नर्मदामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नर्मदामण्डलम्
मण्डलम्
गुजरातराज्ये नर्मदामण्डलम्
गुजरातराज्ये नर्मदामण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters राजपीपळा
Area
 • Total २,७५५ km
Population
 (२०११)
 • Total ५,९०,३७९
Languages
 • Official गुजराती, हिन्दी
Website narmada.gujarat.gov.in
मध्यगुजरात

नर्मदामण्डलम् (गुजराती: નર્મદા જિલ્લો, आङ्ग्ल: Narmada district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजपीपळा इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

नर्मदामण्डलस्य विस्तारः २,७५५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे भरुचमण्डलम्, उत्तरे वडोदरामण्डलं, दक्षिणे तापीमण्डलम् अस्ति । अस्मिन् मण्डले १,१०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा- नर्मदानदी, करजण, मेन, अश्विनी, तेरव ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं नर्मदामण्डलस्य जनसङ्ख्या ५,९०,३७९ अस्ति । अत्र ३,०१,२७० पुरुषाः २,८९,१०९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६० अस्ति । अत्र साक्षरता ७३.२९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- १ डेडियापाडा २ नान्दोद ३ सागबारा ४ तिलकवाडा

कृषिः वाणिज्यं च[सम्पादयतु]

नर्मदामण्डलं कृषिप्रधानम् अस्ति । कदलीफलं, कार्पासः, आम्रफलं, कूष्माण्डः च अस्मिन् मण्डले उत्पाद्यमानानि कृष्युत्पादनानि सन्ति । अस्मिन् मण्डले कार्पासः, कदलीफलं, कूष्माण्डः च अधिकतया उत्पाद्यते । कृषिः, वस्त्रोत्पादनं, शर्करोत्पादनं, रासायनिकोद्यमः, आहारसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

शूलपाणेश्वरवन्यजीविधाम अस्य मण्डलस्य प्रमुखम् आकर्षणम् अस्ति । १९१० वर्षे निर्मितं राजवन्तहर्म्यं ('राजवन्त प्यालेस्') पर्यटकानाम् इष्टतमं वीक्षणीयस्थलम् अस्ति । राजपीपळातः २७ किलोमीटर्दूरे स्थितायां केवडियायां शूलपाणेश्वरमन्दिरं, सरदारसरोवरजलबन्धः ('सरदार सरोवर ड्याम्') च अस्ति । वाडियाहर्म्यं ('वाडिया प्यालेस्'), दशावताररणछोडरायमन्दिरं, निजामशाह दरगाह् च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=नर्मदामण्डलम्&oldid=478320" इत्यस्माद् प्रतिप्राप्तम्