भावनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भावनगरमण्डलम्
मण्डलम्
गुजरातराज्ये भावनगरमण्डलम्
गुजरातराज्ये भावनगरमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters भावनगरम्
Area
 • Total ९,९०० km
Population
 (२०११)
 • Total २८,७७,९३१
Languages
 • Official गुजराती, हिन्दी
Website bhavnagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

भावनगरमण्डलम् (गुजराती: ભાવનગર જિલ્લો, आङ्ग्ल: Bhavnagar district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन प्रमुखं मण्डलमस्ति। अस्य मण्डलस्य केन्द्रमस्ति भावनगरमिति‌ नगरम्।

भौगोलिकम्[सम्पादयतु]

भावनगरमण्डलस्य विस्तारः ९,९०० चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे 'गल्फ् आफ् खम्भात्', पश्चिमे अमरेलीमण्डलम्, उत्तरे सुरेन्द्रनगरमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ६०५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, कालुभार, घेला ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं भावनगरमण्डलस्य जनसङ्ख्या २८,७७,९६१ अस्ति । अत्र १४,९०,४६५ पुरुषाः १३,८७,४९६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७६.८४% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ भावनगरम् २ बोटाद ३ गढडा ४ गारियाधार ५ घोघा ६ महुवा ७ पालिताणा ८ शिहोर ९ तलाजा १० उमराला ११ वलभीपुरम्

कृषिः वाणिज्यं च[सम्पादयतु]

कार्पासः, बृहज्जम्बीरं, पलाण्डुः, 'ग्वावा', कदलीफलं, चिकूफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । पलाण्डुः, 'ग्वावा' इत्येतयोः उत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कार्पासस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । चिकू इत्येतस्य फलस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । इदं मण्डलं गुजरातराज्यस्य उद्यमकेन्द्रमपि अस्ति । अस्मिन् मण्डले अनेकाः उद्यमघटकाः सन्ति । वज्रकर्तनं/वज्रछेदनं, वज्रपरिष्करणं, 'सिमेण्ट् एण्ड् जिप्सम्', लवणोत्पादनं, 'सिरेमिक्स्', रासायनिकोद्यमः, 'प्ल्यास्टिक्स्', नौकानिर्माणं, 'फ्याब्रिकेशन्', आहारसंस्करणम् च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । वज्रकर्तनोद्यमे वज्रपरिष्करणोद्यमे च समग्रे भारते अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । समग्रे विश्वे बृहत्तमं नौकाविघटनप्राङ्गणम् अस्मिन्नेव मण्डले अलङ्ग इत्यत्र अस्ति ।

श्रीखोडियारदेवालयस्य मुख्यद्वारम्

वीक्षणीयस्थलानि[सम्पादयतु]

अस्य मण्डलस्य प्रमुखम् आकर्षणकेन्द्रं अस्ति वेलावदर राष्ट्रियोद्यानम् । शिहोर-दरबारगढ इत्येतत् पूर्वं राजपुत्राणां हर्म्यम् आसीत् । राज्यसर्वकारेण इदं भवनं रक्षितम् अस्ति । इदमपि अस्य मण्डलस्य वीक्षणीयस्थलम् अस्ति । तलाजा इत्येतत् शेत्रुञ्जीनद्याः तटे विद्यमानं नगरम् अस्ति । अत्र ३० प्राचीनबौद्धगुहाः सन्ति । गान्धीस्मृतिः, तख्तेश्वरमन्दिरं, गौरीशङ्करतडागः, सरदार वल्लभभाई पटेल-उद्यानं/पिल्-उद्यानं, पुरातनदरबारगढ च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।




बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=भावनगरमण्डलम्&oldid=458236" इत्यस्माद् प्रतिप्राप्तम्