खेडामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खेडामण्डलम्
मण्डलम्
गुजरातराज्ये खेडामण्डलम्
गुजरातराज्ये खेडामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters नडियाद
Area
 • Total ४,२१८ km
Population
 (२०११)
 • Total २२,९८,९३४
Languages
 • Official गुजराती, हिन्दी
Website kheda.gujarat.gov.in
मध्यगुजरात

खेडामण्डलम् (गुजराती: ખેડા જિલ્લો, आङ्ग्ल: Kheda district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नडियाद इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

खेडामण्डलस्य विस्तारः ४,२१८ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे पञ्चमहलमण्डलं, पश्चिमे अहमदाबादमण्डलम्, उत्तरे साबरकाठामण्डलं, दक्षिणे आणन्दमण्डलम् अस्ति । अस्मिन् मण्डले ७२३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले अष्ट नद्यः प्रवहन्ति । ताः यथा- मही, साबरमतीनदी, मेश्वो, खारी, लुणी, वात्रक, शेढी, मोहर ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं खेडामण्डलस्य जनसङ्ख्या २२,९८,९३४ अस्ति । अत्र ११,८७,०९८ पुरुषाः ११,११,८३६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३७ अस्ति । अत्र साक्षरता ८४.३१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ बालासिनोर २ कपडवञ्ज ३ कठलाल ४ खेडा ५ महुधा ६ मातर ७ महेमदाबाद् ८ नडियाद ९ ठासरा १० वीरपुरम्

कृषिः वाणिज्यं च[सम्पादयतु]

आम्लकी, बृहज्जम्बीरं, कदलीफलं, पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि फलानि सन्ति । आलुकं, वार्तिकी ('टमेटो'), वृन्ताकं, पलाण्डुः, मरीचिका च अस्मिन् मण्डले उत्पाद्यमानानि शाकानि सन्ति । आर्द्रकं ('जिञ्जर्'), हरिद्रा, जीरकः, मधुरिका/शालेयः च अस्मिन् मण्डले उत्पाद्यमानानि सुगन्धद्रव्याणि ('स्पैसस्') सन्ति । गुजरातराज्यस्य मण्डलेषु आम्लक्युत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । तमाखूत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । कृषिः, 'इलेक्ट्रिकल् एक्विप्मेण्ट्स्', वस्त्रोत्पादनं, 'सिरेमिक्', कर्गजोद्यमः, 'प्ल्यास्टिक्', आहारसंस्करणं, 'सिमेण्ट् एण्ड् जिप्सम्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

नडियाद-तः ३३ किलोमीटर्दूरे स्थिते डाकोरनगरे विद्यमानं प्रसिद्धं रणछोडरायमन्दिरं प्रमुखं वीक्षणीयस्थलम् अस्ति । रायोली इत्यत्र 'डायनोसार् एण्ड् फोसिल् पार्क्' अस्ति यत् अपरं वीक्षणीयस्थलम् अस्ति । नडियाद-नगरे स्थितं सन्तराममन्दिरमपि एकं वीक्षणीयस्थलम् अस्ति । कपडवञ्ज इत्यत्र विद्यमानः कुण्डः, 'बत्त्रीस् कोठा नी वाव्' इत्येतत् द्वयमपि वीक्षणीयस्थलमस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=खेडामण्डलम्&oldid=478319" इत्यस्माद् प्रतिप्राप्तम्