पद्मप्रभुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पद्मप्रभुः
षष्ठः जैनतीर्थंकरः
Thirtankara.jpg
पद्मप्रभोः प्रतिमा
विवरणम्
ऐतिहासिककालः १ × १०२२१ वर्षाणि पूर्वम्
परिवारः
पिता धरण
माता सुसीमा
वंशः इक्ष्वाकुः
स्थानम्
जन्म कौशाम्बी
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः रक्तः
चिन्हम् कमलम्
औन्नत्यम् २५० धनुर्मात्रात्मकम् (७५० मीटर्)
आयुः ३०,००,००० पूर्वम् (२११.६८ × १०१८ वर्षाणि)
शासकदेवः
यक्षः कुसुम
यक्षिणी अच्युता
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

पद्मप्रभुः ( ( शृणु) हिन्दी: पद्मप्रभु,आङ्ग्ल: Padmaprabhu) भगवान् जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु षष्ठः तीर्थङ्करः अस्ति । भगवतः पद्मप्रभोः वर्णः रक्तः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं पद्म अस्ति । कौमारावस्थायां पद्मप्रभोः शरीरस्य औन्नत्यं सार्धद्विशतं (२५०) धनुर्मात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “कुसुम” इत्याख्यः यक्षः, अच्युता इत्याख्या शासनदेवी च आसीत् [१]। भगवतः पद्मप्रभोः प्रथमः गणधरः प्रद्योतनस्वामी, प्रथमः आर्यः रतिः च आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

एकत्रिंशत् सागरायुष्यानन्तरं भगवान् पद्मप्रभुः जम्बूद्वीपस्य भरतक्षेत्रस्य कौशाम्बीनगर्याम् अवातरत् । आश्विन-मासस्य कृष्णपक्षस्य द्वादश्यां तिथौ चित्रा-नक्षत्रे मध्यरात्रौ भगवतः पद्मप्रभोः जन्म अभवत् । सः इक्ष्वाकुवंशीयः आसीत् [२]

भगवतः पद्मप्रभोः पिता धरणः, माता सुसीमा च आसीत् । माघ-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ चित्रानक्षत्रे रात्रौ राज्ञी सुसीमा तीर्थङ्करत्वसूचकान् चतुर्दशस्वप्नान् दृष्टवती [३]। आगामीदिवसे राज्ञा, राज्ञ्या च स्वप्नशास्त्रिणां साहाय्येन चतुर्दशस्वप्नानां फलादेशः सञ्ज्ञातः । स्वप्नानां निष्कर्षं ज्ञात्वा राज्ये आनन्दस्य वातावरणम् अभवत् ।

यदा भगवतः जन्म अभवत्, तदा सुसीमायै प्रसवपीडा अपि न जाता । इन्द्रादयः देवाः अपि भगवतः जन्मोत्सवम् आचरितुं मृत्युलोकं समागताः । अनन्तरं राज्ञा पुत्रजन्मनः उत्सवः आचरितः । एकादशदिनात्मकः अयमोत्सवः आसीत्[४]

पूर्वजन्म[सम्पादयतु]

भगवान् पद्मप्रभुः पूर्वजन्मनि सुसीमा-नगर्याः अपराजितः इत्याख्यः राजा आसीत् । घातकीखण्डद्वीपस्य पूर्वमहाविदेहस्य वत्सविजये सुसीमा-नगरी स्थिता आसीत् । राजापदं प्राप्य अपि अपराजितः राजा सन्तहृदयी आसीत् । वासनाभावात् सः मुक्तः आसीत् ।

राज्यस्य वृद्धजनाः अपि कथयन्ति स्म यत् “अस्माकं राज्ञि भोगदृष्ट्या कदापि युवावस्था न आगता । सः सदैव मुनिरिव निवसति । तस्य यौवनस्य उन्मादः कदापि न दृश्यते” ।

राज्यसञ्चालनस्य प्रक्रिया तु केवलं कर्त्तव्यपालनाय एव आसीत् । राजप्रासादेन सह तस्य कोऽपि सम्बन्धः एव नासीत् । सः सर्वं त्यक्तुम् इच्छति स्म । तेन अवसरं प्राप्य अनिकेतधर्मः स्वीकृतः । अपरं च बाह्यजगतः निवृत्तिः प्राप्ता । अनन्तरं सः आन्तरिकसाधनायाम् एकाग्रोऽभूत ।

तीर्थङ्करगोत्रबन्धस्य विंशतिकारणानां तेन विशिष्टा उपासना कृता । अन्ते अनशनं कृत्वा समाधिपूर्वकं प्राणत्यागः कृतः [५]

नामकरणम्[सम्पादयतु]

भगवतः नामकरणे प्रसङ्गे बहवः लोकान्तिकदेवाः समुपस्थिताः आसन् । यतः यदा यदा तीर्थङ्कराणाम् उत्सवः क्रियते स्म, तदा तदा चतुष्षष्ठीइन्द्राणां, लोकान्तिकदेवानां च उपस्थितिः आवश्यकी वर्तते स्म ।

नामकरणप्रसङ्गे सर्वैः स्वमतानि प्रदत्तानि । अन्ते राज्ञा धरणेन उक्तं यत् “यदा अयं बालकः गर्भस्थः आसीत्, तदा अस्याः माता पद्मशय्यायां शेतुम् इच्छति स्म । बालकः प्रभा अपि पद्म इव दृश्यते । अतः अस्य नाम पद्मप्रभकुमार इति करणीयम् । अन्ते सर्वेषां मतानुसारं पद्मप्रभुः इति नाम निश्चितम् । सर्वे जनाः देवताः च राज्ञः निर्णयेन सन्तुष्टाः आसन् [६]

विवाहः[सम्पादयतु]

बाल्यावस्थायाः परं यदा भगवान् पद्मप्रभुः युवावस्थायां प्राविशत्, तदा राज्ञा धरणेन सुयोग्याभिः कन्याभिः सह विवाहः कारितः । समयान्तरे राजा धरणः योग्यसमये पद्मप्रभोः राज्याभिषेकं कृतवान् । समग्रराज्यस्य दायित्वं धरणेन पद्मप्रभवे अदीयत । अनन्तरं राजा धरणः साधनायाम् एकाग्रोऽभूत् ।

राज्यम्[सम्पादयतु]

भगवान् पद्मप्रभुः निर्लिप्तभावेन राज्यं सञ्चालयति स्म । सः श्रेष्ठतया प्रजापालनं करोति स्म । यद्यपि तस्य कुमारावस्था आसीत्, तथापि जीवने उन्मादः एव नासीत् । किन्तु तस्य मनसि वात्सल्यं, प्रेम च आसीत् । प्रजानां हितस्य चिन्तने एव पद्मप्रभोः समयः गच्छति स्म ।

भगवतः पद्मप्रभोः राज्ये सर्वे जनाः सुखिनः आसन् । राज्ये कस्यापि वस्तुनः अभावः एव नासीत् । जनाः भगवतः पद्मप्रभोः संरक्षणे निश्चिन्ताः आसन् । भगवते पद्मप्रभवे जनानां मनसि आत्मीयता आसीत् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

दीर्घकालं यावत् भगवता पद्मप्रभोः राज्यस्य दायित्वं पालितम् । तेन भोगावलिकर्मणां भोगः कृतः । अनन्तरं सः दीक्षायै उद्यतोऽभवत् । लोकान्तिकदेवाः अपि पञ्चमस्वर्गलोकात् आगत्य निवेदनं कृतवन्तः यत् – “ प्रभो । विश्वस्य आध्यात्मिकोन्नयनाय प्रयत्नं करोतु” ।

भगवता पद्मप्रभुना उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । ततः परं भगवान् पद्मप्रभुः वार्षिकीदानस्य व्यवस्थां चकार । एकवर्षं यावत् भगवता पद्मपभुना वार्षिकीदानं कृतम् । जनाः आवश्यकतानुसारं दानं स्वीकुर्वन्ति स्म । कोऽपि जनः दानं स्वीकर्तुं शक्नोति स्म । अतः दूरप्रदेशेभ्यः अपि जनाः दानं स्वीकर्तुं आगच्छन्ति स्म ।

वार्षिकीदानस्य सन्देशं प्राप्य आर्यक्षेत्रस्य जनाः चिन्तिताः अभवन् । सहस्राधिकजनाः अपि विरक्ताः अभवन् । आश्विन-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ बहवः जनाः नगरं समागताः । तस्मिन् दिवसे भगवता पद्मप्रभुना दीक्षा अङ्गीकृता [७]

दीक्षायाः महोत्सवे नगरजनाः, लोकान्तिकदेवताः, चतुष्षष्ठीन्द्राः च समुपस्थिताः आसन् । भगवान् सुखपालिकायाम् उपविश्य उद्यानं सम्प्राप्तवान् । उद्याने वस्त्राभूषणानां त्यागः कृतः । सहस्रजनैः सह भगवान् पद्मप्रभुः श्रमणधर्मम् अङ्गीकृतवान् । तस्मिन् दिने भगवतः षष्ठः तपः आसीत् । अपरे दिने भगवता पद्मप्रभुना ब्रह्मस्थलस्य राज्ञः सोमसेनस्य गृहे प्रथमः आहारः स्वीकृतः[८]

दीक्षानन्तरं सः सर्वथा ध्यानतपस्यायोः लीनः अभवत् । षड्मासेषु एव तेन सर्वज्ञता प्राप्ता । चैत्र-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ चित्रा-नक्षत्रे कौशाम्बीनगर्यां भगवता केवलज्ञानं सम्प्राप्तम्[९] [१०]। । तदा देवैः उत्सवः आचरितः । अनन्तरं भगवान् पद्मप्रभुः प्रवचनं कृतवान् । भगवतः प्रथमप्रवचनेन एव चतुर्तीर्थानां स्थापना जाता ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् पद्मप्रभुः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां कृतवान्, तदा पद्मप्रभुः धार्मिकपरिवारस्य अपि रचनां चकार[११]

  1. १०७ गणधराः
  2. १२,००० केवलज्ञानिनः
  3. १०,३०० मनःपर्यवज्ञानिनः
  4. १०,००० अवधिज्ञानिनः
  5. १६,८०० अवैक्रियलब्धिधारिणः
  6. २,३०० चतुर्दशपूर्विणः
  7. ९,६०० चर्चावादिनः
  8. ३,३०,००० साधवः
  9. ४,२०,००० साध्व्यः
  10. २,७६,००० श्रावकाः
  11. ५,०५,००० श्राविका

निर्वाणम्[सम्पादयतु]

यदा भगवान् पद्मप्रभुः स्वस्य निर्वाणसमयं ज्ञातवान्, तदा सः सहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र पद्मप्रभुः एकमासं यावत् अनशनञ्चकार । जलान्नं त्यक्त्वा केवलं साधनाम् अकरोत् । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वाणि कर्माणि नष्टानि जातानि । अनन्तरं तेन सिद्धत्वं प्राप्तम् ।

कार्त्तिक-मासस्य कृष्णपक्षस्य एकादश्यां तिथौ चित्रा-नक्षत्रे सम्मेदशिखरे भगवतः पद्मप्रभोः निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन्[१२]

पद्मप्रभुना कौमारावस्थायां सार्धसप्तलक्षं वर्षाण्याः, राज्ये सार्धैकविंशतिलक्षं वर्षा{याः, दीक्षायां षोडशपूर्वाङ्गः च आयुः भुक्तः । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशत् लक्षं वर्षाणि भुक्तानि आसन् [१३]

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
सुमतिनाथः
पद्मप्रभुः अग्रिमः
सुपार्श्वनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 59
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 69
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 71
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 73
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 73
  10. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60
  11. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 72
  12. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 72
  13. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 60

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पद्मप्रभुः&oldid=302502" इत्यस्माद् पुनः प्राप्तिः