सत्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सत्यं भारतीयसंस्कृतौ मानवजीवनस्य अतीव महत्त्वपूर्णम् अङ्गं मन्यते। प्राचीनः भारतीयः समाजः आचारवान् आसीत् तथा सर्वजनहिताय सत्यानुष्ठाने आग्रही आसीत्। मिथ्यावादिनः जनाः यज्ञाय समुपयुक्ता न भवन्ति ।[१] असत्यवादः जलेनाग्नेः सेचनमिवासीत्, सत्यवादनश्च घृतेनाग्नेः सेचनमिवासीत् । असत्यवादिनो जनस्य तेजः शनैः शनैः क्षीणो भवति । सः नित्यपापी भवति । ब्राह्मणकालिकसमाजः पापात्मनः आवर्तनशीलस्वभावेन पूर्णतया परिचितः अासीत् । असौ अजानात् यद्, यो मानवः एकदा पापं करोति, सोऽभ्यासवशेन तदनन्तरं पापान्तरस्यापि आचरणं करोति ।

'यः संकृत् पापकं कुर्यात् कुर्यादेनस्ततोऽपरम्'।[२]

अतः पापं विहाय पुण्यं कर्त्तव्यम् । सत्यस्य श्रद्धायाश्चाचरणेन मानवः स्वर्गलोकं गच्छति । वाग्देवतायाः स्तनद्वयमस्ति - सत्यम् अनृतञ्चेति । सत्यं वाग्देव्याः पुत्रानुपासकांश्च रक्षति, किञ्च तमनृतं हन्ति ।

‘वाचो वाव तौ स्तनौ सत्यानृते वावते। अवत्यैनं सत्यं न तमनृतं हिनस्ति य एवं वेद'।[३] ताण्ड्यब्राह्मणे अनृतभाषणं वाण्याः छिद्रं कथितं - 'एतद्वाचश्छिद्रं यदनृतम्'[४] अस्य तात्पर्यमिदमस्ति - यथा छिद्राभ्यन्तरात् सर्ववस्तूनि पतन्ति, तथैव मिथ्यावादिनो वाण्याः सारतत्त्वं निःसरति । सारतत्त्वविहीना वाणी स्वप्रभावेन कमपि जनं प्रभावयितुं समर्था न भवति। शतपथब्राह्मणे सत्यानृतयोः रूपनिर्देशाय एका सुष्ठूपमायाः प्रयोगः कृतः । ऐतरेयब्राह्मणे श्रद्धासत्ययोः मिथुनकल्पना मनोहराऽस्ति । श्रद्धा पत्नी अस्ति, सत्यं यजमानोऽस्ति । यजमानः स्वपत्न्या सह मिलित्वा यज्ञेन स्वर्ग्यमवाप्तुं समर्थो भवति । तेनैव प्रकारेण सत्यमपि श्रद्धया सह संयुक्तो भूत्वा स्वर्गलोकं जयति। उक्तं च -

‘श्रद्धापत्नी सत्यं यजमानः॥ श्रद्धासत्यं तदित्युत्तमं मिथुनम्॥

श्रद्धया सत्येन मिथुनेन स्वर्गाल्लोकान् जयतीति॥'[५]

उल्लेखः[सम्पादयतु]

चराचरसृष्टेः नियामकम् अन्तिमं सत्यं नाम परमात्मा इति मन्यन्ते भारतीयाः शास्त्रकाराः । तत्रोक्तुं महाभारते-

सत्यमेव परं ब्रह्म सत्यरुपो जनार्दनः ।
न हि सत्यात् परो धर्मो नानृतात् पातकं पर्म् ॥ शान्ति १६२५४ ॥

अनृतं शास्त्रकाराः विशदयन्ति-

इच्छानुकूलं यद्वाक्यं धर्माधर्मविवर्जितम् ।
अनृतं तद्धि विज्ञेयं सर्वश्रेयोविघातकम् ॥

यथा अस्त्यार्थे प्रयुक्तेन अनृतशब्देन द्योत्यते यद् ऋतम् एवं सत्यम् इति द्वौ अपि शब्दौ क्वचित् समानार्थतया प्रयुज्येते । परन्तु वस्तुतः जगत्संचालकं तत्त्वम् ऋतम् एवं मानवव्यवहारनियन्त्रकं तत्त्वम् सत्यं इति भवति शास्त्रीया परिभाषा । मुण्डकोपनिषदि उक्तम् (३-१-६)-

सत्यमेव जयते नानृतं सत्यस्य पन्था विततो देवयानः ।
येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥

भारतस्य न्यायालये प्रमुखस्थाने ‘सत्यमेव जयते’ इति वचनं लिखितं वर्तते । न्यायालये वक्तव्यदानात् पूर्वं ‘सत्यं वदिष्यामि’ इति ईश्वरस्य धर्मग्रन्थस्य वा नाम्ना शपथपूर्वकं कथनम् आवश्यकं भवति । सत्याश्रयणेन एव आत्मज्ञानं भवितुम् अर्हति । तत्रोक्तं मुण्डकोपनिषदि- सत्येन लभ्यस्तपसा ह्येष आत्मा ।(३-१-५) तैत्तिरीय-उपनिषदि समावर्तनप्रकरणे छात्रेभ्यः प्रथमः उपदेशः दीयते

सत्यं वद । धर्मं चर । इति ।११-१॥

मनुः ब्रूते- सत्यपूतां वदेद् वाचम् ।६-४६॥ महाभारते सत्यस्य महिमा एवं प्रगीतः (आ.७४-१०२)-

अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्त्राध्दि सत्यमेव विशिष्यते ॥

अथ सत्यस्य स्वरुपनिर्णये कः निकषः विद्यते ? तत्रोक्तम्-

यथार्थकथनं यच्च सर्वलोकसुखप्रदम् ।
तत्सत्यमिति विज्ञेयमसत्यं तद्विपर्ययः ॥

मनुः ब्रूते- सत्यं ब्रूयात् प्रियं ब्रूयात् न् ब्रूयात् सत्यमप्रियम् ।

प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥४-१३८॥

यदि सत्यावलम्बनेन प्राणिनां हितं न सिध्यति तर्हि तत् सत्यपदवीं नार्हति । यथा पूर्वम् अन्यत्र निर्दिष्टं गोः पृष्ठे धावतः गोघातकस्य ‘कुत्र गता गौः’ इति प्रश्नस्य सत्यम् उत्तरम् अधर्मः इति व्याख्यातं विद्वद्भिः । महाभारते वनपर्वणि व्याधब्राह्मणसंवादे उक्तम् (वन.२०८-४)-

अहिंसा सत्यवचनं सर्वभूतहितं परम् ।
यद् भूतहितमत्यन्तं तत् सत्यमिति धारणा ।

यदा सत्यप्रतिज्ञः युधिष्ठिरः ‘नरो वा कुञ्जरो वा’ इत्युक्त्वा द्रोणाचार्यस्य मनसि व्यामोहं जनयति तत्रापि अयमेव न्यायः विधेयः । तत्रोक्तं महाभारते (आ,८२-१६)-

न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याह्य्रपातकानि ।

किन्तु ‘नरो वा कुञ्जरो वा’ इति वक्तव्यात् युधिष्ठिरस्य रथः चतुरङ्गुलमित्ं पृथिव्याः ऊर्ध्वं चलति स्म स पृथिवीम् अस्पृशत् इत्यपि पठ्यते । अश्वमेधपर्वणि शंकरः पार्वतीम् उपदिशति-

आत्महेतो परार्थे वा नर्महास्याश्रयात् तथा ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिन्ः ॥(८१-१०)

वचनपालनं तथा प्रतिज्ञापालनम् इति द्वयोरपि समावेशः सत्ये एव क्रियते । तत्र भर्तृहरिः ब्रूते –

तेजस्विनः सिखमसूनपि संत्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ नीति ११०॥

तथैव ‘द्विः शरं नाभिसंधत्ते रामो द्विर्नाभिभाषते’ इति वचनं तु प्रसिध्दमेव । तथापि सर्वत्र व्यवहारे तारतम्यविचारः आवश्यको मतः । महाभारते कर्णपर्वे प्रसङ्गोऽयं पठ्यते –अर्जुनस्य प्रतिज्ञा आसीत् यद् यः कोऽपि गाण्डीवस्य धनुषः अधिक्षेपं कुर्यात् तस्य शिरश्छेदं करोमि इति । यदा कर्णेन सह युध्दे तम् अहत्वा अर्जुनः रणात् प्रत्यागच्छत् तदा युधिष्ठिरः परमोद्विग्नः अब्रवीत् ‘कर्णवधे असमर्थस्य तव गाण्डीवेन किं प्रयोजनम्’ इति । तत् श्रुत्वा स्वप्रतिज्ञानुसारम् अर्जुनः खड्गहस्तः तस्य शिरश्छेदं कर्तुं प्रवृत्तः । तदा श्रीकृष्णः तं निवारयन् ब्रूते- ‘त्वं मूढोऽसि । न वृध्दाः सेविताः त्वया । यदि आत्मनः प्रतिज्ञां रक्षितुम् इच्छसि तर्हि युधिष्ठिरं निर्भर्त्सय्, यतः संभावितानां निर्भार्त्सना मरणप्राया अस्ति इति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ( ‘अमेध्यो वै पुरुषो यदनृतं वदति' श° ३॥१॥३॥१८)
  2. ऐत. ब्रा. ७/२७
  3. ( ऐत० ब्रा० ४।१ )
  4. ( ता० ८॥६॥१२ )
  5. ऐ. ब्रा. ७/१०
"https://sa.wikipedia.org/w/index.php?title=सत्यम्&oldid=424938" इत्यस्माद् पुनः प्राप्तिः