बनासकाठामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बनासकाठामण्डलम्
मण्डलम्
गुजरातराज्ये बनासकाठामण्डलम्
गुजरातराज्ये बनासकाठामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters पालनपुरम्
Area
 • Total १०,४००.१६ km
Population
 (२०११)
 • Total ३१,१६,०४५
Languages
 • Official गुजराती, हिन्दी
Website banaskantha.gujarat.gov.in

बनासकाठामण्डलम् (गुजराती: બનાસકાંઠા જિલ્લો, आङ्ग्ल: Banaskantha district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पालनपुरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

बनासकाठामण्डलस्य विस्तारः १०,४०० चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य उत्तरभागे अस्ति । अस्य मण्डलस्य पूर्वे साबरकाठामण्डलं, पश्चिमे कच्छमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे पाटणमण्डलम् अस्ति । अस्मिन् मण्डले १,५५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- बनास, सरस्वती, सिपु ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं बनासकाठामण्डलस्य जनसङ्ख्या ३१,१६,०४५ अस्ति । अत्र १६,०९,१४८ पुरुषाः १५,०६,८९७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.४३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३६ अस्ति । अत्र साक्षरता ६६.३९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि- १ अमीरगढ २ भाभर ३ दाता ४ दान्तीवाडा ५ डीसा ६ धानेरा ७ दियोदर ८ काङ्करेज ९ पालनपुरम् १० थराद ११ वडगाम १२ वाव

कृषिः वाणिज्यं च[सम्पादयतु]

'बाजरा', 'मेइज्', तमाखुः ('टोब्याको'), 'जवार', एरण्डं ('क्यास्टर्-सीड्स्'), 'सिलियम्', आलुकं च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति । न केवलं गुजरातराज्ये अपि तु समग्रे भारते आलुकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'इसब्गुल्'-उत्पादनेऽपि अस्य मण्डलस्य आद्यं स्थानम् अस्ति । कलायस्य उत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । सुगन्धद्रव्याणाम्/परिव्ययानाम् ('स्पैसस्') उत्पादनेऽपि अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । कृषिः, आहारसंस्करणं ('फूड्-प्रोसेसिङ्ग्'), प्रवासोद्यमः, 'सिरेमिक्स्', वस्त्रोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले स्थितम् अम्बाजीमन्दिरं प्रसिद्धं यात्रास्थलम् अस्ति । भारते विद्यमानेषु ५१ शक्तिपीठेषु इदम् अन्यतमम् अस्ति । अस्मिन्नेव मण्डले पुरातनं कुम्भारिया-जैनमन्दिरम् अस्ति । पालनपुरात् ३२ किलोमीटर्दूरे जेसोर् इत्यत्र केदारनाथमहादेवमन्दिरम् अस्ति । इदमपि एकं वीक्षणीयस्थलम् अस्ति । बलराम-अम्बाजी वन्यजीविधाम, बलरामपुरस्य 'बलराम प्यालेस् रेसोर्ट्', जेसोर्-भल्लूक-धाम च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बनासकाठामण्डलम्&oldid=458233" इत्यस्माद् प्रतिप्राप्तम्