अमरेलीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमरेलीमण्डलम्
मण्डलम्
गुजरातराज्ये अमरेलीमण्डलम्
गुजरातराज्ये अमरेलीमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters अमरेली
Area
 • Total ७,३९७ km
Population
 (२०११)
 • Total १५,१३,६१४
Languages
 • Official गुजराती, हिन्दी
Website amreli.gujarat.gov.in

अमरेलीमण्डलम् (गुजराती: અમરેલી જિલ્લો, आङ्ग्ल: Amreli district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमरेली इति नगरम् । संस्कृतभाषायाम् अस्य नगरस्य पुरातनं नाम अमरवल्ली इति आसीत् ।

भौगोलिकम्[सम्पादयतु]

अमरेलीमण्डलस्य विस्तारः ७,३९७ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे विद्यते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भावनगरमण्डलं, पश्चिमे जुनागढमण्डलम्, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ५५० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, थेबी, धातरवाडी, गागडियो, शान्तिः, वडी, रायडी ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अमरेलीमण्डलस्य जनसङ्ख्या १५,१३,६१४ अस्ति । अत्र ७,७०,६५१ पुरुषाः ७,४२,९६३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.५९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७४.४९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ अमरेली २ बाबरा ३ बगसरा ४ धारी ५ जाफराबाद् ६ खाम्भा ७ लाठी ८ लिलिया ९ राजुला १० सावरकुण्डला ११ वडिया

कृषिः वाणिज्यं च[सम्पादयतु]

कलायः, कार्पासः, तिलः, 'जवार', 'बाजरा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कृष्युत्पादने इदं जनपदम् अन्यतमम् अस्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य पञ्चमं स्थानम् अस्ति । गुजरातराज्यस्य सर्वकारेण वाणिज्यकेन्द्रत्वेन अस्य मण्डलस्य विकासः क्रियमाणः अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

पिपावाव-सागरतीरम् एकं प्रमुखं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले ३०,८९८ 'हेक्टेर्' अरण्यप्रदेशः अस्ति यस्मिन् विविधप्राणिसस्यविशेषाः दृश्यन्ते । अस्य मण्डलस्य ३७९.९ चतुरस्रकिलोमीटर्मितः भूप्रदेशः गिर्-अभयारण्ये अन्तर्भवति । श्रीगिरिधरभाई वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम च प्रसिद्धं पर्यटकस्थलम् अस्ति । भुरखिया-हनुमानमन्दिरं, खोडियार-मन्दिरम् इति मन्दिरद्वयम् अपि अस्य मण्डलस्य प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अमरेलीमण्डलम्&oldid=484836" इत्यस्माद् प्रतिप्राप्तम्