सुरेन्द्रनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सुरेन्द्रनगरमण्डलम्

Surendranagar district

સુરેન્દ્રનગર જિલ્લો
मण्डलम्
गुजरातराज्ये सुरेन्द्रनगरमण्डलम्
गुजरातराज्ये सुरेन्द्रनगरमण्डलम्
देशः  India
विस्तारः १०,४८९ च.कि.मी.
जनसङ्ख्या(२०११) १७,५५,८७३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website surendranagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

सुरेन्द्रनगरमण्डलम् (गुजराती: સુરેન્દ્રનગર જિલ્લો, आङ्ग्ल: Surendranagar district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सुरेन्द्रनगरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

सुरेन्द्रनगरमण्डलस्य विस्तारः १०,४८९ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे अहमदाबादमण्डलं, पश्चिमे राजकोटमण्डलम्, उत्तरे कच्छमण्डलं, पाटणमण्डलं च, दक्षिणे भावनगरमण्डलम् अस्ति । अस्मिन् मण्डले ७६० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । भोगावा, सुखभादर, ब्रह्मणी, कनकवती, रूपेण, व्रजभामा, चन्द्रभागः च अस्मिन् मण्डले प्रवहन्त्यः प्रमुखाः नद्याः सन्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं सुरेन्द्रनगरमण्डलस्य जनसङ्ख्या १७,५५,८७३ अस्ति । अत्र ९,१०,२६६ पुरुषाः ८,४५,६०७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ७३.१९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ दसाडा २ हलवद ३ ध्राङ्गध्रा ४ लखतर ५ मूली ६ वढवाण ७ सायला ८ लीमडी ९ चोटीला १० चूडा

कृषिः वाणिज्यं च[सम्पादयतु]

पपितफलं, बदरफलम्, आम्रफलं, चिकूफलं, कार्पासः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । बदरफलस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । शङ्करनामकस्य कस्यचन कार्पासविशेषस्य उत्पादने समग्रे विश्वे सुरेन्द्रनगरमण्डलस्य प्रथमं स्थानम् अस्ति । वस्त्रोत्पादनं, 'सिरेमिक्स्', आहारसंस्करणं, 'मषीन् टूल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले स्थितं त्रिनेत्रेश्वरमहादेवमन्दिरं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । चोटीला-गिरयः, शीशमहल्, राणकदेवीमन्दिरं, गङ्गाकुण्डः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सुरेन्द्रनगरमण्डलम्&oldid=458260" इत्यस्माद् प्रतिप्राप्तम्