महेसाणामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महेसाणामण्डलम्
मण्डलम्
गुजरातराज्ये महेसाणामण्डलम्
गुजरातराज्ये महेसाणामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters महेसाणा
Area
 • Total ४,३९३ km
Population
 (२०११)
 • Total २०,२७,७२७
Languages
 • Official गुजराती, हिन्दी
Website mehsana.gujarat.gov.in
उत्तरगुजरातम्

महेसाणामण्डलम् (गुजराती: મહેસાણા જિલ્લો, आङ्ग्ल: Mehsana district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति महेसाणा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

महेसाणामण्डलस्य विस्तारः ४,३९३ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे साबरकाठामण्डलं, पश्चिमे पाटणमण्डलम्, उत्तरे बनासकाठामण्डलं, दक्षिणे अहमदाबादमण्डलम् अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, रूपेण, सरस्वती, खारी, पुष्पवती ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं मेहसाणामण्डलस्य जनसङ्ख्या २०,२७,७२७ अस्ति । अत्र १०,५३,३३७ पुरुषाः ९,७४,३९० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४६२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२५ अस्ति । अत्र साक्षरता ८४.२६% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- १ बेचराजी २ कडी ३ खेरालु ४ महेसाणा ५ सतलासना ६ उञ्झा ७ वडनगरम् ८ विजापुरम् ९ वीसनगरम्

कृषिः वाणिज्यं च[सम्पादयतु]

गोधूमः, कार्पासः, एरण्डं, वृन्ताकम्, आलुकं, वार्तिकी, भिण्डकः, आम्रफलं, बृहज्जम्बीरं, चिकूफलं, मधुरिका/शालेयः, 'सिलियं', जीरकः, कलायः, तमाकुः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु जम्बीरस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । जीरकस्य, मधुरिकायाः/शालेयस्य च उत्पादनेऽपि अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । वार्तिक्याः उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । क्षीरोत्पादनम्, 'एञ्जिनियरिङ्ग्', आहारसंस्करणं, 'फार्मस्युटिकल्स्' , रासायनिकोद्यमः, तैलोत्पादनं, वस्त्रोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले स्थितं प्रसिद्धं मोढेरा सूर्यमन्दिरम् एकं प्रमुखं वीक्षणीयं स्थलम् अस्ति । राणी उदयमती वाव् इत्येतत् अपरं वीक्षणीयस्थलम् अस्ति । अस्य मण्डलस्य खेरालुनामके उपमण्डले तरङ्गनामकः गिरिः तिष्ठति । अयं गिरिः रूपेणनामकायाः नद्याः उद्गमस्थानम् अस्ति । गिरेः उपरि नवशतवर्षपुरातनम् अजितनाथमन्दिरम् अस्ति । शङ्कुनामकं जलोद्यानमपि मुख्यं वीक्षणीयस्थलम् अस्ति । थोलनामकं वन्यजीविधाम अपरं वीक्षणीयस्थलम् अस्ति । वडनगरस्य मुख्यद्वारं, बहुचराजीमन्दिरं, तानारीरीसमाधिः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=महेसाणामण्डलम्&oldid=458264" इत्यस्माद् प्रतिप्राप्तम्