अनन्तनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अनन्तनाथः
चतुर्दशः जैनतीर्थङ्करः
Thirtankara.jpg
अनन्तनाथस्य प्रतिमा
विवरणम्
ऐतिहासिकः कालः ७ × १०२१० वर्ष पूर्व
परिवारः
पिता सिंहसेन
माता सुयशादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः: सुवर्णः
चिह्नम् श्येनः
औन्नत्यम् ५० धनुर्मात्रात्मकम् (१५० मीटर)
आयुः ३०,००,००० वर्षाणि
शासकदेवः
यक्षः पातालः
यक्षिणी अङ्कुशा
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

अनन्तनाथः ( /ˈənəntənɑːθəhə/) (हिन्दी: अनन्तनाथ,आङ्ग्ल: Anantnath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु चतुर्दशः तीर्थङ्करः अस्ति । भगवतः अनन्तनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं श्येनः च अस्ति । भगवान् अनन्तनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

कौमारावस्थायाम् अनन्तनाथस्य शरीरस्य औन्नत्यं पञ्चाशत् (५०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “पाताल” इत्याख्यः यक्षः, “अङ्कुशा” इत्याख्या यक्षिणी च आसीत् । भगवान् अनन्तनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गं स्वीकर्तुम् अवबोधयति स्म ।

जन्म, परिवारश्च[सम्पादयतु]

देवायुष्यं समाप्य भगवान् पुनः मृत्युलोकम् आगच्छत् । भरतक्षेत्रे अयोध्या-नामिका नगरी आसीत् । तस्यां नगर्यां चैत्र-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ रेवती-नक्षत्रस्य मध्यरात्रौ भगवतः अनन्तनाथस्य जन्म अभवत् [२]

सिंहसेन-नामकः अयोध्यानगर्याः राजा आसीत् । सिंहसेनः अनन्तनाथस्य पिता आसीत्, माता च सुयशादेवी आसीत् । श्रावण-मासस्य कृष्णपक्षस्य सप्तम्यां तिथौ रेवती-नक्षत्रे रात्रौ सुयशादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव सुयशादेवी राज्ञे सिंहसेनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः अनन्तनाथस्य जीवः सुयशादेव्याः गर्भं प्राविशत् [३]

आगामि-दिने राज्ञा स्वप्नशास्त्रिणः आहूताः । स्वप्नानां फलादेशाय स्वप्नशास्त्रमावश्यकं वर्तते । स्वप्नशास्त्रिणः पूजयित्वा सुयशादेवी चतुर्दशः स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशम् अश्रावयन् यत् – “सुयशादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति ।

गर्भकालस्य समाप्त्यनन्तरं भगवतः अनन्तनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राजा सिंहसेनः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।

ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः अनन्तनाथस्य जन्मोत्सवः आचरितः ।

पूर्वजन्म[सम्पादयतु]

घातकी-खण्डे पूर्वविदेहे ऐरावतविजये अरिष्टा-नामिका काचन नगरी आसीत् । तस्याः नगर्याः राजा पद्मरथः आसीत् । पद्मरथः एव भगवतः अनन्तनाथस्य पूर्वजन्म आसीत् । पद्मरथः श्रेष्ठः राजा आसीत् । भूमण्डले पद्मरथस्य सर्वाधिकं वर्चस्वं वर्तते स्म । कोऽपि राजा तं विरुध्य कार्यं न करोति स्म ।

एकदा चित्तरक्षनामकः गुरुः अरिष्टानगरीं समागतः । राजा पद्मरथः स्वयमेव तस्य दर्शनार्थं गतवान् आसीत् । चित्तरक्षस्य गुरोः प्रवचनं श्रुत्वा राजा पद्मरथः विरक्तः अभवत् । प्रवचने जीवनस्य महत्त्वम् इति विषये चित्तरक्षेण गुरुणा जनाः अवबोधिताः । अतः राजा अपि विरक्तो भवितुम् ऐच्छत् ।

"जीवनस्य ध्येयः अत्यन्तं महान् वर्तते । किन्तु भोगवासनायाम् एव जनाः लीनाः सन्ति । अतः कथं ध्येयस्य प्राप्तिर्भविष्यति”? इति राज्ञा पद्मरथेन विचारितम् । अनन्तरं सः गुरोः शरणं गतः । तदानीमेव राजा पद्मरथः पुत्रस्य राज्याभिषेकं कर्तुं निर्णयं कृतवान् । राज्ञा पद्मरथेन स्वस्य राज्यस्य दायित्वम् उत्तराधिकारिणे प्रदत्तम् । अनन्तरं सः साधनां कर्तुं राज्यात् निर्गतवान् ।

राजा पद्मरथः दीक्षानन्तरं घोरतपस्यां चकार । उत्कृष्टसाधनायाः पद्मरथः तीर्थङ्करगोत्रबन्धनं कृतवान् । अन्ते सः आराधकपदं प्राप्य दशमस्वर्गं प्रापत् ।

नामकरणम्[सम्पादयतु]

भगवतः अनन्तनाथस्य जन्मनः एकादश दिनानाम् अवसाने नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः अनन्तनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं प्राप्तवान् । अन्ते राज्ञा स्वस्य विचारं कथितवान् यत् – “यावत् सुयशादेवी गर्भवती आसीत्, तावत् अस्माभिः बहुषु युद्धेषु विजयः प्राप्तः । तेषु युद्धेषु एकस्मिन् युद्धे अस्माकं शासनकालस्य सर्वश्रेष्ठः विजयः अभवत् । तदा वयम् अनन्तविजयं प्राप्तवन्तः । अतः अस्य बालकस्य नाम अनन्तकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव अनन्तनाथः इति नाम प्रसिद्धम् अस्ति ।

विवाहः[सम्पादयतु]

भगवतः अनन्तनाथस्य बाल्यावस्था मनोरञ्जनेन व्यतीता । समयान्तरे सः तारुण्यं प्रापत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सिंहसेनेन भगवतः अनन्तनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । अनन्तनाथस्य विवाहानन्तरं राज्ञः सिंहसेनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः अनन्तनाथस्य राज्याभिषेकं कृतवान्, अनन्तनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सिंहसेनः दीक्षां स्व्यकरोत् ।

राज्यम्[सम्पादयतु]

ततः परम् अनन्तनाथः राजा अभवत् । तेन राज्यस्य मातृवत्, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । अनन्तनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । प्रजाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । जलकमलवत् भगवान् अनन्तनाथः अपि राज्यस्य सर्वभोगेषु सम्पृक्तः सन् अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलम् इव आसीत् ।

राज्ञः अनन्तनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव दृश्यते स्म । राज्ये प्रजाः सुखिन्यः आसन् । यतः अनन्तनाथः सदैव जनानां सौकर्येभ्यः जाग्रतः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः अनन्तनाथः एव सर्वस्वम् आसीत् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवान् अनन्तनाथः पञ्चदशलक्षवर्षाणि यावत् राज्यसञ्चालनम् अकरोत् । यदा तस्य दीक्षायाः समयः जातः, तदा स्वस्य उत्तराधिकारिणः राज्याभिषेकं कृत्वा राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः ।

ततः परं भगवान् अनन्तनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

अनन्तनाथः पराक्रमी तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ रेवती-नक्षत्रे भगवान् अनन्तनाथः सहस्रजनैः सह अयोध्यानगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षं भगवता अनन्तनाथेन दीक्षा अङ्गीकृता ।

तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् । दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरेद्यपि भगवान् अनन्तनाथः वर्धमानपुरस्य विजयनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य गौरवम् अवबोधितम् ।

दीक्षानन्तरं वर्षत्रयं यावत् भगवान् अनन्तनाथः रहसि साधनां कुर्वन् आसीत् । भगवता अनन्तनाथेन विविधाः तपस्याः, साधनाः च कृताः । सः सर्वत्र विचरन् पुनः अयोध्यानगर्याः सहस्राम्रोद्यानं प्राप्तवान् । अशोकवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत ।

वर्षत्रस्यस्य साधनाकाले भगवान् अनन्तनाथः साधनायाः घातकर्मणां नाशं कृतवान् आसीत् । अयोध्या-नगर्यां चैत्र-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ रेवती-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

अनन्तरं भगवता अनन्तनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः अनन्तनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् ।

अपूर्वप्रभावः[सम्पादयतु]

भगवतः अनन्तनाथस्य धर्मशासने धर्मनीतेः प्रभावः चरमसीमायाम् आसीत् । प्रत्येकं राजा धर्मनीतिम् आधृत्य स्वस्य राज्यस्य सञ्चालनं करोति स्म । धर्मोपदेशमाध्यमेन भगवान् अनन्तनाथः तीर्थस्य स्थापनां चकार । तेन सः तीर्थङ्करपदं प्राप्तवान् । तस्मिन् तीर्थे पुरुषोत्तमनामकः चतुर्थः वासुदेवः, सुप्रभनामकः चतुर्थः बलदेवः, मधुनामकः चतुर्थः प्रतिवासुदेवश्च अभवत् । तेषु पुरुषोत्तमः भगवतः अनन्तनाथस्य परमभक्तः आसीत् । भगवतः उपासनया पुरुषोत्तमः विशिष्टं ज्ञानं प्रापत् । सुप्रभः अपि भगवतः अनन्तनाथात् दीक्षाम् अङ्गीकृत्य सिद्धत्वं प्राप्तवान् । सामान्यजनानां मनसि भगवते अनन्तास्था आसीत् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् अनन्तनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा अनन्तनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ५० गणधराः
  2. ५,००० केवलज्ञानिनः
  3. ५,००० मनःपर्यवज्ञानिनः
  4. ४,३०० अवधिज्ञानिनः
  5. ८,००० अवैक्रियलब्धिधारिणः
  6. १,००० चतुर्दशपूर्विणः
  7. ३,२०० चर्चावादिनः
  8. ६६,००० साधवः
  9. ६२,००० साध्व्यः
  10. २,०६,००० श्रावकाः
  11. ४,१४,००० श्राविकाः

अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु पञ्चाशत् गणधरेषु “यश” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः त्रिकालज्ञानिनः भवन्ति । अतः पूर्वमेव तेभ्यः समयस्य ज्ञानं भवति । यदा भगवता अनन्तनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।

एकमासस्य अनशनान्ते चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ पुष्य-नक्षत्रे सम्मेदशिखरे भगवतः अनन्तनाथस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [५]

अनन्तनाथेन कौमारावस्थायां सार्धसप्तलक्षवर्षाणां, राज्ये पञ्चदशलक्षवर्षाणां, दीक्षायां सार्धसप्तलक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने त्रिंशल्लक्षं वर्षाणि भुक्तानि आसन् [६]

भगवतः अनन्तनाथस्य चिह्नं श्येनः अस्ति । श्येनः नामकः कश्चन विहगः वर्तते । श्येनं दृष्ट्वा अन्ये पक्षिणः बिभ्यति । यथा श्येनः लक्ष्यं प्राप्तुं व्याकुलो भवति, तथैव यदि मनुष्यः अपि स्वस्य लक्ष्यं प्रति निष्ठावान् भवेत्, चेत् मनुष्यः स्वस्य जीवनलक्ष्यं प्राप्तुं शक्नोति ।

जैनतीर्थङ्कराः
Orange animated left arrow.gif पूर्वतनः
विमलनाथः
अनन्तनाथः अग्रिमः
धर्मनाथः
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः_सम्प्रदायः
  3. श्वेताम्बरः_सम्प्रदायः
  4. भिक्षुः_आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 74
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 104
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 73
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १०५
  5. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 74
  6. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 74

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनन्तनाथः&oldid=321869" इत्यस्माद् पुनः प्राप्तिः