसीत् । विचित्रसंयोगेन हरिवंशस्योत्पत्तिः जाता ।

शीतलनाथः दशमः तीर्थङ्करः आसीत् । तस्य शासनकाले वत्सदेशस्य राजधानी कौशाम्बी-नगरी आसीत् । तस्यां नगर्यां सुमुह-नामकः कश्चन राजा आसीत् । कौशाम्बी-नगर्यां वीरक-नामकः कश्चन जनः आसीत् । सुमुहः राजा वीरकस्य पत्न्याः वनमालायाः आकृष्टः जातः । सुमुहः वनमालां बलात् राजप्रासादे आनीतवान् । समयान्तरे वनमाला सुमुहस्य परमप्रिया राज्ञी अभवत् । वीरकः पत्न्याः विरहेण अर्धविक्षिप्तावस्थायां जीवितः आसीत् । किञ्चित् समयान्तरे सः बालतपस्वी अभवत् ।

एकदा राजा सुमुहः वनमालया सह विहारार्थं वनं गतः । तत्र सः वीरकं दृष्टवान् । वीरकस्य स्थितिं दृष्ट्वा राजा सुमुहः मनसि पश्चात्तापं कुर्वन् आसीत् यत् – “मया अनुचितं कार्यं कृतम् आसीत् । मे दोषात् एव वीरकस्य एतादृशी स्थितिः जाता” । वनमाला अपि पश्चात्तापं कुर्वती आसीत् । अनेन कारणेन द्वयोः मनुष्यस्य आयुर्बन्धः अभवत् । तस्मिन् एव क्षणे तयोः उपरि विद्यत् आपतितः । तेन तयोः प्राणाः निर्गताः । तौ यौगलिकभूमौ हरिवासे युगलस्वरूपेण अजायताम् ।

वीरकेन आजीवनम् अज्ञानतपः कृतम् । अन्ते सः प्रथमे सौधर्मदेवलोके किल्विषी-नामकः देवः अभवत् । सः कालज्ञानी आसीत् । वीरकः राज्ञा सुमुहेन सह वनमालां भोगभूमौ अपश्यत् । तौ दृष्ट्वा वीरकः अत्यन्तः क्रुद्धः जातः ।

सः व्यचारयत् – अधुना एव सुमुहस्य हननं करोमि । किन्तु अस्य हननेन प्रयोजनस्य सिद्धिर्न भविष्यति । यत्र कर्मबन्धः भवेत् तत्रैव मया अयं सुमुहः प्रेषणीयः । अतः सः कस्यचित् राज्यस्य राजा भवितव्यः । यदि सः मांसमदिरयोः भोगं करिष्यति चेत् तस्य नरकगमनं भविष्यति । नरके तस्मै दुःखस्य प्राप्तिर्भविष्यति ।

चम्पा-नगर्याः राज्ञः तस्मिन् समये अवसानम् अभवत् । अतः तस्याः नगर्याः राजा कोऽपि नासीत् । यतः सः नरेशः सन्तानहीनः आसीत् । अतः देवेन चम्पानगर्याम् आकाशवाणी कृता यत् – "भवतां राजाविषयिकी या समस्या वर्तते, तस्याः समस्यायाः उपायः अहं ददामि । अहम् एकं युग्मं प्रेषयामि । तत् युग्मं भवतः राज्यस्य सञ्चालनं करिष्यति । भवद्भिः तस्मै युग्माय मद्यमांसाः, भोगसामग्र्यः च दात्तव्याः । अनन्तरं भवतां राज्यस्य समृद्धिः वर्धिष्यते” ।

देवेन द्वयोः औन्नत्यं न्यूनीकृतम् । तयोः आयुष्यम् अपि न्यूनं कृतम् । नगरजनैः तयोः राज्याभिषेकः कृतः । अनन्तरं तौ भोगासक्तौ अभवताम् । तेन तौ नरकं गतवन्तौ ।

इयमेका आश्चर्यमयी घटना आसीत् । यतः यौगलिकानां नरकगमनं न भवति स्म । अतः तयोः हरिवासयुग्मयोः एव हरिवंशस्य उत्पत्तिर्जाता । सः शीतलनाथश्रेयांसनाथयोः मध्यकालीनः समयः आसीत् । हरिवंशे बहवः प्रतापिनः, शक्तिशालिनः, धर्मात्मानः च राजानः अभवन् । तेषु राजसु पृथ्वीपतिः, महागिरिः, हिमगिरिः, वसुगिरिः, दक्षः, महेन्द्रदत्तः, शङ्खः, वसुश्चेत्यादयः राजानः आसन् ।

वसुः नामकः राजा आकाशे उच्चसिंहासने उपविशति इति शास्त्रेषु वर्णनं प्राप्यते । सः वसुः हरिवंशीयः एव आसीत् । ततः परं दीर्घबाहुः, वज्रबाहुः, सुभानुः च अभवत् । सुभानोः पुत्रः यदुः हरिवंशस्य पराक्रमी प्रभावशाली च राजा अभवत् । यदोः वंशे सौरीवीरनामानौ शक्तिशालिनौ राजानौ अभवताम् । राज्ञा सौरिणा सौरिपुरं, राज्ञा वीरेण सौवीर-नगरं च स्थापितम् [३]

नेमिनाथस्य पैतृककुलम्[सम्पादयतु]

हरिवंशे यः सौरी-नामकः राजा आसीत्, तस्य अन्धकवृष्णिः, भोगवृष्णिः इत्येतौ द्वौ पुत्रौ अभवताम् । अन्धकवृष्णेः दशपुत्राः आसन् । ते – समुद्रविजयः, अक्षोभः, स्तिमितः, सागरः, हिमवान्, अचलः, धरणः, पूरणः, अभिचन्दः, वसुदेवः च । ते पुत्राः दशार्हः इति नाम्ना ख्याताः आसन् । तेष् पुत्रेषु समुद्रविजयः ज्येष्ठः, वसुदेवः कनिष्ठश्च आसन् ।

समुद्रविजयः अत्यन्तः न्यायशीलः, प्रजावत्सलः, उदारश्च आसीत् । वसुदेवः स्वस्य पराक्रमेण सर्वत्र कीर्तिः स्थापिता । समुद्रविजयस्य चत्वारः पुत्राः आसन् । ते – अरिष्टनेमी, रथनेमी, सत्यनेमी, दृढनेमी च । शिवादेवी तेषां माता आसीत् ।

वसुदेवस्य द्वौ पुत्रौ आस्ताम् । तौ - कृष्णः, बलरामश्च । तयोः मातारौ देवकी रोहिणी च । कृष्णः अरिष्टनेमिनाथस्य पितृव्यस्य पुत्रः आसीत् [४]

पराक्रमः[सम्पादयतु]

जरासन्धेन सह युद्धम्[सम्पादयतु]

यदा अरिष्टनेमी प्रायः चत्वारः वर्षदेशीयः आसीत् । तदा कृष्णेन कंसस्य हननं कृतम् आसीत् । कंसस्य पत्नी जीवयशा कृष्णात् खिन्ना अभवत् । अतः तया सम्पूर्णः वृत्तान्तः स्वस्य पित्रे प्रतिवासुदेवाय जरासन्धाय श्रावितः । जरासन्धेन यदुवंशस्य समूलं नाशं कर्तुं निश्चयः कृतः आसीत् । यतः जीवयशया प्रतिज्ञा कृता आसीत् यत् – “यदा अहं कृष्णबलरामाभ्यां सहित समग्रयदुवंशस्य विनाशं द्रक्ष्यामि तदैव शान्तिम् अनुभविष्यामि । अन्यथा अग्निं प्रवेक्ष्यामि” इति ।

कालकुमारः जरासन्धस्य पुत्रः, सेनापतिः च आसीत् । जरासन्धः युद्धाय कालकुमारं सेनया सह प्रेषितवान् । कुलदेव्याः कृपया सर्वे यादवाः समुद्रतटं प्राप्तवन्तः । तत्र देवसाहाय्येन जनाः समुद्रतटे सर्वसौकर्ययुतायाः द्वारिका-नगर्याः निर्माणम् अकुर्वन् । तस्यां नगर्यां सर्वे यादवाः सुखेन जीवन्ति स्म । कुलदेव्याः मायया कालकुमारः हतः ।

द्वारिका-नगर्यां कृष्णबलरामौ अपि निवसन्तौ आस्ताम् । तत्रैव ताभ्यां राज्यं विस्तारितम् । यादवानां समृद्धिविषयिकी, ऐश्वर्यविषयिकी च चर्चा विस्तृता जाता । यदा जरासन्धः इमं सन्देशं प्राप्तवान्, तदा सः क्रुद्धः जातः । जरासन्धेन पुत्रस्य कालकुमारस्य मृत्योः वैरोद्धाराय, पुत्र्याः जीवयशायाः प्रतिज्ञायै च स्वयं युद्धं कर्तुं निर्णयः कृतः ।

सर्वा सेना युद्धस्थलं प्राप्तवती । बहवः राजानः युद्धस्थलं प्राप्य समुद्रविजयम् अवबोधितवन्तः यत् – “अस्माकमुपरि वसुदेवस्य बहवः उपकाराः सन्ति । अतः अस्माभिः अपि वसुदेवस्य साहाय्यं कर्त्तव्यम् । जरासन्धस्य, यादवानां च मध्ये भयङ्कर्ं युद्धम् आरब्धम् । तस्मिन् युद्धे बहवः योद्धारः हताः । यादवैः जरासन्धस्य बहवः पुत्राः हताः । अतः जरासन्धः अपि यादवान् हन्तुं शराणां वर्षां कुर्वन् आसीत् । तेन यादवसेना बलहीना जाता ।

अरिष्टनेमी अपि युद्धे समुपस्थितः आसीत् । इन्द्रेण अरिष्टनेमिने युद्धं कर्तुम् एकः सुसज्जः रथः मातलि-नामकेन सारथिना सह प्रेषितः । अवसरं प्राप्य नेमिकुमारः युद्धस्य दायित्वम् अवहत् । नेमिकुमारः पुरन्दरशङ्खं ननाद । शङ्खनादेन शत्रवः कम्पमानाः जाताः । यादवेषु उत्साहवर्धनम् अभवत् । अन्ते श्रीकृष्णेन सुदर्शनचक्रेण हतः जरासन्धः । सः ऐतिहासिकः विजयः आसीत् । तावदेव कृष्णः नवमः वासुदेवः, बलरामः च नवमः बलदेवः अभवत् [५]

असीमितबलम्[सम्पादयतु]

एकदा नेमिकुमारः विचरन् कृष्णस्य शस्त्रागारं प्राप्तवान् । शस्त्रागारे नेमिकुमारेण पाञ्चजन्यः शङ्खः दृष्टः । नेमिकुमारः तच्छङ्खं ननाद । पाञ्चजन्यशङ्खस्य नादं श्रुत्वा बहवः जनाः मूर्च्छिताः अभवन् । कृष्णबलभद्रौ शस्त्रागारं प्रति धावितवन्तौ । तौ विचारितवन्तौ यत् – “अपरः कः वासुदेवः जातः, यः पाञ्चजन्यशङ्खम् अवादयत्" । यतः वासुदेवं विहाय कोऽपि पाञ्चजन्यशङ्खं वादयितुम् असमर्थः । यदा तौ शस्त्रागारं प्राप्तवन्तौ, तदा शस्त्रसंरक्षकेन ज्ञातं यत् – “नेमिकुमारः तच्छङ्खं ननाद" ।

कृष्णेन विचारितं यत् – “अस्य शङ्खस्य वादनम् अपि अद्भुतः पराक्रमः अस्ति । यतः केवलं वासुदेवः एव इमं शङ्खं वादयितुं शक्नोति । अग्रजः बलरामः अपि असमर्थः अस्ति” इति । कृष्णः चिन्ताग्रस्तः आसीत् यत् – “आवयोः को बलवान्? अहं वा अरिष्टनेमी” ? इति ।

अनया चिन्तया कृष्णेन कतिद्दिवसानन्तरं स्वस्य नेमिनः च बाहुबलस्पर्धा आयोजिता । मल्लशालायां सर्वे मिलितवन्तः । तत्र स्पर्धा आरब्धा । बाहुबलस्पर्धायां नेमिकुमारेण कृष्णः पराजितः । कृष्णेन द्वाभ्यां हस्ताभ्यां प्रयासः कृतः । तथापि कृष्णः किमपि कर्तुम् असमर्थः आसीत् । स्वल्पे समये एव नेमिकुमारः विजयं प्राप्तवान् । सर्वे जनाः अपि चकिताः अभवन् ।

सर्वत्र नेमिकुमारस्य बलस्य प्रशंसा जाता । अन्ते कृष्णः नेमिकुमारम् आलिङ्ग्य उक्तवान् यत् – “एतादृशः बलवान् मे अनुजः । इदानीम् कस्मात् अपि भयम् एव नास्ति । कोऽपि राजा अस्माकं राज्यं जेतुं न शक्ष्यति । अहं मे भ्रातरि गर्वम् अनुभवामि । अनेन ज्ञायते यत् – “नेमिकुमारस्य बलस्य काऽपि सीमा नासीत् । तस्य बलम् असीमितम् आसीत्[६]

विवाहनिरसनं, दीक्षा च[सम्पादयतु]

एकदा कृष्णस्य मनसि नेमिकुमारस्य विवाहस्य विचारः आगतः । “नेमिकुमारः निर्विकारः अस्ति । सः भोगमार्गे आकृष्टः भवेत् इति आवश्यकता अस्ति” इति विचिन्त्य कृष्णेन रुक्मिण्यै, सत्यभामायै च अस्य कार्यस्य दायित्वं प्रदत्तम् ।

रुक्मिणी, सत्यभामा च अस्मिन् कार्ये संलग्ना जाता । एकदा ताभ्यां नेमिकुमारः उक्तः यत् – “आवां त्वया सह जलक्रीडां कर्तुम् इच्छावः । नेमिकुमारः भ्रातृजाययोः आग्रहं निराकर्तुम् अक्षमः आसीत् । अतः सः तयोः सह सरोवरे बहुसमयं यावत् जलक्रीडां कुर्वन् आसीत् । तस्मिन्नैव समये रुक्मिणी, सत्यभामा च विवाहाय आग्रहं कृतवती यत् – “भवता विवाहः करणीयः । यादववंशीयः अस्ति तथापि अविवाहितः भवान् । एतन्नोचितम् । सर्वे यदुवंशीयाः लज्जाम् अनुभवन्ति । किं भवान् इमं प्रस्तावं स्वीकरोति खलु" ?

नेमिकुमारेण अवधिज्ञानेन भविष्यत्कालं ज्ञातं यत् – “विवाहस्य सज्जता एव मे दीक्षायाः निमित्तं भविष्यति” इति । अतः नेमिकुमारेण स्मितेन सह भ्रातृजाययोः आग्रहः स्वीकृतः । नेमिकुमारस्य स्वीकृतिं प्राप्य सर्वे विवाहस्य सज्जतां कुर्वन्तः आसन् । सर्वे प्रसन्नाः अभवन् ।

सर्वे राजकन्यानां विषये विचारं कुर्वन्तः आसन् । तदैव सत्यभामा उक्तवती यत् - “मम अनुजा नेमिकुमाराय योग्या वर्तते” । श्रीकृष्णः अपि सत्यभामायाः विचारं स्वीकृतवान् । तत्कालमेव कृष्णेन उग्रसेनेन साकं तत्पुत्र्याः विषये चर्चा कृता । तदा उग्रसेनेन उक्तं यत् – “इदं मम महत्सौभाग्यम् अस्ति । मम एका पुत्री पूर्वतः एव यदुवंशे निवसति । इदानीम् अपरा कन्या नेमिकुमारस्य पत्नी भविष्यति । अतः अहम् इमं प्रस्तावं स्वीकरोमि । किन्तु मम एका इच्छा अस्ति यत् – “भवद्भिः मम राज्यम् आगत्य एव विवाहं कृत्वा कन्या नेतव्या भविष्यति” ।

श्रीकृष्णेन उग्रसेनस्य प्रस्तावः स्वीकृतः । कृष्णः त्वरितमेव विवाहस्य व्यवस्थां कुर्वन् तत्परः अभवत् । कृष्णः चातुर्मासस्य श्रावण-मासस्य शुक्लपक्षस्य षष्ठीं तिथिं विवाहाय निश्चितवान् । तस्यां तिथौ सर्वैः बान्धवैः सह नेमिकुमारः सुसज्जितरथे उपविश्य विवाहाय गतवान् आसीत् ।

यदा ते उग्रसेनस्य राज्यं प्राप्तवन्तः, तदा नेमिकुमारेण मार्गे एकस्मिन् स्थले भयग्रस्ताः बहवः पशवः दृष्टाः । नेमिकुमारेण सारथिः पृष्टः यत् – “किमर्थम् एतावन्तः पशवः सन्ति” ? तदा सारथिना उक्तं यत् – “एते सर्वे पशवः भवतः विवाहप्रसङ्गाय आनीताः सन्ति । भोजनप्रसङ्गे एतेषां पशूनां मांसस्य परिवेषणं भविष्यति ।

तच्छ्रुत्वा नेमिकुमारस्य हृदयः परिवर्तनम् अभवत् । तेन नेमिकुमारेण तस्मिन्नैव समये विवाहं निरस्य सारथिने प्रतिगमनस्य आदेशः प्रदत्तः । कृष्णबलरामाभ्यां नेमिकुमारः आशंसितः यत् – “इत्थं मा कुरु” । किन्तु नेमिकुमारेण दृढतापूर्वकं तयोः विचाराः अस्वीकृताः । यतः तस्य मनसि वैराग्यस्य भावना उद्भूत । अतः सः विरक्तः जातः । सः पुनः द्वारका-नगरीं प्राप्तवान् आसीत् । सर्वे बान्धवाः अपि पुनः द्वारकानगरीं प्राप्तवन्तः । सः संसारसागरात् मुक्तिं प्राप्तुम् इच्छति स्म । अतः नेमिकुमारेण अविवाहितः भूत्वा एव दीक्षां स्वीकर्तुं निर्णयः कृतः आसीत् [७]

ततः परं नेमिकुमारः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । ततः परं भगवता नेमिनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा श्रावण-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ चित्रा-नक्षत्रे भगवान् नेमिनाथः सहस्रजनैः सह सौरिपुर-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् ।

उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता नेमिनाथेन दीक्षा अङ्गीकृता । दीक्षायाः दिवसे भगवान् अठ्ठमतपः कृतवान् । अपरे दिने भगवता नेमिनाथेन वरदत्त-नामकस्य ब्राह्मणस्य गृहे परमान्नं क्षीराहारः वा गृहीतः ।

केवलज्ञानम्[सम्पादयतु]

दीक्षानन्तरं चतुर्पञ्चाशद्रात्रीः यावत् भगवान् नेमिनाथः रहसि आसीत् । भगवता नेमिनाथेन चतुर्पञ्चाशद्रात्रीः यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सौरिपुरस्य सहस्राम्रोद्यानं प्राप्तवान् ।

सौरिपुरे आश्विन-मासस्य कृष्णपक्षस्य अमावास्यायां तिथौ चित्रा-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [८]। तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च कैवल्यमहोत्सवम् आचरितवन्तः ।

ततः परं भगवता नेमिनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः विरक्ताः अभवन् । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । भगवतः नेमिनाथस्य प्रवचनस्य प्रभावः तादृशः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् नेमिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा नेमिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[९]

  1. ११ गणधराः
  2. १,५०० केवलज्ञानिनः
  3. १,००० मनःपर्यवज्ञानिनः
  4. १,५०० अवधिज्ञानिनः
  5. १,५०० अवैक्रियलब्धिधारिणः
  6. ४०० चतुर्दशपूर्विणः
  7. ८०० चर्चावादिनः
  8. १८,००० साधवः
  9. ४०,००० साध्व्यः
  10. १,६९,००० श्रावकाः
  11. ३,३६,००० श्राविकाः

अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “वरदत्तस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

राजीमत्याः विरक्तिः[सम्पादयतु]

राजीमती राज्ञः उग्रसेनस्य पुत्री, सत्यभामायाः अनुजा च आसीत् । राजीमती रूपवती, बुद्धिमती, लावण्यमयी, सुशीला, सर्वगुणयुता च आसीत् । अरिष्टनेमिना सह विवाहेन सा अतीव प्रसन्ना आसीत् । यदा अरिष्टनेमिना अन्तिमसमये विवाहः निराकृतः, तदा राजीमत्याः हृदये दुःखम् अभवत् । अशुभवार्त्तां श्रुत्वा राजीमती मूर्च्छिता जाता । यदा तया चैतन्यं प्राप्तं तदा अरिष्टनेमिनः अनुकरणं कर्तुं निर्णयः कृतः ।

अरिष्टनेमिनः अनुजः रथनेमी राजीमत्याः रूपलावण्यात् आकृष्टः अभवत् [१०]। सः राजीमत्या सह विवाहं कर्तुम् ऐच्छत् । अतः सः राजीमतीं मेलितुं वारं वारम् उग्रसेनस्य राजप्रासादं गच्छति स्म । एकस्मिन् दिवसे अवसरं प्राप्य रथनेमिना राजीमत्या सह विवाहस्य प्रस्तावः प्रस्थापितः । तदा राजीमत्या ज्ञातं यत् – “रथनेमी विवाहं कर्तुं मया मेलितुम् आगच्छति स्म" ।

राजीमत्या रथनेमिनः प्रस्तावः अस्वीकृतः । तथापि रथनेमी बहून् प्रयासान् कृतवान् । तेन त्रस्ता राजीमती एकां युक्तिं विचारितवती । राजीमती क्षीरं भुक्त्वा रथनेमिने एकं पात्रम् आनेतुम् उक्तवती । यदा रथनेमी पात्रम् आनीतवान्, तदा राजीमत्या तस्मिन् पात्रे वमनं कृतम् । अनन्तरं तद्वमनं तया रथनेमिने भोक्तुम् उक्तम् । रथनेमी क्रुद्धः जातः । रथनेमिना उक्तं यत् – “किमर्थं भवती विडम्बयति ? किं भवती न जानाति यत् – “वमितपदार्थः अभक्ष्यः” इति । किम् अहं श्वा दृश्ये” ?

तदा राजीमती उक्तवती यत् – “यदि भवान् जानाति यत् – “वमितपदार्थः अभक्ष्यः” वर्तते, तर्हि किमर्थं भवतः मनसि मया सह विवाहस्य इच्छा वर्तते । अहं भवतः ज्येष्ठस्य अरिष्टनेमिनः वमिता त्यक्ता वा अस्मि” । अतः पुनः अस्य विषयस्य चर्चा मास्तु” । रथनेमी किमपि वक्तुम् असर्मथः आसीत् अतः लज्जाम् अन्वभवत् । सः पुनः स्वराज्यं प्राप्तवान् । किञ्चित्समयान्तरे रथनेमी विरक्तः जातः । अनन्तरं तेन दीक्षा अङ्गीकृता । समयान्तरे राजीमत्या अपि शताधिकाभिः स्त्रीभिः सह दीक्षा अङ्गीकृता । दीक्षानन्तरं सा साधनां कर्तुं तत्परा अभवन् । श्रीकृष्णेन अपि राजीमत्यै आशीर्वादाः प्रदत्ताः ।

राजीमती अरिष्टनेमिनः दर्शनार्थम् अनेकाभिः साध्वीभिः सह रेवतगिरिपर्वताय प्रस्थितवती । यात्रायां प्राकृतिकिभिः आपद्भिः अवरोधः जातः । वातप्रकोपेण, वृष्टिप्रकोपेण च सर्वाः साध्व्यः विभक्ताः जाताः । वृष्ट्या राजीमत्याः वस्त्राणि आर्द्राणि जातानि आसन् । समीपे एकां गुहाम् अलभत । तत्र अन्धकारः आसीत्, अतः तया सर्वाणि वस्त्राणि शुष्कीकर्तुं निष्कासितानि ।

गुहायाम् अरिष्टनेमी उपविष्टः आसीत् । अशन्याः (Flash of lighting) स्फुरणेन अनावृत्तां राजीमतीं दृष्ट्वा अरिष्टनेमिनः मनसि आसक्ति उद्भूता । सः राजीमत्यै सम्भोगाय उक्तवान् । किन्तु राजीमत्या पुनः वस्त्राणि धृत्वा अरिष्टनेमी अवबोधितः । अरिष्टनेमी पुनः विरक्तिम् अलभत । अनन्तरम् अरिष्टनेमिना प्रायश्चित्तं कृत्वा सिद्धत्वं प्राप्तम् । राजीमत्या अपि साधना आरब्धा । अन्ते सा मुक्तिं प्रापत् [११]

द्वारिकादहनस्य भविष्यवाणी[सम्पादयतु]

भगवता नेमिनाथेन सर्वज्ञकाले बहूनां जनपदां यात्रा कृता । किन्तु तेन तेषु जनपदेषु द्वारिका-नगर्याः सर्वाधिकं भ्रमणं कृतम् आसीत् । एकदा नेमिनाथः द्वारिका-नगरीम् आगतः । तदा कृष्णस्य पारिवारिकजनाः, नागरिकाः च रेवतगिरिपर्वतं भगवतः नेमिनाथस्य प्रवचनं श्रोतुं गतवन्तः ।

प्रवचनं श्रुत्वा कृष्णेन पृष्टं यत् – “सर्वेषां वस्तूनां विनाशः निश्चितः एव । अतः द्वारिका-नगर्याः नाशः कदा भविष्यति” ? नेमिनाथेन उक्तं यत् – “द्वादशवर्षाणाम् अनन्तरं दीपायनर्षेः क्रोधेन द्वारिका-नगर्याः दहनं भविष्यति” । द्वारिकादहनस्य वार्तां श्रुत्वा जनाः चिन्ताग्रस्ताः जाताः । कृष्णेन पुनः पृष्टं यत् – “द्वारिकादहनस्य प्रयोजनं किं भविष्यति” ? भगवता उक्तं यत् – “मद्यपानेन उन्मत्ताः यादवकुमाराः दीपायनर्षिं त्रस्यन्ति । तेन खिन्नः ऋषिः द्वारिकादहनस्य निदानं करिष्यति । तस्य मृत्योः अनन्तरं देवः भविष्यति । पश्चात् सः द्वारिका-नगर्याः दहनं करिष्यति ।

अनन्तरं कृष्णेन पुनः एकः प्रश्नः पृष्टः यत् – “मम मृत्युः कदा भविष्यति” इति ? नेमिनाथः उक्तवान् यत् – “जराकुमारस्य बाणेन भवतः मृत्युः भविष्यति” । कृष्णनेमिनाथयोः सम्भाषणं श्रुत्वा जनाः स्तब्धाः अभवन् । बहवः जनाः विरक्ताः अभवन् । तैः सर्वैः दीक्षा अङ्गीकृता । दीपायनर्षिः, जराकुमारः च द्वारिकां त्यक्त्वा वनं गतवन्तौ [१२]

मदिराप्रतिबन्धनम्[सम्पादयतु]

द्वारिका-नगर्यां सर्वत्र इयं चर्चा एव जायमाना आसीत् । अतः सर्वैः निर्णितं यत् – “द्वारिकादहनस्य कारणं यदि मदिरा एव अस्ति, तर्हि मदिरायाम् एव प्रतिबन्धनं कर्तव्यम्” इति । निर्णयं कृत्वा जनाः मदिरायाः प्रतिबन्धाय प्रयासान् कुर्वन्तः आसन् । द्वारिका-नगर्यां यावत् मद्यसङ्ग्रहः आसीत्, तत्सर्वः सङ्ग्रहः सुदूरेषु वनेषु क्षेपितः । द्वारिका-नगर्यां मदिरायाः निर्माणम् अपि अवरुद्धम् । इतः परं द्वारिका-नगर्यां मदिरायाः आनयनम् अपि प्रतिषिद्धम् आसीत् [१३]

दीपायनर्षेः निदानम्[सम्पादयतु]

कृष्णेन द्वारिका-नगर्याम् उद्घोषितं यत् – “यदि कोऽपि जनः दीक्षां स्वीकर्तुम् इच्छति, तर्हि शीघ्रं कुरु” । यस्य कस्यापि गृहविषयिकी काऽपि समस्या स्यात्, चेत् मां कथयतु । अहं सर्वेषां समस्याः निवारयिष्यामि । कस्यचित् पितरौ वृद्धौ स्याताम् चेत् अहं तेषां सेवां करिष्यामि । यदि कस्यचित् लघुबालकाः स्युः, तर्हि तेषां पालनम् अपि अहं करिष्यामि । अतः ये दीक्षां स्वीकर्तुम् इच्छन्ति तैः सर्वैः चिन्तया विना दीक्षा स्वीकर्त्तव्या । इदानीमहं गृहस्थोऽस्मि । सर्वेषां जनानां व्यावहारिकं दायित्त्वं वक्ष्यामि” ।

कृष्णस्य उद्घोषणां श्रुत्वा बहवः जनाः साधुपदं स्वीकृतवन्तः । किन्तु विधेः विधानं कोऽपि परिवर्तयितुं न शक्नोति । मदिरायाः सङ्ग्रहाः नाशिताः । वर्षर्तौ वर्षा जाता । तया वर्षया समीपस्थाः तडागाः सरोवराः आपूरिताः जाताः । शाम्बादयः यादवकुमाराः भ्रमणार्थं वनं गतवन्तः । ते तृषिताः आसन् । अतः तैः तडागस्य जलपानं कृतम् । तस्य तडागस्य जले मदिरायाः मिश्रणम् आसीत् । अतः मदिरया यावदकुमाराः उन्मत्ताः अभवन् । वने दीपायनर्षिः तपस्यां कुर्वन् आसीत् । उन्मत्तैः यादवकुमारैः दीपायनर्षिः त्रस्तो जातः । दीपायनर्षिः किञ्चित्समयं यावत् शान्तः आसीत् । किन्तु यातनाभिः त्रस्तः दीपायनर्षिः क्रुद्धः जातः । क्रोधे सति तेन उक्तं यत् – “निश्चितसमयावसरे अहं द्वारिका-नगरीं दाहयिष्यामि ।

मुनेः वचनं श्रुत्वा यादवकुमाराः स्तब्धाः अभवन् । सर्वे पश्चात्तापं कुर्वन्तः आसन् । कृष्णेन यादवकुमाराणाम् उद्दण्डता ज्ञाता । कृष्णबलरामाभ्यां दीपायनर्षेः प्रार्थना कृता । कृष्णबलरामयोः अत्यन्तविनयेन अपि दीपायनर्षेः क्रोधः शान्तः न जातः । एतावत् विनयेन मुनिः केवलं कृष्णबलरामाभ्याम् एव वैरोद्धारात् मुक्तिम् अददात् [१४]

तीर्थङ्करत्वस्य भविष्यवाणी[सम्पादयतु]

नेमिनाथः पुनः द्वारिका-नगरीमागतः । खिन्नं कृष्णं दृष्ट्वा नेमिनाथः पृष्टवान् यत् – “कृष्ण ! का समस्या अस्ति” ? तदा कृष्णः उक्तवान् यत् – “बहवः जनाः साधुत्वं स्वीकुर्वन्तः सन्ति । मया अपि किं करणीयम् ? भगवता उक्तं यत् – “भवान् चिन्तां मा कुरु । अग्रिमायाम् उत्सर्पिण्यां भवान् ‘अमम’-नामकः द्वादशः तीर्थङ्करः भविष्यति” । सर्वे जनाः प्रसन्नाः अभवन् ।

नेमिनाथः विचरणं कृत्वा अन्यत्र गतवान् । जनाः धर्मोपासनायां लीनाः अभवन् । दीपायनर्षिः स्वस्य आयुष्यं पूर्णीकृत्य अग्निकुमार-नाम्ना देवस्वरूपेण देवलोके उद्भूतः । तेन अवधिज्ञानेन पूर्वजन्मनः वैरोद्धारः ज्ञातः । पुनः तस्य मनसि वैरोद्धारस्य भावना जागृता । तस्मिन् समये एव अग्निकुमारः (दीपायनर्षिः) द्वारिकां दग्धुं भूलोकम् आगतः । किन्तु प्रतिगृहम् उपासनां दृष्ट्वा सः द्वारिकां दग्धुम् असमर्थः । बहुवर्षाणि यावत् सः अवसरस्य प्रतीक्षां कुर्वन् आसीत् ।

एकादशवर्षाणि व्यतीतानि । अतः जनाः विचारितवन्तः यत् – “सङ्कटसमयः गतः” । इदानीं तपस्यायाः आवश्यकता नास्ति । सर्वैः जनैः तत्कालमेव तपस्या त्यक्ता । दीपायनर्षिः अवसरं प्राप्य अग्निवर्षां चकार । अग्निवर्षया द्वारिकानगरी भस्मीभूता । कृष्णबलरामाभ्यां सर्वान् रक्षितुं प्रयासाः कृताः । किन्तु तौ किमपि कर्तुम् असमर्थौ आस्ताम् । कृष्णस्य पिता वसुदेवः, माता रोहिणी, देवकी इत्येताः अपि दिवङ्गताः [१५]। अनेन प्रकारेण नेमिनाथतीर्थङ्करस्य भविष्यवाणी पूर्णा जाता ।

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता नेमिनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः षड्त्रिंशताधिकपञ्चशतेन साधुभिः सह सम्मेदशिखरं प्राप्तवान् । तत्र नेमिनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।

एकमासस्य अनशनान्ते आषाढ-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ चित्रा-नक्षत्रे रेवतगिरिनामके पर्वते भगवतः नेमिनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [१६]

नेमिनाथेन कौमारावस्थायां त्रिशतस्य वर्षाणां, दीक्षायां सप्तशतस्य वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकसहस्रं वर्षाणि भुक्तानि आसन् [१७]

भगवतः अरिष्टनेमिनः शासनकाले ब्रह्मदत्त-नामकः अन्तिमः चक्रवर्ती राजा अभवत् । सः कम्पिलपुर-नगरस्य राज्ञः ब्रह्मपितुः पुत्रः आसीत् । तस्य मातुः नाम ’चूलनी’ इति आसीत् । ब्रह्मदत्तस्य बाल्यकाले बहवः समस्याः समुद्भूताः आसन् । तथापि अन्ते सः षड्खण्डानां चक्रवर्ती राजा अभवत् [१८]

नमिनाथस्य निर्वाणानन्तरं पञ्चलक्षवर्षानन्तरं नेमिनाथस्य मोक्षः अभवत् ।

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
नमिनाथः
नेमिनाथः अग्रिमः
पार्श्वनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३७
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १२५
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४५-१४६
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४७
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४७-१४८
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १४८-१४९
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५०-१५१
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३२
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६४
  10. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५३
  11. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५४
  12. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १५९-१६०
  13. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६०
  14. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६०-१६१
  15. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६१-१६२
  16. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १३६
  17. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६५
  18. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १६३

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नेमिनाथः&oldid=321875" इत्यस्माद् पुनः प्राप्तिः