नवसारीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नवसारीमण्डलम्
मण्डलम्
गुजरातराज्ये नवसारीमण्डलम्
गुजरातराज्ये नवसारीमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters नवसारी
Area
 • Total २,१९६ km
Population
 (२०११)
 • Total १३,३०,७११
Languages
 • Official गुजराती, हिन्दी
Website navsari.gujarat.gov.in
दक्षिणगुजरात

नवसारीमण्डलम् (गुजराती: નવસારી જિલ્લો, आङ्ग्ल: Navsari district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नवसारी इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

नवसारीमण्डलस्य विस्तारः २,१९६ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डाङ्गमण्डलं, पश्चिमे 'गल्फ् आफ् खम्भात', उत्तरे सुरतमण्डलं, दक्षिणे वलसाडमण्डलम् अस्ति । अस्मिन् मण्डले २००० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- केवडी, पूर्णा, खरेरा, अम्बिका ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं नवसारीमण्डलस्य जनसङ्ख्या १३,३०,७११ अस्ति । अत्र ६,७८,४२३ पुरुषाः ६,५२,२८८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६०२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६०२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६१ अस्ति । अत्र साक्षरता ८४.७८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ चिखली २ गणदेवी ३ जलालपोर ४ नवसारी ५ वांसदा

कृषिः वाणिज्यं च[सम्पादयतु]

चिकूफलम्, आम्रफलं, कूष्माण्डः, हरिद्रा, इक्षुः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु चिकूफलस्य, कूष्माण्डस्य च उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । आम्रफलस्य, इक्षोः च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । वस्त्रोत्पादनं, वज्रोद्यमः, शर्करोत्पादनं, कर्गजोद्यमः, 'एञ्जिनियरिङ्ग्', आहारसंस्करणं, रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले विद्यमानः दाण्डीनामकः ग्रामः तु प्रसिद्धम् ऐतिहासिकस्थलम् अस्ति । स्वातन्त्र्यसङ्ग्रामे गान्धेः नेपथ्ये अत्रैव लवणसत्याग्रहः कृतः आसीत् । लवणसत्याग्रहस्मरणिकारूपेण अस्मिन् ग्रामे 'सायिफी विल्ला सङ्ग्रहालयः' अस्ति । अस्मिन् मण्डले बिल्लीमोरा इत्यत्र सोमनाथमहादेवमन्दिरम् अस्ति । अस्मिन् मण्डले विद्यमाने दस्तूर मेहेरजी-राणा-ग्रन्थालये पुरातननवसारीमण्डलस्य चित्राणि, पार्सी-जनाङ्गस्य पुरातनतमाः मातृकाः च सन्ति । नवसारीतः २० किलोमीटर्दूरे उभराटनामकः सागरतटः अस्ति यत् पर्यटकानाम् इष्टतमं वीक्षणीयस्थलम् अस्ति । वांसदा-राष्ट्रियोद्यानमपि अस्य मण्डलस्य प्रमुखं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नवसारीमण्डलम्&oldid=458255" इत्यस्माद् प्रतिप्राप्तम्