मल्लिनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मल्लिनाथः
एकोनविंशतितमः जैनतीर्थङ्करः
Bhagawan Mallinathar.png
मल्लिनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता कुम्भः
माता प्रभावती
वंशः इक्ष्वाकुः
स्थानम्
जन्म मिथिला
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः नीलः
चिन्हम् कुम्भः
औन्नत्यम् २५ धनुर्मात्रात्मकम् (७५ मीटर्)
आयुः ५५,००० वर्षाणि
शासकदेवः
यक्षः कुबेरः
यक्षिणी धरणप्रिया
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

मल्लिनाथः ( /ˈməllɪnɑːθəhə/) (हिन्दी: मल्लिनाथ,आङ्ग्ल: Mallinatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु एकोनविंशतितमः तीर्थङ्करः अस्ति । भगवतः मल्लिनाथस्य वर्णः नीलः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं कुम्भः अस्ति । भगवान् मल्लिनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

एकोनविंशतितमः तीर्थङ्करः स्वयमेव एकः आश्चर्यः आसीत् । अन्ये तीर्थङ्कराः पुरुषशरीरधारिणः आसन् । किन्तु मल्लिनाथस्य स्त्रीशरीरे जन्म अभवत् । मल्लिनाथः मल्लिकुमारी नामिका स्त्री आसीत् । मल्लिकुमारी एव तीर्थङ्करत्वं प्राप्तवती आसीत् । तथापि दिगम्बर-मतानुसारं मल्लिनाथः इति नामकः पुरुषः मन्यते । स्त्रियां तावत् आत्मविश्वासः, पुरुषार्थः च अपि आश्चर्यम् एव गण्यते [१]

कौमारावस्थायां मल्लिनाथस्य शरीरस्य औन्नत्यं पञ्चविंशति (२५) धनुर्मात्रात्मकम् आसीत्[२] । भगवतः धार्मिकपरिवारे “कुबेर” इत्याख्यः यक्षः, “धरणप्रिया” इत्याख्या यक्षिणी च आसीत् । भगवान् मल्लिनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।

जन्म, परिवारश्च[सम्पादयतु]

देवायुष्यं समाप्य महाबलमुनेः जीवः पुनः मृत्युलोकम् आगतः । मिथिला-नगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रस्य मध्यरात्रौ भगवतः मल्लिनाथस्य जन्म अभवत् [३]

मिथिलानगर्याः राजा कुम्भः आसीत् । कुम्भः मल्लिनाथस्य पिता आसीत्, माता च प्रभावती आसीत् । फाल्गुन-मासस्य शुक्लपक्षस्य चतुर्थ्यां तिथौ अश्विनी-नक्षत्रे रात्रौ प्रभावती तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव प्रभावती राज्ञे कुम्भाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः मल्लिनाथस्य जीवः प्रभावत्याः गर्भं प्राविशत् [४]

आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा प्रभावती चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – प्रभावतीदेव्याः गर्भे तीर्थङ्करः अस्ति ।

गर्भकालस्य समाप्त्यनन्तरम् एकस्याः पुत्र्याः जन्म अभवत् । सर्वदा पुरुषत्वेन एव तीर्थङ्करस्य जन्म भवति स्म । अयमेकः नियमविरुद्धः प्रसङ्गः आसीत् । तस्मिन् समये राजप्रासादेषु केवलं पुत्रजन्मनः एव उत्सवः आचर्यते स्म । किन्तु देवैः, चतुष्षष्टिः इन्द्रैः च कन्यायाः अपि उत्सवः आचरितः आसीत् । अतः राजा कुम्भः अपि स्वस्य आनन्दं, प्रसन्नतां च अवरोद्धुम् असमर्थः सन् सः अपि कन्यायाः जन्मोत्सवम् आचरितवान् । राज्ञा कुम्भेन प्रचलिता परम्परा उल्लङ्घिता । राज्ञा कुम्भेन पुत्र्याः जन्मोत्सवः अपि पुत्रजन्मोत्सवः इव आचरितः [५]

ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रीप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः मल्लिनाथस्य जन्मोत्सवः आचरितः ।

पूर्वजन्म[सम्पादयतु]

जम्बूद्वीपस्य पश्चिममहाविदेहस्य सलिलावतीविजये वीतशोका-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा बलः आसीत् । राज्ञः बलस्य पत्नी धारिणी आसीत् । धारिणीदेवी एकं पुत्रम् अजीजनत् । तस्य नाम महाबलः इति कृतम् ।

यदा महाबलः यौवनावस्थां प्राविशत्, तदा राजा बलः पञ्चशतेन कन्याभिः सह तस्य विवाहम् अकारयत् । महाबलस्य कमलश्री-नामिका पत्नी आसीत् । बहुवर्षाणाम् अनन्तरं कमलश्रीः प्रथमं पुत्रम् अजीजनत् । सः पुत्रः बलभद्रः इति नाम्ना ख्यातः आसीत् ।

राजा बलः भवप्रपञ्चात् मुक्तिं प्राप्तुम् ऐच्छत् । अतः बलेन महाबलस्य राज्याभिषेकः कृतः । अनन्तरं महाबलाय राज्यस्य दायित्वं प्रदत्तम् आसीत् । बलः धर्मघोषाचार्यात् दीक्षां स्वीकृतवान् । दीक्षानन्तरं बलः साधनायै एकान्तं गतवान् । महाबलः शासनं प्राप्य राज्यस्य श्रेष्ठतया सञ्चालनं कुर्वन् आसीत् । महाबलस्य षण्मित्राणि आसन् । तानि - १ अचलः, २ धरणः, ३ पूरणः, ४ वसुः, ५ वैश्रवणः, ६ अभिचन्द्रः च ।

एकदा वीतशोका-नगर्याम् आचार्यः धर्मघोषः आगतवान् । तदा महाबलः राजा वैराग्यभावम् आपन्नः । अतः सः दीक्षां गृहीतुं सज्जः अभवत् । महाबलेन सह षण्मित्राणि अपि दीक्षां गृहीतुं सज्जाः अभवन् । सप्तजनैः धर्मघोषमुनेः दीक्षा गृहीता । दीक्षानन्तरं सर्वाणि मित्राणि निश्चितवन्ति यत् “सर्वे सहैव साधनां, तपस्यां च कुर्युः । यतः भविष्यत्काले अपि सर्वदा अस्माकं साहचर्यं भवेत् । इत्थं निश्चयं कृत्वा सर्वे सहैव साधनाम् आरब्धवन्तः ।

एकदा महाबलमुनेः मनसि विचारः प्रस्फुटितः यत् – “सप्तसु मित्रेषु मे स्थानं विशेषं वर्तते । किन्तु तपस्यायाः, अभिग्रहः इत्यादीनां समानतायाः कारणात् इदं वैशिष्ट्यं भविष्यत्काले न प्राप्स्यामि” । अहङ्कारवशात् महाबलेन अनुचितः निर्णयः कृतः । “सर्वेभ्यः मित्रेभ्यः विशिष्टः भवितुं कस्यचित् विशिष्टस्य तपसः आवश्यकता वर्तते” इति महाबलेन विचारितम् ।

यदा आहारदिनं भवति तदा महाबलस्य सर्वाणि मित्राणि आहारं स्वीकुर्वन्ति स्म । किन्तु महाबलः न स्वीकरोति स्म, त्यजति स्म च । अनेन प्रकारेण कृतेन छद्मपूर्वकेण तपसा, अहङ्कारेण, मायया च स्त्रीगोत्रस्य बन्धनम् अभवत् । विशिष्टतपस्यया तेन तीर्थङ्करगोत्रस्य बन्धनम् अपि कृतमासीत् । अन्ते महाबलः अनुत्तरलोकस्य वैजयन्तविमाने सर्वैः मुनिभिः सह देवस्वरूपम् अधरत् ।

नामकरणम्[सम्पादयतु]

शिशोः जन्मनः दशमे, एकादशे वा दिवसे नामकरणं क्रियते । राज्ञा कुम्भेन अपि बालिकायाः नामकरणप्रसङ्गे उत्सवः आयोजितः आसीत् । उत्सवे नगरजनाः, लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च समुपस्थिताः आसन् । तीर्थङ्कराणां सर्वेषु महोत्सवेषु इन्द्राणाम् उपस्थितिः आवश्यकी वर्तते एव ।

देवाः बालिकायै आशीर्वादान् अयच्छन् । अनन्तरं बालिकायाः नामकरणस्य चर्चा जाता । चर्चायां सर्वैः स्वविचाराः समुपस्थापिताः । राज्ञा कुम्भेन उक्तं यत् – “प्रभावतीदेवी यदा गर्भवती आसीत्, तदा प्रभावतीदेवी माल्यशय्यायां (पुष्पशय्या) शयितुम् ऐच्छत् । प्रभावतीदेव्याः इच्छा दैवैः, इन्द्रैः च पूर्णीकृता । अतः मन्ये अस्याः बालिकायाः नाम मल्लिकुमारी भवेत् इति । नगरजनाः, देवाः, इन्द्राः च सन्तुष्टाः आसन् । अतः सर्वे समर्थनं कृतवन्तः ।

मित्रेभ्यः प्रतिबोधः[सम्पादयतु]

यथा यथा मल्लिकुमार्याः वयः वर्धमानम् आसीत्, तथैव सौन्दर्यमपि वर्धमानम् आसीत् । मल्लिकुमार्याः सौन्दर्यस्य बहुप्रचारः अभवत् । यतः तस्याः सौन्दर्यमद्भुतम् आसीत् । “स्वस्य पूर्वभवस्य मित्राणि समीपस्थानां जनपदानां राजानः सन्ति” इति मल्लिकुमार्या अवधिज्ञानेन दृष्टम् । अतः तानि मित्राणि प्रतिबोधितुं मल्लिकुमार्या स्वस्याः उद्याने एकस्य मोहनगृहस्य निर्माणं कारितम् । तस्य भवनस्य मध्यभागे मल्लिकुमारी स्वरूपसदृश्याः एकस्याः स्वर्णमूर्तेः स्थापनाम् अकारयत् ।

मूर्तेः सम्मुखं तया षड्कक्षाः निर्मापिताः । सा मूर्तिः अन्तः रिक्ता आसीत् । मूर्तेः ग्रीवायाम् एकं लघुद्वारम् आसीत् । तद्वारम् उद्घाट्य मल्लिकुमारी प्रतिदिनम् एकम् एकं ग्रासं तस्यां मूर्तौ प्रक्षिपति स्म ।

समीपस्थैः षण्मित्रैः मल्लिकुमार्याः सौन्दर्यस्य प्रशंसा प्राप्ता । प्रशंसां श्रुत्वा मित्राणि अनुरक्तानि अभवन् । सर्वाणि मित्राणि मल्लिकुमार्या सह विवाहं कर्तुम् इच्छन्ति स्म । अतः विवाहस्य सन्देशान् प्रेषितवन्तः । किन्तु राज्ञा कुम्भेन ते सन्देशाः अवहेलिताः । राज्ञः निर्णयेन खिन्नाः समीपस्थाः राजानः युद्धं कर्तुं सूचनां प्रदत्तवन्तः ।

युद्धस्य सन्देशं प्राप्य राजा कुम्भः चिन्ताग्रस्तः जातः । “कथम् अहं षड्भिः राजभिः सह युद्धं करिष्ये” इति राजा कुम्भः अचिन्तयत् । तस्मिन् समये मल्लिकुमारी ततः गच्छन्ती आसीत् । तया चिन्ताग्रस्तः पिता दृष्टः । तदा तया उक्तं यत् – “किमर्थं भवान् युद्धस्य चिन्तां कुर्वन् अस्ति । अहम् अस्याः समस्याः निवारणं करिष्यामि । चिन्ता मास्तु” इति ।

पितुः आज्ञां नीत्वा मल्लिकुमारी षड्भ्यः राजभ्यः सन्देशं प्रदातुम् एकमेकं दूतं प्रेषितवती । अशोकवाटिकायां मेलितुं सा षड्राज्ञः आहूतवती । मल्लेश्वर्याः प्रस्तावं प्राप्य सर्वे राजानः प्रस्तावं स्वीकृतवन्तः । सर्वे राजानः मनसि विचारयन्तः आसन् यत् - “केवलम् अहमेव तया आहूतः अस्मि” ।

निश्चितसमये सर्वे राजानः पृथक् पृथक् द्वारैः पृथक् पृथक् खण्डेषु प्रविष्टवन्तः । पूर्वजन्मनि अपि महाबलस्य एतानि एव षण्मित्राणि आसन् । अस्मिन् जन्मनि तेषां नामानि –

  1. प्रतिबद्धः – सः साकेतपूरी-नामिकायाः नगर्याः राजा आसीत् ।
  2. चन्द्रभागः – अयं चम्पा-नामिकायाः नगर्याः राजा आसीत् ।
  3. रुक्मी – अयं कुणाला-नामिकायाः नगर्याः राजा आसीत् ।
  4. शङ्खः – वाराणसी-नगर्याः राजा अयं शङ्खः वर्तते ।
  5. अदीनशत्रुः - हस्तिनापुरस्य नगरस्य राजा अयं वर्तते ।
  6. जितशत्रुः – अयं कम्पिलपुरनगरस्य राजा वर्तते ।

सर्वे मित्रराजानः अशोकवाटिकायाः मोहनगृहं प्राप्तवन्तः । तत्रत्यां स्थापितां सुसज्जितां मूर्तिं दृष्ट्वा सर्वे राजानः चकिताः अभवन् । मूर्तिं दृष्ट्वा “मल्लिकुमारी अस्ति” इति राजानः अवागमन् । तस्मिन् समये एव मल्लिकुमार्या आगत्य मूर्त्याः छादनम् उद्घाटितम् । सहसा एव अवक्षयस्य अन्नस्य दुर्गन्धः विस्तृतः । तत् दुर्गन्धं सोढुम् अक्षमम् आसीत् ।

तस्मिन् एव समये मल्लिकुमारी उक्तवती यत् – “यदि प्रतिदिनम् एकेन अन्नग्रासेन यदि मूर्तौ दुर्गन्धः उद्भवति, तदा अस्माकं शरीरं तु अन्नभाण्डारं वर्तते । अस्मिन् शरीरे केवलम् अस्थीनि, मांसं, मलं, मूत्रं चैव अस्ति । तदा शरीरे किमर्थम् आसक्तिः ? भवन्तः सर्वे आसक्तिं त्यक्त्वा पूर्वजन्मनः अस्माकं मैत्रीं स्मरन्तु । पूर्वजन्मनि वयं सप्तमित्राणि आस्म । मम नाम महाबलः आसीत् । अस्माभिः मिलित्वा सिद्धं पदं प्राप्तव्यम् । मल्लिकुमार्याः प्रेरणात्मकानि वचनानि श्रुत्वा राजानः स्वं स्वं पूर्वजन्म स्मृतवन्तः । तस्मिन् काले एव सर्वे राजानः विरक्ताः अभवन् । अनन्तरं ते सर्वे दीक्षां प्राप्तुं सज्जाः अभवन् [६]

दीक्षा[सम्पादयतु]

मल्लिकुमार्याः स्वीकृतिं प्राप्य षड्राजानः स्वराज्यं गतवन्तः आसन् । स्वराज्यं प्राप्य राजानः दीक्षां स्वीकर्तुं व्यवस्थां चक्रुः । मल्लिकुमार्या अपि दीक्षां गृहीतुं घोषणा कृता ।

सा वार्षिकीदानं कर्तुं व्यवस्थां चकार । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र आगताः । ततः परं भगवत्या मल्लिदेव्या वार्षिकीदानं कृतम् । वार्षिकीदानम् एकवर्षं यावत् क्रियते । अतः एकवर्षं यावत् तया वार्षिकीदानं कृतम् आसीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

यदा वार्षिकीदानं समाप्तं जातं, तदा मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ अश्विनी-नक्षत्रे भगवती मल्लिदेवी त्रिशतेन स्त्रिभिः, त्रिशतेन पुरुषैः च सह मिथिला-नगरस्य सहस्राम्रोद्यानं गतवती । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवत्या मल्लिदेव्या दीक्षा गृहीता । दीक्षानन्तरं तया त्वरिमेव तपः आरब्धम् ।

दीक्षायाः दिवसे तस्यै अठ्ठमस्य व्रतम् आसीत् । दीक्षायाः अपरे दिने भगवत्या मल्लिदेव्या मिथिला-नगर्याः राज्ञः विश्वसेनस्य गृहे आहारः गृहीतः । दीक्षायां स्वीकृतायां सत्यां सा मनःपर्यवज्ञानी अभवत् । तस्य दिवसस्य तृतीये प्रहरे एव तस्यै कैवल्यज्ञानम् अभवत् । तस्याम् अवसर्पिण्यां सर्वेषु तीर्थङ्करेषु भगवत्या मल्लिदेव्या एव स्वल्परहस्यावस्थायां कैवल्यज्ञानं प्राप्तम् आसीत् ।

तीर्थङ्करेषु केवलं मल्लिदेव्या एव दीक्षायाः दिवसे सर्वज्ञता प्राप्ता आसीत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

ततः परं सः मल्लिनाथः इति नाम्ना प्रसिद्धा जाता । भगवता मल्लिनाथेन समवसरणदिने प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तवन्तः । भगवतः मल्लिनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् मल्लिनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा मल्लिनाथेन धार्मिकपरिवारस्य अपि रचना कृता[७]

  1. २७ गणधराः
  2. २,२०० केवलज्ञानिनः
  3. १,७५० मनःपर्यवज्ञानिनः
  4. २,२०० अवधिज्ञानिनः
  5. २,९०० अवैक्रियलब्धिधारिणः
  6. ६६८ चतुर्दशपूर्विणः
  7. १,४०० चर्चावादिनः
  8. ४०,००० साधवः
  9. ५५,००० साध्व्यः
  10. १,८३,००० श्रावकाः
  11. ३,७०,००० श्राविकाः


अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु षड्त्रिंशत् गणधरेषु “अभीक्षस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्[सम्पादयतु]

यदा भगवान् मल्लिनाथः स्वस्य निर्वाणसमयं ज्ञातवान् आसीत्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

अनन्तरम् एकमासस्य अनशनान्ते फाल्गुन-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ भरणी-नक्षत्रे सम्मेदशिखरे भगवतः मल्लिनाथस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [८]। इन्द्रादिभिः देवैः भगवतः मल्लिनाथस्य मोक्षकल्याणकमहोत्सवः आचरितः ।

मल्लिनाथेन कौमारावस्थायां शतवर्षाणां, दीक्षायां नवशताधिकचतुःपञ्चाशतवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने पञ्चपञ्चाशतं वर्षाणि भुक्तानि आसन् [९]

भगवतः अरनाथस्य निर्वाणस्य कोटिवर्षानन्तरं भगवान् मल्लिनाथः मोक्षं प्रापत् ।

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
अरनाथः
मल्लिनाथः अग्रिमः
सुव्रतनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२८, १३२
  2. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 110
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३३
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १०८
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२९
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२९-१३०
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३२
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. ११०
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १३३

 अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मल्लिनाथः&oldid=321872" इत्यस्माद् पुनः प्राप्तिः