वडोदरामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वडोदरामण्डलम्
मण्डलम्
गुजरातराज्ये वडोदरामण्डलम्
गुजरातराज्ये वडोदरामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters वडोदरा
Area
 • Total ७,५५५ km
Population
 (२०११)
 • Total ४१,५७,५६८
Languages
 • Official गुजराती, हिन्दी
Website vadodara.gujarat.gov.in
मध्यगुजरात

वडोदरामण्डलम् (गुजराती: વડોદરા જિલ્લો, आङ्ग्ल: Vadodara district) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति वडोदरा इति महानगरम् ।

भौगोलिकम्[सम्पादयतु]

वडोदरामण्डलस्य विस्तारः ७,५५५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे आणन्दमण्डलम्, उत्तरे पञ्चमहलमण्डलं, दक्षिणे नर्मदामण्डलम् अस्ति । अस्मिन् मण्डले १७३२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- महीसागरः, नर्मदा, जाम्बुवा, सूर्या, विश्वामित्री, दादर ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं वडोदरामण्डलस्य जनसङ्ख्या ४१,५७,५६८ अस्ति । अत्र २१,५०,२२९ पुरुषाः २०,०७,३३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५५१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५५१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८१.२१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि- १ छोटा-उदयपुरं २ डभोई ३ जेतपुर-पावी ४ करजण ५ कवाण्ट ६ नसवाडी ७ पादरा ८ सङ्खेडा ९ सावली १० शिनोर ११ वडोदरा १२ वाघोडिया

कृषिः वाणिज्यं च[सम्पादयतु]

तण्डुलः, गोधूमः, 'जवार्', कलायः, तमाखुः, कार्पासः, इक्षुः, कदलीफलं, वृन्ताकं, 'ग्वावा', भिण्डकं, वार्तिकी, हरिद्रा, पपितफलं, सीताफलं, भल्लातकं ('क्याश्यू नट्') च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कदलीफलस्य उत्पादने इदम् एकं प्रमुखं मण्डलम् अस्ति । वृन्ताकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । 'ग्वावा'-फलस्य, भिण्डकस्य, वार्तिक्याः, हरिद्रायाः च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । पपितफलस्य, सीताफलस्य च उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । 'केमिकल्स् एण्ड् फर्टिलैसर्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', तमाखुः, 'बायोटेक्नोलजी', मत्स्योद्यमः, 'एञ्जिनियरिङ्ग्', क्षीरोत्पादनं, काचः ('ग्लास्'), 'मषीन् टूल्स्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अरबिन्दो समाजः, बरोडा सङ्ग्रहालयः, 'दरबार हाल्', खण्डेरावविपणिः, कीर्तिमन्दिरं, चाम्पानेर्, लेहरीपुराद्वारं, लक्ष्मीविलासहर्म्यं, मकरपुराहर्म्यं, महात्मागान्धिनगरगृहं, महाराजा-फतेसिंहसङ्ग्रहालयः, माण्डवीद्वारं, मकबरा (हजीरा), नजरबागहर्म्यं, न्यायमन्दिरं (मण्डलस्यास्य न्यायालयः), प्रतापविलासहर्म्यं, सय्याजीबाग, सय्याजीसरोवरः, सुरसागरतडागः च अस्य मण्डलस्य प्रमुखाणि ऐतिहासिकानि वीक्षणीयस्थलानि सन्ति । छोटा-उदयपुरे स्थितः 'ट्रैबल्'-सङ्ग्रहालयः अपि अस्य मण्डलस्य प्रमुखं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वडोदरामण्डलम्&oldid=478321" इत्यस्माद् प्रतिप्राप्तम्