तापीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तापीमण्डलम्
मण्डलम्
गुजरातराज्ये तापीमण्डलम्
गुजरातराज्ये तापीमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters व्यारा
Area
 • Total ३,४३५ km
Population
 (२०११)
 • Total ८,०६,४८९
Languages
 • Official गुजराती, हिन्दी
Website tapi.gujarat.gov.in
दक्षिणगुजरात

तापीमण्डलम् (गुजराती: તાપી જિલ્લો, आङ्ग्ल: Tapi district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति व्यारा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

तापीमण्डलस्य विस्तारः ३,४३५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे सुरतमण्डलम्, उत्तरे नर्मदामण्डलं, दक्षिणे डाङ्गमण्डलम् अस्ति । अस्मिन् मण्डले १९२६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- तापी, पूर्णा, अम्बिका ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं तापीमण्डलस्य जनसङ्ख्या ८,०६,४८९ अस्ति । अत्र ४,०२,३९८ पुरुषाः ४,०४,०९१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ६९.२३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ वालोड २ व्यारा ३ सोनगढ ४ उच्छल ५ निझर

कृषिः वाणिज्यं च[सम्पादयतु]

तापीमण्डलं कृषिप्रधानम् अस्ति । धान्यानि, कलायः, कार्पासः, फलानि, शाकानि, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । वस्त्रोत्पादनं, 'सिमेण्ट्', कर्गजोद्यमः, शर्करोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

सोनगढ इत्यस्मिन् उपमण्डले स्थितः दुर्गः, गौमुखं, हिन्दूस्थानसेतुः, डोसवाडाजलबन्धः ('डोसवाडा ड्याम्'), उकाई-जलबन्धः ('उकाई ड्याम्'), रोकाडिया-हनुमानमन्दिरं, परशुरामजी, सूर्यतापेश्वरमन्दिरं, कल्याणरायजीमन्दिरं, गायत्रीमातामन्दिरं, साईबाबामन्दिरं, फिरङ्गीमाताजी-जलाराममन्दिरं, मारीमातामन्दिरं च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तापीमण्डलम्&oldid=458261" इत्यस्माद् प्रतिप्राप्तम्