धर्मनाथः
धर्मनाथः | |
---|---|
पञ्चदशः जैनतीर्थङ्करः | |
धर्मनाथस्य प्रतिमा | |
विवरणम् | |
ऐतिहासिककालः | ३ × १०२१० वर्षाणि पूर्वम् |
परिवारः | |
पिता | भानुः |
माता | सुव्रता |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | रत्नपुर |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | वज्रः |
औन्नत्यम् | ४५ धनुर्मात्रात्मकम् (१३५ मीटर्) |
आयुः | २५,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | किन्नरः |
यक्षिणी | कन्दर्पा |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
धर्मनाथः ( ( शृणु) /ˈðərmənɑːθəhə/) (हिन्दी: धर्मनाथ,आङ्ग्ल: Dharmnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु पञ्चदशः तीर्थङ्करः अस्ति । भगवतः धर्मनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं वज्रम् चास्ति ।
कौमारावस्थायां धर्मनाथस्य शरीरस्य औन्नत्यं पञ्चचत्वारिंशत् (४५) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “किन्नर” इत्याख्यः यक्षः, “कन्दर्पा” इत्याख्या शासनदेवी च आसीत् । भगवान् धर्मनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
जन्म, परिवारश्च
[सम्पादयतु]रत्नपुर-नगरे माघ-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ पुष्य-नक्षत्रे मध्यरात्रौ भगवतः धर्मनाथस्य जन्म अभवत् ।
धर्मनाथस्य पितुः नाम भानुः, मातुः नाम सुव्रता च आसीत् । विष्णुदेवः सिंहपुरस्य राजा आसीत् । भानुः कश्चन श्रेष्ठः राजा आसीत् । तस्य शासनकाले जनाः सुखेन जीवन्ति स्म । एकदा वैशाख-मासस्य शुक्लपक्षस्य सप्तम्यां तिथौ पुष्य-नक्षत्रे रात्रौ सुव्रतया तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । द्वौ अतीव प्रसन्नौ अभवताम् । तौ स्वप्नानां फलं न जानीतः स्म । तथापि स्वप्नान् दृष्ट्वा राज्ञी प्रफुल्लिता जाता ।
आगामिदिवसे राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रिभिः चतुर्दशस्वप्नानां फलम् उक्तम् यत् – “एते स्वप्नाः साधारणाः न सन्ति । कस्यचित् तीर्थङ्करस्य जन्म भविष्यति” इति । स्वप्नानां फलादेशं श्रुत्वा राजा, राज्ञी चेत्येतौ द्वौ प्रफुल्लितौ अभवताम् । राज्ये आनन्दस्य वातावरणम् अभवत् । शुभसमाचारं प्राप्य राज्ञा सम्पूर्णे राज्ये दानं कृतम् ।
नवमासानन्तरं भगवतः धर्मनाथस्य जन्म अभवत् । पीडारहितः प्रसवः जातः । यदा प्रसवः अभवत्, तदैव इन्द्राः आगतवन्तः आसन् । तस्मिन् समये एव इन्द्राः नवजातशिशुं सुमेरुपर्वते पाण्डुकवनं नीतवन्तः । तत्र तैः इन्द्रैः शिशोः उपरि जलाभिषेकः कृतः । पुनश्च इन्द्राः तं शिशुं मातुः क्रोडे स्थापितवन्तः ।
यदा राज्ञः पुत्रजन्मनः सन्देशः प्राप्तः, तदा पुत्रप्राप्त्याः उत्साहेन राज्ञा राज्ये पुत्रोत्सवस्य आयोजनं कृतम् । तस्मिन् उत्सवे राजा जनेभ्यः दानं करोति स्म । राज्ये एकादशदिवसात्मकः उत्सवः आसीत् । पुत्रोत्सवे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः चापि समुपस्थिताः आसन् । देवैः, इन्द्रैः च बालकाय आशीर्वादाः प्रदत्ताः ।
पूर्वजन्म
[सम्पादयतु]घातकीखण्डस्य पूर्वविदेहस्य भरतविजये भद्दिलपुर-नामिका काचन नगरी आसीत् । भद्दिलपुरस्य राजा सिंहरथः आसीत् । सः महान् पराक्रमी आसीत् । भगवान् धर्मनाथः पूर्वजन्मनि सिंहरथः आसीत् ।
एकदा सिंहरथः धर्मगुरोः प्रवचनं श्रोतुं गतवान् आसीत् । प्रवचने धर्मगुरुणा आत्मेन्द्रियविषयकं ज्ञानं प्रदत्तम् । धर्मगुरुणा अध्यात्मविषयिकी चर्चा अपि कृता आसीत् । “युद्धे विजयः सरलः वर्तते, किन्तु आत्मनः नियन्त्रणं काठिन्यमयं भवति । सिंहस्य बन्धनं सरलम् अस्ति, किन्तु मनसः, इन्द्रियाणां च संयमः अत्यन्तं कठिनः भवति” इति धर्मगुरोः प्रवचनं श्रुत्वा राज्ञः सिंहरथस्य मनसः विचाराः अपि तथैव अभवन् ।
तावदेव राजा सिंहरथः केवलम् अध्यापने एव पुरुषार्थं कर्तुं विचारयति स्म । सः राजप्रासादे निवसन् अपि साधुः इव जीवति स्म । अवसरं प्राप्य तेन स्वस्मै अधिकारिणे राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं विमलवाहनात् तेन दीक्षा अङ्गीकृता ।
दीक्षानन्तरं सः आत्मशुद्धौ एव स्वस्य सम्पूर्णं जीवनं योजितवान् । घोरतपस्यां कृत्वा तेन तीर्थङ्करगोत्रस्य बन्धनं कृतम् आसीत् । अन्ते भगवान् धर्मनाथः आराधकपदं प्राप्य स्वर्गलोकं गतवान् आसीत् ।
भगवतः धर्मनाथस्य जन्मनः एकादशदिनानाम् अवसाने राज्ञा भानुना नामकरणसंस्कारविधिः आयोजितः । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । स्वर्गलोकात् अपि बहवः देवाः समागताः । लोकान्तिकदेवैः चापि उत्सवम् आचरितम् आसीत् । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते । राज्यस्य नागरिकाः अपि प्रसन्नाः आसन् ।
नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । सुव्रता बालकं नीत्वा आयोजितं स्थलं प्राप्तवती । बालकं दृष्ट्वा जनाः स्तब्धाः अभवन् । बालकस्य शरीरे महत्तेजः दृश्यते स्म । नामकरणाय सर्वैः स्वमतानि प्रदत्तानि आसन् ।
गर्भकालस्य घटनां विचार्य राज्ञा स्वस्य विचारः उक्तः यत् – “गर्भकालसमये सुव्रतायाः मनसि धार्मिकविचाराः आगताः । तस्याः मनसि धार्मिकोपासनां कर्तुम् इच्छा उद्भूता । तया प्रयत्नपूर्वकम् उपासना कृता । अतः अस्य बालकस्य नाम धर्मकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । ततः आरभ्य एषः धर्मनाथः इति नाम्ना ख्यातः अस्ति ।
भगवतः धर्मनाथस्य बाल्यावस्था क्रीडायां व्यतीता । यदा धर्मनाथः तारुण्यं प्राप्तवान्, तदा तस्य शरीरात् तेजः प्रस्फुटितम् । तस्य शरीरं रश्मिपुञ्जः इव दृश्यते स्म । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा भनुना भगवतः धर्मनाथस्य अनेकाभिः सुयोग्याभिः राजकन्याभिः सह विवाहः कारितः । धर्मनाथस्य विवाहानन्तरं राज्ञः भानोः मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः योग्यावसरे धर्मनाथस्य राज्याभिषेकं कृतवान्, धर्मनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं भानुः दीक्षां प्रापत् । सः अनिकेतसाधनां कर्तुं निर्गतवान् ।
राज्यम्
[सम्पादयतु]धर्मनाथः यदा राजा अभवत्, तावदेव सः श्रेष्ठतया शासनं करोति स्म । धर्मनाथस्य राज्यसञ्चालनस्य व्यवस्था धर्मराज्यस्य व्यवस्था आसीत् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । तेन कारणेन धर्मनाथस्य राज्ये अपराधिनः अपि अल्पसङ्ख्यकाः आसन् । जनाः अपि आन्तरिकविवादान् स्वयम् एव निवारयन्ति स्म । कस्यचिदपि जनस्य दुःखं जनाः स्वदुःखं मन्यन्ते स्म । जनेषु स्वार्थभावना अपि प्रायशः लुप्ता जाता ।
जनेषु सम्पत्तेः, धनस्य च उन्मादः एव नासीत् । भगवतः धर्मनाथस्य राज्ये सामूहिकजीवनस्य परम्परा आरब्धा । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । राजा धर्मनाथः अपि राज्यस्य सञ्चालनेन सन्तुष्टः आसीत् । राज्ञः मनसि सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बः इव प्रतिभाति स्म । राज्ये जनाः सुखिनः आसन् ।
राजत्यागः, दीक्षा च
[सम्पादयतु]भगवता धर्मनाथेन पञ्चलक्षवर्षाणि यावत् राज्यस्य सञ्चालनम् कृतम् आसीत् । यदा धर्मनाथः दीक्षायाः कालं ज्ञातवान् , तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा तस्मै राज्यस्य दायित्वं प्रदत्तम् । तस्य मनसि वैराग्यस्य भावना आविरभूत् । अतः सः विरक्तः जातः ।
ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः तत्र समागताः । ततः परं भगवता धर्मनाथेन वार्षिकीदानं कृतम् । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । जनाः अपि दीक्षामङ्गीकर्तुं विचारितवन्तः । यतः राजा शान्तस्वभाववान् , तेजस्वी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा माघ-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ पुष्य-नक्षत्रे भगवान् धर्मनाथः सहस्रजनैः सह नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता धर्मनाथेन दीक्षा अङ्गीकृता ।
दीक्षायाः दिवसे भगवान् षष्ठ्याः तपः कृतवान् । अपरे दिने भगवता धर्मनाथेन सोमनस-नगरस्य राज्ञः धर्मसिंहस्य गृहे प्रथमः क्षीराहारः गृहीतः । दीक्षानन्तरं वर्षद्वयं यावत् भगवान् धर्मनाथः रहसि आसीत् । भगवता धर्मनाथेन वर्षद्वयं यावत् विविधाः तपस्याः, साधनाः च कृताः । सः पुनः सहस्राम्रोद्यानं प्राप्तवान् ।
रत्नपुरे पौष-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ पुष्य-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् [२]। तस्मिन् दिवसे लोकान्तिकदेवाः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम् । देवाः, इन्द्राः, नगरजनाः च केवलमहोत्सवम् आचरितवन्तः ।
ततः परं भगवता धर्मनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिम् इष्टवन्तः । जनाः दीक्षां स्वीकर्तुन् ऐच्छन् । भगवतः धर्मनाथस्य प्रवचनस्य प्रभावः तादृशः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । बहवः जनाः धर्मस्य उपासनायाः नियमान् अङ्गीकृतवन्तः ।
तेजस्वी धर्मसङ्घः
[सम्पादयतु]भगवतः धर्मनाथस्य धर्मशासने नैकाः शक्तिशालिनः राजनायकाः राजशासनं त्यक्त्वा आत्मनः उपासनायाः मार्गं स्वीकृतवन्तः । धर्मस्य आन्तरिकतेजस्विता साधकानां प्रबलसाधनाभ्यः स्फुरिता आसीत् । बाह्यतेजस्विता तत्कालीनानां युगनेतॄणां, सत्ताधीशानां च धर्माय अभिगमात् परिलक्षिता भवति । यत्र समुदायः वर्तते, तत्र द्विप्रकारके तेजस्विते अपेक्षिते स्तः । प्रारम्भिकसाधनाकाले निर्विघ्नतायै बाह्यतेजस्विता आवश्यकी वर्तते । इतिहासः साक्षी अस्ति यत् – यदा यदा बाह्यतेजस्वितया धर्मशासनस्य ह्रासः जातः, तदा तदा धर्मसम्प्रदायेषु सङ्कटानि आगतानि । तेन धर्मस्य ह्रासः अभवत् ।
भगवतः धर्मनाथस्य शासनकाले आन्तरिकतेजस्वितया सह बाह्यतेजस्विता अपि पर्याप्तमात्रायाम् एधते स्म । तस्मिन् समये प्रत्येकं क्षेत्राणां जनाः धर्मे आस्थावन्तः अभवन् । भगवतः धर्मनाथस्य विशिष्टः प्रभावः आसीत् ।
धर्मोपदेशमाध्यमेन भगवान् धर्मनाथः तीर्थस्य स्थापनां चकार । तेन सः तीर्थङ्करपदं प्राप्तवान् । तस्मिन् तीर्थे पुरुषसिंहनामकः पञ्चमः वासुदेवः, सुदर्शन नामकः पञ्चमः बलदेवः, निशुम्भ नामकः चतुर्थः प्रतिवासुदेवश्च अभवत् ।
चत्वारः शलाकापुरुषाः
[सम्पादयतु]सम्पूर्णे अवसर्पिणीकाले त्रयस्त्रिंशत् महापुरुषाः भवन्ति । ते महापुरुषाः शलाकापुरुषाः कथ्यन्ते । तेषु त्रयस्त्रिंशत् शलाकापुरुषेषु भगवान् धर्मनाथः अन्यतमः आसीत् । इतोऽपि चत्वारः शलाकापुरुषाः अपि भगवतः धर्मनाथस्य शासनकाले अभवन् । भगवतः शासनकाले द्वौ चक्रवर्तिनौ अपि अभवताम् । श्री मघवा इत्याख्यः तृतीयः, सनत्कुमारः इत्याख्यः चतुर्थः शलाकापुरुषः आसीत् ।
सावत्थी-नगर्याः राजा समुद्रविजयः आसीत् । समुद्रविजयस्य पुत्रः मघवा इत्याख्यः आसीत् । चतुर्दशस्वप्नानुसारम् एव मघोनः जन्म अभवत् । यदा सः युवावस्थां प्रविष्टवान्, तदा आयुधशालायां चक्ररत्नम् उद्भूतम् । मघवा सम्पूर्णस्य भरतक्षेत्रस्य एकच्छत्रचक्रवर्ती अभवत् ।
सर्वे राजानः मघोनः आज्ञां पालयन्ति स्म । मघवा विशालसाम्राज्यस्य राजा आसीत् । तथापि तेन धर्मः न विस्मृतः । सः धर्मरक्षार्थं जनान् अपि प्रेरयति स्म । मघोनः मनसि वैराग्यस्य विचारः आगतः । अतः मघवा उत्तराधिकारिणः राज्याभिषेकं कृतवान् । मघोना स्वस्मै उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् च ।
अनन्तरं सः भगवतः धर्मनाथस्य उत्तरवर्तिनः आचार्यात् दीक्षाम् अङ्गीकृतवान् । बहुवर्षाणि यावत् तपस्यां, साधनां च कृत्वा मोक्षं प्रापत् । “सः महर्धिकदेवः अभवत्” इति बहुषु ग्रन्थेषु उल्लेखः प्राप्यते ।
चतुर्थः चक्रवर्ती सनत्कुमारः अपि भगवतः धर्मनाथस्य शासनकाले एव अभवत् । हस्तिनापुरस्य राजा अश्वसेनः सनत्कुमारस्य पिता आसीत् । मातुः नाम सहदेवी आसीत् । सनत्कुमारः बाल्यकालादेव चतुष्षष्टिकलासु निपुणः आसीत् । तथापि सः उपाध्यायात् द्विसप्तत्याः (७२) कलानां ज्ञानं प्राप्तवान् आसीत् ।
एकदा अश्वसेनस्य नगर्यां कश्चन व्यापारी प्रशिक्षितान् अश्वान् विक्रेतुं गतवान् आसीत् । तदा सनत्कुमारः अश्वम् आरुह्य परीक्षितुं गतवान् । यावत् अश्वः नगरात् बहिर्निगतः, तावत् अश्वः वायुवेगेन धावन् अदृश्यः जातः । राजा अश्वसेनः चिन्ताग्रस्तः जातः । सः सनत्कुमारम् अन्वेष्टुं प्रयासान् अकरोत् । वने वायुप्रभञ्जनेन अश्वस्य पादचिह्नानि अपि प्लावितानि ।
सनत्कुमारस्य मित्रं महेन्द्रसिंहः तत्रैव आसीत् । अतः सः अश्वसेनाय आश्वासनं दत्त्वा सनत्कुमारम् अन्वेष्टुं निर्गतवान् । महेन्द्रसिंहः नैकेषु प्रदेशेषु सनत्कुमारम् अन्विष्टवान् । किन्तु सः सनत्कुमारं कुत्रापि न प्राप्तवान् । अन्वेषणे एकवर्षं व्यतीतं जातम् ।
एकदा महेन्द्रसिंहः सनत्कुमारम् अन्विषन् एकस्मिन् वने गच्छन् आसीत् । वने एकम् उपवनमासीत् । उपवने युवतिभिः सह कश्चन युवकः दृश्यमानः आसीत् । समीपं गत्वा ज्ञातं यत् – सनत्कुमारः अयं युवकः । सनत्कुमारं मिलित्वा महेन्द्रसिंहः प्रसन्नः अभवत् । अनन्तरं महेन्द्रसिंहः पृष्टवान् यत् - “कथं भवान् लुप्तः जातः आसीत्”?
तदा सनत्कुमारेण राक्षसेन सह युद्धस्य सम्पूर्णः वृत्तान्तः कथितः । तं वृत्तान्तं श्रुत्वा महेन्द्रसिंहः प्रफुल्लितः जातः । सनत्कुमारं नीत्वा महेन्द्रसिंहः हस्तिनापुरं गतवान् । सनत्कुमारः अपि सर्वाभिः कन्याभिः सह नगरं प्राप्तवान्।
राज्ञा अश्वसेनेन परिवारेण सह सनत्कुमारस्य स्वागतं कृतम् । सनत्कुमारस्य महत्कार्यं श्रुत्वा अश्वसेनोऽपि प्रसन्नः अभवत् । राज्ञा अश्वसेनेन सनत्कुमारस्य राज्याभिषेकः कृतः । राजपदं प्राप्त्यनन्तरं सनत्कुमारस्य आयुधशालायां चक्ररत्नम् उद्भूतम् । ततः परं सनत्कुमारेण समग्रे देशे विजयः प्राप्तः । तेन सनत्कुमारः सार्वभौमचक्रवर्ती अभवत् ।
प्रौढावस्थायामपि सनत्कुमारस्य शारीरिकसौन्दर्ये किमपि परिवर्तनं नासीत् । एकदा शकेन्द्र इत्याख्येन राज्ञा सनत्कुमारस्य प्रशंसा कृता । सनत्कुमारस्य सौन्दर्यं दृष्टुं द्वे देवते मृत्युलोकं प्राप्तवन्तौ । ते देवते वृद्धौ भूत्वा राजप्रासादं गतवन्तौ । द्वारपालस्य आज्ञया राजप्रासादे प्रविष्टवन्तौ ।
सनत्कुमारः स्नानात् पूर्वम् अङ्गमर्दनं कुर्वन् आसीत् । ते देवते सनत्कुमारं दृष्ट्वा विस्मिते जाते । तदनन्तरं चक्रवर्ती सनत्कुमारः उक्तवान् यत् - “भवद्भ्याम् तु इदानीं स्वल्पम् एव दृष्टम् । यदि इतः अपि अधिकं सौन्दर्यं दृष्टुम् इच्छतः, चेत् किञ्चित् समयान्तरं राज्यसभायाम् आगच्छताम्” इति ।
सनत्कुमारस्य आज्ञानुसारं देवौ राज्यसभायां समुपस्थितवन्तौ । सनत्कुमारस्य शरीरं दृष्ट्वा देवाभ्याम् उक्तं यत् – “भवतः शरीरे कीटकाः जाताः । यदि दृष्टुम् इच्छति चेत् स्वस्य आस्यास्रवं पश्यतु” । सनत्कुमारेण स्वस्य आस्यास्रवः दृष्टः । सनत्कुमारः आस्यास्रवे कीटकाः दृष्टवान् । तत्कालमेव तस्य मनः सौन्दर्यात् विरक्तं जातम् ।
सनत्कुमारः स्वस्य उत्तराधिकारिणे राज्यस्य दायित्वं दत्तवान् । अनन्तरं सः भगवतः धर्मनाथस्य शासने दीक्षाम् अङ्गीकृतवान् । तेन उत्कृष्टतपस्या कृता । समयान्तरे तेन विविधाः विद्याः लब्धाः ।
एकदा स्वर्गलोके पुनः राजर्षेः प्रशंसा अभवत् । तदा मुनेः विदेहभावनां परीक्षितुम् एकः देवः वैद्यस्वरूपं धृत्वा आगतः । जनाः वैद्यं मुनेः समीपं नीतवन्तः । रूपवन्तं मुनिं दृष्ट्वा वैद्येन उक्तं यत् – “मम ओषधेः रोगस्य नाशः भविष्यति” । राजर्षिः पृष्टवान् – “भवान् कस्य रोगस्य चर्चां करोति, द्रव्यरोगः भावरोगः वा ? द्रव्यरोगं नाशयितुम् अहं समर्थोऽस्मि । किं भवान् भावरोगं नाशयितुं शक्नोति”? इत्युक्त्वा शरीरस्य कुष्टग्रस्तस्थले मुनिना स्वस्य आस्यास्रवं लेपितम् । किञ्चित् क्षणानन्तरं कुष्टरोगस्थलं स्वस्थं जातम् । चर्मणः वर्णः अपि परिवर्तितः जातः आसीत् ।
विस्मितदेवेन मुनेः चरणवन्दनं कृतम् । देवेन सम्पूर्णा घटना कथिता । अनन्तरं देवः स्वर्गलोकं गतवान् । अन्ते सनत्कुमारः मुक्तिं प्रापत् ।
धार्मिकः परिवारः
[सम्पादयतु]यदा भगवान् धर्मनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा धर्मनाथेन धार्मिकपरिवारस्य अपि रचना कृता[३]।
- ४३ गणधराः
- ४,५०० केवलज्ञानिनः
- ४,५०० मनःपर्यवज्ञानिनः
- ३,६०० अवधिज्ञानिनः
- ७,००० अवैक्रियलब्धिधारिणः
- ९०० चतुर्दशपूर्विणः
- २,८०० चर्चावादिनः
- ६४,००० साधवः
- ६२,४०० साध्व्यः
- २,०४,००० श्रावकाः
- ४,१३,००० श्राविकाः
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “अरिष्टस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
निर्वाणम्
[सम्पादयतु]तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः पूर्वमेव तेभ्यः निर्वाणसमयस्य ज्ञानं भवति । यदा भगवता धर्मनाथः अपि स्वस्य निर्वाणकालं ज्ञातवान्, तदा सः नैकैः साधुभिः सह सम्मेदशिखरं गतवान् । तत्र धर्मनाथेन एकमासं यावत् अनशनं कृतम् । सः एकमासं यावत् पुनः तपस्यां, साधनां च कृतवान् । एकमासानन्तरं तेन शैलेशीपदं प्राप्तम् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः जातः । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।
एकमासस्य अनशनान्ते ज्येष्ठ-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ भरणी-नक्षत्रे सम्मेदशिखरे भगवतः धर्मनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [४]।
धर्मनाथेन कौमारावस्थायां पञ्चविंशतिसहस्रवर्षाणां, राज्ये पञ्चाशत्सहस्रवर्षाणां, दीक्षायां पञ्चविंशतिसहस्रवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने एकलक्षं वर्षाणि भुक्तानि आसन् [५]।
भगवतः धर्मनाथस्य चिह्नं वज्रम् अस्ति । वज्रं भगवतः धर्मनाथस्य चरणयोः प्रतीकं वर्तते । वज्रेण कठोरतायाः ज्ञानं भवति । अतः अनेन वज्रेण ज्ञायते यत् – “कष्टसमये अपि वज्रम् इव धर्मस्य पालनं कर्त्तव्यम् । विकटपरिस्थितौ अपि धर्मरक्षार्थं कार्याणि करणीयानि” इति । भगवान् धर्मनाथेन अपि अयं सन्देशः एव प्रदत्तः ।
अनन्तनाथस्य निर्वाणानन्तरं चतुस्रसागरमात्रात्मकवर्षाणाम् अनन्तरं धर्मनाथस्य मोक्षः अभवत् ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये धर्मनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – धर्मनाथ
- श्री धर्मनाथ भगवान Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 75
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. ११२
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 104
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १०४