श्येनः
श्येनः कश्चन महापक्षी। श्येनस्य ७४ प्रभेदाः वर्तन्ते इति जीवविज्ञानिनः वदन्ति।
प्रकृतिः
[सम्पादयतु]श्येनः आकारेण महान् भवति। सः मांसं खादति। मांसखादने तस्य चञ्चूः, पादनखाश्च अनुकूलाः भवन्ति। अन्यपक्षिणां चञ्च्वाः अपेक्षया श्येनस्य चञ्चूः भारयुता बलिष्ठा च भवति। प्रायेण श्येनः कृष्णवर्णीयः भवति। श्येनः आकाशे उपरिभागे एव डयते। तस्य नेत्रं तीक्ष्णं भवति। मारिषस्य श्येनस्य नेत्रस्य प्रमाणं मानवनेत्रस्य प्रमाणात् द्विगुणितं वर्तते। श्येनस्य दर्शनशक्तिः मानवस्यापेक्षया चतुर्गुणिता भवति।.[१] पुंश्येनस्य अपेक्षया स्त्रीश्येन आकारेण महान् भवति।[२][३] महावृक्षेषु बहु उपरिभागे श्येनाः नीडं रचयन्ति। प्रायेण श्येनः अण्डद्वयं सृजति। परन्तु प्रथमतया जातः शिशुः अपरम् अण्डं नाशयति। एवं प्रथमशिशुः प्रायेण स्त्री एव भवति, यश्च आकारेण महान् भवति।[४][५] स्टेल्लर् समुद्रश्येनः प्रायेण ९ के.जि भारयुतः भवति। एषः श्येनेषुः भारतमः।[६] न्यूनभारयुतः श्येनो नाम सौत् निकोबार् सर्पेण्ट् श्येनः। सः 450 ग्रां परिमितः भवति।[७]
प्रभेदाः
[सम्पादयतु]मुख्यरूपेण श्येनानां चत्वारः प्रभेदाः प्रसिद्धाः। मीनश्येनाः, लघुपादश्येनाः, सर्पश्येनाः महारण्यश्येनाः चेति। मीनश्येनाः महाश्येनाः। उत्तरअमेरिकादेशे प्रायेण समुपलभ्यन्ते। एते समुद्रजीविनः भुक्त्वा जीवन्ति।[८] लघुपादश्येनाः सर्वत्र वसन्ति।[९]सर्पश्येनाः सर्पं भुञ्जते। एते आफ्रिकाखण्डे एशियाखण्डस्य दक्षिणभागे च वसन्ति।[१०] महारण्यश्येनाः अमेरिकाखण्डस्य अरण्येषु भवन्ति।[११]
सांस्कृतिकं महत्त्वम्
[सम्पादयतु]प्रायेण सर्वेषां देशानां संस्कृतिषु श्येनपक्षी विशिष्टं स्थानम् आवहति। विष्णोः वाहनं गरुडः श्येनस्य चञ्चूं पक्षौ च धरति इति कथा प्रसिद्धा। एटाना इति राजानां कश्चन श्येनः स्वर्गं नीतवान् इति ग्रीक् देशीयकथायां वर्णितं वर्तते।[१२]श्येनः साक्षात् सूर्यं द्रष्टुं शक्नोति इति लुकान् इत्यस्य पिल्ली इत्यस्य च मध्यकालीन लेखकयोरभिप्रायः।[१३]केनडादेशे श्येनस्य आखेटकं निषिद्धं वर्तते।[१४]
उल्लेखाः
[सम्पादयतु]- ↑ Shlaer, Robert (1972). "An Eagle's Eye: Quality of the Retinal Image". Science 176 (4037): 920–922. PMID 5033635. doi:10.1126/science.176.4037.920. Archived from the original on 30 November 2012. आह्रियत 16 April 2012. Unknown parameter
|df=
ignored (help) - ↑ Leclerc, Georges; Louis, Comte de Buffon (2010). The Natural History of Birds: From the French of the Count de Buffon; Illustrated with Engravings, and a Preface, Notes, and Additions, by the Translator. Cambridge University Press. pp. 60–. ISBN 978-1-108-02298-9. Archived from the original on 29 April 2016. Unknown parameter
|df=
ignored (help) - ↑ Grambo, Rebecca L. (2003). Eagles. Voyageur Press. ISBN 978-0-89658-363-4. Archived from the original on 30 April 2016. Unknown parameter
|df=
ignored (help) - ↑ Grambo, Rebecca L (2003). Eagles. Voyageur Press. p. 32. ISBN 978-0-89658-363-4.
- ↑ Stinson, Christopher H (1979). "On the Selective Advantage of Fratricide in Raptors". Evolution 33 (4): 1219–1225. JSTOR 2407480. doi:10.2307/2407480.
- ↑ Ferguson-Lees, James; Christie, David A. (2001). Raptors of the World. illustrated by Kim Franklin, David Mead, and Philip Burton. London, UK: Christopher Helm. pp. 406–08. ISBN 0-7136-8026-1.
- ↑ "Amazing Bird Records". Trails.com. Archived from the original on 20 June 2017. आह्रियत 20 July 2012. Unknown parameter
|df=
ignored (help) - ↑ https://en.wikipedia.org/wiki/Sea_eagle
- ↑ https://en.wikipedia.org/wiki/Booted_eagles
- ↑ https://en.wikipedia.org/wiki/Circaetinae
- ↑ https://en.wikipedia.org/wiki/Harpy_eagle
- ↑ Horowitz, Wayne (1998). Mesopotamian Cosmic Geography. Winona Lake, Indiana: Eisenbrauns. pp. 43–59. ISBN 0-931464-99-4. Archived from the original on 6 December 2017. Unknown parameter
|df=
ignored (help) - ↑ Badke, David. The Medieval Bestiary
- ↑ Sin, Lena (30 April 2006). "Charges laid in eagle-poaching case". The Province (CanWest MediaWorks Publications Inc.). Archived from the original on 31 May 2009. आह्रियत 20 November 2007. Unknown parameter
|df=
ignored (help)