श्वेताम्बरः सम्प्रदायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

श्वेताम्बरसम्प्रदायस्य ( /ˈʃvɛtɑːmbərəhə səmprədɑːjəhə/) (हिन्दी: श्वेताम्बर सम्प्रदाय, आङ्ग्ल: Shwetamber Sect) आरम्भः दिगम्बरसम्प्रदायात् विभाजनानन्तरमेव अभवत् । श्वेताबरसम्प्रदायस्य नियमाः दिगम्बरसम्प्रदायात् भिन्नाः वर्तन्ते । अस्मिन् सम्प्रदाये जैनसाधवः श्वेतवस्त्राणि धरन्ति । श्वेताम्बरसम्प्रदाये मूर्तेः शृङ्गारः अपि भवति ।[१] श्वेताम्बरसम्प्रदायस्य अपि भागत्रयम् अस्ति । देरावासी-मूर्तिपूजक-सम्प्रदायः, स्थानकवासी-सम्प्रदायः, तेरापन्थ-सम्प्रदायश्च ।

अन्तर्विषयाः

देरावासी-मूर्तिपूजकसम्प्रदायः[सम्पादयतु]

सम्पूर्णे भारत-देशे, विदेशे चापि देरावासी-मूर्तिपूजकसम्प्रदायस्य मन्दिराणि (देरासर) सन्ति । तेषां पूजाभक्तिमार्गः विशिष्टः वर्तते ।[२] श्रावकाः जैनमन्दिरेषु प्रतिदिनम् अष्टप्रतिहारी-पूजां कुर्वन्ति, भगवतः मूर्तिं वन्द्य स्तुतिं कुर्वन्ति च ।

देरावासी-मूर्तिपूजकसम्प्रदायस्य विविधाः पूजाः[सम्पादयतु]

स्नात्रपूजा, पञ्चकल्याणीपूजा, वास्तुपूजा, वेदनीयकर्मपूजा (निवारण), अन्त्यकर्मपूजा (निवारण), अभिषेकः, सप्तदशभेदात्मकी पूजा, ऋषिमण्डलपूजा, सिद्धचक्रपूजा (यन्त्रम्) इत्यदयः पूजाः अस्मिन् सम्प्रदाये क्रियन्ते[३]

जैनधर्मस्य श्रावकाः व्रतं, जपं, तपः इत्यादि कुर्वन्ति । अस्मिन् धर्मे पञ्चचत्वारिंशद्दिवसानां साधुजीवनम् इव तपस्य वैशिष्ट्यम् अस्ति । रात्रिकाले जैनमन्दिरेषु (देरासर) भगवतः मूर्तेः विशिष्टशृङ्गारः क्रियते [४] । सः शृङ्गारः "आङ्गि" इति कथ्यते । भावपूर्वकेन समूहे वाद्यैः भक्तिगीतानि गीयन्ते ।

कल्पसूत्राधारिते महावीरस्य जन्मदिवसनिमित्ते पर्युषणपर्वणि जैनमन्दिरेषु जनाः उत्सवम् आमनन्ति । विभिन्नानां मन्दिराणां दर्शनयात्राः ”चैत्यपरिपाटी” इति कथ्यते[५] । सामान्यतया पर्वणां दिवसेषु यात्रा भवति ।

तपगच्छ, अचलगच्छ, पायचलगच्छ (पार्श्वचन्द्र), खडतरगच्छ इत्यादीनां सम्प्रदायानां समावेशः अस्मिन् सम्प्रदाये भवति । सम्प्रदायेऽस्मिन् साधूनां बह्व्यः पद्व्यः सन्ति । यथा – आचार्यः, उपाध्यायः, पन्यासः, प्रवर्तकः च[६]खम्भात, पाटण, वल्लभीपुर, पालीताणा, अहमदाबाद इत्यादिषु स्थानेषु जैनग्रन्थालयाः सन्ति ।

देरावासी-मूर्तिपूजकसम्प्रदायस्य तीर्थस्थलानि[७][सम्पादयतु]

इत्यादीनि स्थलानि मूर्तिपूजकसम्प्रदायस्य तीर्थस्थलानि सन्ति । राणकपुर, आबु देलवाडा इमे स्थले देरा-जैनधर्मस्य शिल्पस्थापत्यस्य उत्तमम् उदाहरणं वर्तते ।

स्थानकवासी-सम्प्रदायः[सम्पादयतु]

स्थानकवासी-सम्प्रदायः जैनधर्मस्य कश्चित् विभक्तः सम्प्रदायः अस्ति । अस्य सम्प्रदायस्य स्थापना १६५३ तमे वर्षे लवजी इति नामकेन व्यापारिणा कृता आसीत् । भगवान् निराकारः अस्ति इति अयं सम्प्रदायः मन्यते । अतः कोऽपि जनः मूर्तिपूजां न करोति[८] । पञ्चदशशताब्द्यां लोङ्का नामकेन जैनधर्मस्य भक्तेन अस्य सम्प्रदायस्य पुनारचना कृता आसीत् ।

अस्य सम्प्रदायस्य प्रार्थनास्थलं स्थानक इति नाम्ना ज्ञायते । तत् स्थलम् उपाश्रयः इत्यपि कथ्यते । स्थानकम् अर्थात् आश्रयस्थलम् इति [९]। कारणं तत्र साधूनां, श्रावकानां च कृते आश्रयः दीयते । स्थानकेषु प्रार्थनाकाले अन्यव्यक्तीनां स्पर्शं वर्जितं भवति । स्थानकवासिनः श्वेताम्बरसम्प्रदायस्य केवलं द्वात्रिंशत् आगमाः एव स्वीकुर्वन्ति । क्रियाकाण्डं, पूजनं, पध्दतिः इत्यादयः किमपि न स्वीकुर्वन्ति । तेन कारणेन अयं सम्प्रदायः तेरापन्थसम्प्रदायेन सह सम्मिलति ।

उत्तरभारते प्रायः ५ लक्षं जैनाः वसन्ति । ये श्वेताम्बरसम्प्रदायिनः सन्ति, किन्तु स्थानकवासिनः न सन्ति, ते देरावासिनः कथ्यन्ते ।

स्थानकवासिनः साधवः[सम्पादयतु]

स्थानकवासिनः साधवः, साध्व्यः च श्वेतवस्त्राणि एव धरन्ति । मुखं श्वेतवस्त्रेण आच्छादयति । यतो हि मुखे सूक्ष्मजीवाः न गच्छेयुः । वायौ बहवः सूक्ष्मजीवाः भवन्ति[१०] । तेषां हिंसा न भवेत् । अतः साधवः श्वेतवस्त्रेण मुखम् आच्छादयन्ति । यदि हिंसा भवेत्, तर्हि अहिंसायाः नियमस्य उल्लङ्घनं भवति इति मन्यते । ते साधवः स्वभोजनं श्रावकानां गृहेभ्यः भिक्षाटनेन स्वीकुर्वन्ति । सूर्योदयात् सूर्यास्तपर्यन्तम् एव ते भोजनं कुर्वन्ति । ते रात्रौ भोजनं न कुर्वन्ति । इयं चोविहार इति कथ्यते ।

स्थानकसम्प्रदायस्य साधवः एकस्मिन् स्थानके अधिकं निवासं न कुर्वन्ति । केवलं चातुर्मासस्य चत्वारः मासाः एव एकस्मिन् स्थले निवसन्ति[११] । विक्षेपं विना एव ते साधवः साधनां कर्तुम् इच्छन्ति । अतः ते एकान्तस्थलम् अन्वष्यन्ति । अतः ते ढुण्ढूया इति कथ्यन्ते । एकान्तगमने पुस्तकानि, देहाच्छादनार्थं वस्त्राणि, प्राकृतिकपदार्थैः निर्मितानि पात्राणि एव नयन्ति । एतदतिरिक्तं किमपि परिग्रहं न स्वीकुर्वन्ति ।

समयानन्तरं स्थानकवासिसम्प्रदाये मतभेदाः अभवन् । तेन सम्प्रदायः विभक्तः जातः । गुजरातराज्ये अपि बहवः विभक्ताः सम्प्रदायाः सन्ति । यथा – कोटिसम्प्रदायः (अजरामर-सम्प्रदायः), अष्टकोटिसम्प्रदायः (लघु-गुरु), लीम्बडी-गोपाल-सम्प्रदायः, दरियापुरी-सम्प्रदायः, खम्भात-सम्प्रदायः च ।

स्थानकवासिनां वैशिष्ट्यं[सम्पादयतु]

स्थानकवासिनः सूक्ष्महिंसायाः अपि विरोधं कुर्वन्ति । जैनधर्मे चत्वारः निक्षेपाः सन्ति[१२] । यथा – नामनिक्षेपः, स्थापनानिक्षेपः, द्रव्यनिक्षेपः, भावनिक्षेपः च । तेषु भावनिक्षेपः एव प्रधानः वर्तते । अस्मिन् निक्षेपे अभ्यन्तरपूजां, गुणपूजां, देवानां स्मरणं च क्रियते ।

सम्पूर्णे भारतवर्षे स्थानकवासिसम्प्रदायस्य बहुषु स्थलेषु स्थानकाः सन्ति । अयम् उपाश्रयः, पौषधशाला, आराधनाभवनं, धर्मस्थानकं, जैनभुवनं च इति कथ्यते । एतेषु स्थानकेषु निरन्तरं व्रतजपतपादि अनुष्ठानानि प्रचलन्ति[१३]

तेरापन्थ-सम्प्रदायः[सम्पादयतु]

भारत-देशः अध्यात्मप्रधानः अस्ति । भारतीयसंस्कृतिः त्यागतपस्याधारिता वर्तते । तत्र जैनधर्मः एकः महत्वपूर्णः भागः अस्ति । जैनपरम्परायां २४ तीर्थङ्कराः अभवन् । तेषु प्रथमः ऋषभदेवः, अन्तिमः च महावीरः । भगवतः महावीरस्य मृत्योः ६०० वर्षाणि जैनधर्मः अविभक्तः आसीत् । ई. स. २०० तमे वर्षे अस्य धर्मस्य भागद्वयम् अभवत् । [१४] श्वेताम्बरः, दिगम्बरश्च । कालान्तरे दिगम्बरपरम्परायां विभागत्रयं जातम् । यथा – बीसापन्थः, तेरापन्थः, तारणपन्थः च । श्वेताम्बरपरम्परायाम् अपि भागत्रयं जातम् । यथा – मूर्तिपूजकः, स्थानकवासी, तेरापन्थी च । तेरापन्थ-सम्प्रदायस्य स्थापना ई. स. १७६० तमे वषे अभवत् । स्थानकवासिसम्प्रदायस्य आचार्यः रघुनाथः आसीत् । आचार्यः भिक्षुः तेरापन्थसम्प्रदायस्य संस्थापकः आसीत् । सः आचार्यरघुनाथस्य शिष्यः आसीत् ।[१५] तेरापन्थ-सम्प्रदायस्य उत्पत्तिः स्थानकवासी-सम्प्रदायात् एव अभवत् । आचार्यः भिक्षुः स्थानकवासिसम्प्रदायस्य साधुः आसीत् । किन्तु विचारभेदकारणात् सः स्थानकवासिसम्प्रदायात् भिन्नः अभवत् । तस्मिन् काले तेन सह त्रयोदशः साधवः आसन् । अतः अस्य सम्प्रदायस्य नाम तेरापन्थ इति । तावदेव ते साधवः तेरापन्थ इति नाम्ना विख्याताः जाताः[१६] । तैः साधुभिः मुख्याः त्रयोदशनियमाः स्वीकृताः । तेषु नियमेषु पञ्चमहाव्रतानि, पञ्चसमितयः, त्रिगुप्तयः च समाविष्टाः सन्ति । एते नियमाः सर्वेभ्यः जैनसाधुभ्यः स्वीक्रियन्ते । अनादिकालादेव सर्वे जैनसाधवः एतेषां नियमानां पालनं कुर्वन्तः सन्ति ।

सङ्घटनम्[सम्पादयतु]

आचार्यभिक्षुणा सङ्घटनाय सर्वप्रथमं साधुसंस्थां प्रति एकं मर्यादापत्रं लिखितम् आसीत् । तस्मिन् पत्रे लिखितम् आसीत् यत् –

  • सर्वैः साधुभिः एकस्य एव आचार्यस्य आज्ञा पालनीया ।
  • वर्तमानाचार्येण एव भविष्यत्कालस्य आचार्यस्य निर्वाचनं कर्तव्यम् ।
  • केनापि साधुना अनुशासनस्य भङ्गः न करणीयः ।
  • यदि केनापि अनुशासनस्य भङ्गः कृतः स्यात्, तर्हि तत्काले एव सङ्घटनात् बहिः निष्कासनं भवेत् ।
  • केनापि साधुना भिन्न-भिन्नाः शिष्याः न कर्तव्याः ।
  • दीक्षादानस्याधिकारः आचार्याय एव अस्ति ।
  • केनापि साधुना इच्छानुसारं भ्रमणं, चातुर्मासः च न कर्तव्यः, यथा आचार्येण आदिष्टं तथैव कर्तव्यः ।
  • आचार्यं प्रति निष्ठा, श्रद्धा भवेत् ।

एतैः नियमैः एव साम्प्रते काले अपि तेरापन्थ-सम्प्रदायः सङ्घटितः अस्ति । अयं सम्प्रदायः एकादशः आचार्यस्य महाश्रमणजी इत्यस्य नेतृत्वे प्रचलति । लोककल्याणस्य विविधासु प्रवृत्तिषु अयं सम्प्रदायः कार्यरतः अस्ति ।

तेरापन्थस्य आचार्याः[सम्पादयतु]

तेरापन्थ-सम्प्रदायस्य एकादशानाम् आचार्याणां नामानि अधोलिखितानि सन्ति ।

  1. आचार्य श्रीभिक्षु
  2. आचार्य श्रीभारीमाल
  3. आचार्य श्रीरायचन्द
  4. आचार्य श्रीजीतमल
  5. आचार्य श्रीमघराज
  6. आचार्य श्रीमाणकलाल
  7. आचार्य श्रीडालचन्द
  8. आचार्य श्रीकालूराम
  9. आचार्य श्रीतुलसी
  10. आचार्य श्रीमहाप्रग्य
  11. आचार्य श्रीमहाश्रमण

सङ्घव्यवस्था[सम्पादयतु]

साम्प्रते काले तेरापन्थ-सङ्घे ६५१ साधवः, साध्व्यः च सन्ति । वर्तमाने काले अस्य सम्प्रदायस्य सञ्चालनम् आचार्य श्रीमहाश्रमणः एव करोति । स एव साधूनां भ्रमणस्य चातुर्मासस्य इत्यादीनां स्थानानां निर्धारणं करोति । सर्वे साधवः पञ्च-पञ्चसाधूनां वर्गे विभक्ताः क्रियते । प्रत्येकऽस्मिन् वर्गे आचार्येण निर्धारितः एकः अग्रणी भवति । प्रत्येकः वर्गः ’सिङ्घाडा’ इति कथ्यते ।

तेरापन्थसम्प्रदायस्य पञ्चमहाव्रतानि[१७][सम्पादयतु]

  1. अहिंसा
  2. सत्यम्
  3. अस्तेयः
  4. ब्रह्मचर्यः
  5. अपरिग्रहः

तेरापन्थसम्प्रदायस्य पञ्चसमितयः[१८][सम्पादयतु]

  1. इर्यासमितिः
  2. भाषासमितिः
  3. विचारसमितिः
  4. एषणासमितिः
  5. आदानसमितिः

तेरापन्थसम्प्रदायस्य त्रिगुप्तयः[१९][सम्पादयतु]

  1. मनगुप्तिः
  2. वचनगुप्तिः
  3. कायगुप्तिः

एतान् त्रयोदशनियमान् तेरापन्थसम्प्रदायः स्वीकरोति । अनेन कारणेन आचार्यः भिक्षुः अस्य सम्प्रदायस्य संस्थापकः अभवत् । आचार्यतुलसी इत्यस्य उत्तराधिकारित्वेन आचार्यः महाप्रज्ञः अस्ति । एकः एव आचार्यः, एकः एव विचारः, एकः एव आचारः इति अस्य सम्प्रदायस्य वैशिष्ट्यं वर्तते ।

आचारसंहिता[सम्पादयतु]

अस्य सम्प्रदायस्य साधवः जैनधर्मस्य सिद्धान्तानुसारम् अहिंसायाः, सत्यस्य, अचौर्यस्य, ब्रह्मचर्यस्य, अपरिग्रहस्य च पञ्चमहाव्रतानां पालनं कुर्वन्ति ।

  • तेषाम् उपाश्रयाः, मठाः न भवन्ति ।
  • ते कस्यामपि परिस्थितौ रात्रिभोजनं न स्वीकुर्वन्ति ।
  • स्वस्य कृते निर्मितं भोजनं, जलं, औषधं च न स्वीकुर्वन्ति । पदयात्रा एव तेषां जीवनव्रतम् अस्ति ।

विचारपद्धतिः[सम्पादयतु]

  • अस्मिन् जगति सर्वे प्राणिनः जीवितुम् इच्छन्ति । कोऽपि मृत्युः नेच्छति । अतः कस्यापि हिंसा पापम् एव अस्ति ।
  • मनुष्यः सर्वश्रेष्ठः प्राणिः वर्तते । अतः तस्य रक्षायै अन्येषां प्राणिनां हननं सामाजिकक्षेत्रे अस्ति, किन्तु धार्मिकक्षेत्रे तन्न स्वीक्रियते ।
  • बलात्कारेण धर्मः न, अपि तु हृदयपरिवर्तनेन धर्मः अस्ति इति ।
  • धर्मस्य तुलना धनेन सह कर्तुं न शक्यते । सः तु आत्मनः प्रवृत्तिसु स्थितः अस्ति ।
  • यत्र हिंसा भवेत् तत्र धर्मः न ।
  • गुणैः मनुष्यः पूज्यते, न तु वस्त्रेण ।

दीक्षापद्धतिः[सम्पादयतु]

यदा दीक्षार्थी दीक्षाप्राप्त्यै आचार्यम् उप गच्छति, तदा आचार्येण दीक्षार्थिनः आचरणस्य, ज्ञानस्य, वैराग्यस्य च कठोरपरीक्षा क्रियते । कदाचित् परीक्षायां पञ्च सप्त वा वर्षाणि अपि व्यतीतानि भवन्ति । ये परीक्षायाम् उत्तीर्णाः भवन्ति, तेभ्यः एव दीक्षा दीयते । [२०]सहस्राधिकानां जनानां मध्ये मातृपित्रोः, पारिवारिकजनानां च मौखिकः लेखितश्च स्वीकृत्यानन्तरम् इयं दीक्षा दीयते । अन्ते दीक्षार्थिनां कौटुम्बिकजनानां, केषाञ्चित् विशिष्टजनानां च अपि हस्ताक्षरं स्वीक्रियते । एतादृशी कठिना परीक्षा अस्य सम्प्रदायस्यान्तर्गता भवति ।

तपश्चर्या[सम्पादयतु]

तपश्चर्यायाः क्षेत्रे अपि तेरापन्थसङ्घः अग्रगण्यः अस्ति । अस्मिन् सङ्घे बहवः साधवः एकदिवसीयोपवासं कुर्वन्ति । [२१] १०८ दिवसीयाः तपस्याः अपि साधवः कुर्वन्ति । एतासु तपस्यासु साधुभिः जलस्याधारः एव स्वीकृतः आसीत् । इत्यप्यनन्तरम् उष्णीकृतस्य तक्रस्य अवशिष्टं जलं पीत्वा चत्वारः, षड्, नव वा मासात्मिकाः तपस्याः अपि सम्पूर्णाः जाताः ।

शिक्षाप्रणालिः[सम्पादयतु]

तेरापन्थसम्प्रदायस्य शिक्षाप्रणालिः अपि प्राचीनगुरुपरम्पराधारेण एव प्रचाल्यते । सङ्घे कोऽपि पण्डितः वैतनिकः नास्ति ।[२२] आचार्यः एव सर्वान् साधून् पाठयति । तदनन्तरं ते साधवः, साध्व्यः च अनुजसाधून् पाठयन्ति । अनेन परम्परायाः आधारेण एव परीक्षा भवति । अस्यां परम्परायां व्याकरणस्यशास्त्रस्य, न्यायशास्त्रस्य, दर्शनशास्त्रस्य, विभिन्नकोशानाम्, आगमस्य च इत्यादीनाम् अध्ययनं भवति ।

शिक्षया सह कलायाः अपि विकासः अभवत् । साधूनाम् उपयोगीनि उपकरणानि अपि स्वनिर्मितानि भवन्ति । दर्शनेन एव तेषां कलानां ज्ञानं भवति ।[२३] हस्तलिपेः कलाकौशलम् अपि सर्वोत्तमं वर्तते । इदं युगं मुद्रणप्रधानम् अस्ति । तथापि ९ इन्च् दैर्घ्ये, ४ इन्च् विस्तृते च पृष्ठे ८० अक्षराणि उपनेत्रेण विना एव लिख्यन्ते । अयम् एकः आश्चर्यजनकः विषयः अस्ति ।

साहित्यसर्जनम्[सम्पादयतु]

तेरापन्थ-सम्प्रदायस्य साहित्यक्षेत्रे अन्यतमं स्थानं वर्तते । अस्य सम्प्रदायस्य अधिकांशतः विहारक्षेत्रं राजस्थान-राज्यम् अस्ति । अस्य सम्प्रदायस्य भूतपूर्वाचार्येण स्वस्य प्रथमा रचना अपि राजस्थानी-भाषायां लिखिता आसीत् ।[२४] तेरापन्थ-सम्प्रदायस्य आद्यप्रवर्तकेन श्रीभिक्षुणा स्वस्यजीवनकाले ३८ सहस्राणां पद्यानां रचना कृता । सा रचना इदानीन्तने काले भिक्षुग्रन्थरत्नाकरः इति नाम्ना सुरक्षिता अस्ति । तदनन्तरं तेरापन्थ-सम्प्रदायस्य चतुर्थाचार्यः जयाचार्यः अपि साहित्यस्य रचनां चकार । तस्मिन् साहित्ये ३.५ लक्षं श्लोकाः सन्ति ।[२५] तस्मिन् साहित्ये भगवतीसूत्रं नामके साहित्ये ८० सहस्रं श्लोकाः सन्ति । भगवतीसूत्रं नामकस्य ग्रन्थस्य राजस्थानी-भाषायां पद्यमयम् अनुवादं कृतम् । अयं ग्रन्थः राजस्थानी-भाषायाः बृहत्तमः ग्रन्थः मन्यते । तेरापन्थ-सम्प्रदाये संस्कृत-भाषायाः विकासः अष्टमाचार्यस्य कालुगणी इत्यस्य काले अभवत् । तस्मिन् काले संस्कृत-भाषायाः बृहद्व्याकरणस्य, भिक्षुशब्दानुशासनस्य, लघुव्याकरणस्य, कालकौमुद्याः च रचना अभवत् । अन्येषां काव्यानाम् अपि रचना जाता । नवमाचार्यस्य तुलसीगणी इत्यस्य काले संस्कृतभाषया सह हिन्दी-भाषायाः अपि द्रुतगतिना विकासः जातः । [२६]तस्मिन् काले एव तुलसीगणी इत्यनेन भिक्षुन्यायकर्णिका, जैनसिद्धान्तदीपिका, कर्तव्यषट्त्रिंशिका इत्यादीनां ग्रन्थानां संस्कृत-भाषायां रचना कृता । तुलसीगणी इत्यस्य शिष्यैः अपि नैकानां काव्यग्रन्थानां निर्माणं कृतम् आसीत् । अन्यैः साधुभिः हिन्दी-भाषायाः साहित्ये बहूनि पुस्तकानि प्रदत्तानि सन्ति । तेषु पुस्तकेषु जैनदर्शनस्य मौलिकतत्व, तेरापन्थ का इतिहास, विजययात्रा, आचार्यश्रीतुलसी, अहिंसा और उसके विचारक, तेरापन्थ, अणुव्रत दर्शन, अणुव्रत, जीवनदर्शन, आचार्यभिक्षु और महात्मा गान्धी, दर्शन और विज्ञान, अणु से पूर्ण की ओर इत्यादीनि मुख्यानि पुस्तकानि सन्ति[२७] । साम्प्रतम् आचार्यश्री सान्निध्ये जैनागमानां हिन्दीभाषायाम् अनुवादकार्याणि, बृहद्जैनागमशब्दकोशस्य, आगमानां, मूलपाठानां च सम्पादनकार्याणि च प्रचलन्ति ।

साहित्यसर्जकानां नामानि[सम्पादयतु]

भगवतः महावीरस्य वचनानि सूत्रस्वरूपे सुरक्षितानि जातानि[२८] । तदनन्तरम् एतानि वचनानि पूर्वाचार्यैः आगमेषु, साहित्यसर्जनेषु च सरलतया स्थापितानि सन्ति । आचार्य उमास्वाति इत्यनेन तत्वार्थसूत्रस्य रचना कृता आसीत् । तदनन्तरम् अन्ये बहवः साधवः, विद्वांसः च अभवन् । यैः बह्व्यः रचनाः कृताः [२९]। तेषां नामानि अधः लिखितानि सन्ति ।

  1. हेमचन्द्राचार्यः
  2. कुन्दकुन्दाचार्यः
  3. आनन्दघनाचार्यः
  4. यशोविजयाचार्यः
  5. हीरविजयसुरी जी आचार्यः
  6. देवेन्द्रमुनि जी आचार्यः
  7. धर्मसिंहाचार्यः
  8. अमोलखऋषिजी आचार्यः

कुन्दकुन्दाचार्येण, बनारसीदासाचार्येण, दोलतरामाचार्येण, अमृतचन्द्राचार्येण, सकलकीर्ति-आचार्येण च जैनतत्वस्य नैकानां ग्रन्थानां रचना कृता आसीत् । [३०]मानतुङ्गाचार्यः, मुनिरत्नाकरः इत्यादयः जैनकवयः भक्तामरस्तोत्रस्य रचनाकाराः आसन् ।

आचार्यसोमसुन्दरसुरी, मेरूसुन्दरसुरी इत्याभ्यां मध्यकालीनं जैनगुर्जरसाहित्यं समृद्धिं प्रापत् ।

आत्मसिद्धिः नामकस्य शास्त्रस्य सर्जकेण श्रीमद्राजचन्द्रेण, टोडरमलाचार्येण, बेहेचरदासाचार्येण, सुखलालाचार्येण च जैनसाहित्यसर्जनाय महत्योगदानं प्रदत्तम् आसीत्[३१]

चातुर्मासस्य स्थलानि[३२][सम्पादयतु]

तेरापन्थ-सम्प्रदायस्य संस्थानानि[३३][सम्पादयतु]

  1. केन्द्रीय संस्थानम्
  2. अखिल भारतीय जे. श. ते. स्मारक सुरक्षा समितिः
  3. अणुव्रत महासमितिः
  4. अणुव्रत विश्व भारती
  5. जैन विश्व भारती
  6. जैन विश्व भारती, संस्थानम्
  7. अखिल भारतीय तेरापन्थ युवक् परिषद्
  8. अखिल भारतीय तेरापन्थ महिला मण्डलम्
  9. अखिल भारतीय अणुव्रत न्यासः
  10. आदर्श साहित्य सङ्घः
  11. आचार्य तुलसी शान्ति प्रतिष्ठानम्
  12. परमार्थिक शिक्षण संस्थानम्
  13. जैन श्वेताम्बर तेरापन्थी महासभा

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 
  2. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 14. 
  3. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  4. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  5. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  6. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  7. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  8. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  9. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 15. 
  10. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 16. 
  11. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 16. 
  12. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  13. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 16. 
  14. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 13. 
  15. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  16. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  17. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  18. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  19. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  20. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  21. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  22. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  23. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  24. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  25. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  26. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  27. [http:// http://www.terapanthinfo.com/index.php?lang=hi# "घर"]. terapanthinfo.com. Retrieved 15 December 2014. 
  28. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 19. 
  29. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 19. 
  30. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 20. 
  31. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 20. 
  32. गुणवन्त बरवाळिया (2001). जैन धर्म. सौराष्ट्र केसरी प्राणगुरु जैन फिलोसोफिकल एण्ड् लीटररी रीसर्च् सेण्टर्, SPRJ जैन कन्याशाळा ट्रस्ट्, पी, एन्. दोशी महिला कॉलेज्, जगधीर बोडा विद्यासङ्कुल कामालेन, घाटकोपर(वेस्ट्), मुम्बई. p. 17. 
  33. "केन्द्रीय संस्थान". terapanthinfo.com. Retrieved 15 December 2014.