सामग्री पर जाएँ

सरदारसरोवरजलबन्धः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sardar Sarovar Dam
सरदारसरोवरजलबन्धः
सरदारसरोवरजलबन्धः
सरदारसरोवरजलबन्धः is located in Gujarat
सरदारसरोवरजलबन्धः
भरुचमण्डलं, गुजरातराज्यं, भारतम्
देशः भारतम्
अवस्थानम् नवागाम, गुजरातराज्यम्
भौगोलिकावस्थानम् २१°४९′४९″ उत्तरदिक् ७३°४४′५०″ पूर्वदिक् / 21.83028°उत्तरदिक् 73.74722°पूर्वदिक् / २१.८३०२८; ७३.७४७२२
स्थितिः कार्यरतः
स्वामी नर्मदा कण्ट्रोल् अथॉरिटि
जलबन्धस्तथा जलनिकाषी व्यवस्था
जलबन्धस्य प्राकारः अभिकर्षजशक्त्याः अनुकुलः
आबन्धनम् नर्मदानदी
उच्चता (मूलभित्तिः) 163 मी (535 फ़ुट)
दैर्घ्यम् 1,210 मी (3,970 फ़ुट)
जलनिष्कासनक्षमता 84,949 मी3/सेक (29,99,900 घन फ़ुट/सेक)
जलाधारः
सम्पूर्णधारणक्षमता 9,50,00,00,000 मी3 (77,01,775 एकड़·फ़ुट)
धारणक्षमता (सक्रिया) 5,80,00,00,000 मी3 (47,02,137 एकड़·फ़ुट)
अववाहिका 88,000 किमी2 (34,000 वर्ग मील)
भू-तलविस्तृतिः 375.33 किमी2 (144.92 वर्ग मील)
दैर्घ्यम् (सर्वाधिकम्) 214 किमी (133 मील)
स्थूलता (सर्वाधिका) 1.77 किमी (1.10 मील)
जलस्य स्फितिः
(साधारणतया)
138 मी (453 फ़ुट)
विद्युत्शक्तिकेन्द्रम्
सञ्चालकाः सरदार सरोवर नर्मदा निगम लिमिटेड् (Sardar Sarovar Narmada Nigam Limited)
प्रकल्पभारार्पणम् जून् २००६
घुर्णनयन्त्राणि जलबन्धे- ६x २००मेगावाट् घुर्णनयन्त्राणि
केनाल्- ५x ५०मेगावाट् घुर्णनयन्त्राणि[]
धारणक्षमता (स्थापिता) १,४५० मेगावाट्
जालस्थानम्
www.sardarsarovardam.org

सरदारसरोवरजलबन्धः ( /ˈsərədɑːrəsərvərəələbənðəh/) (गुजराती: સરદાર સરોવર ડેમ, हिन्दी: सरदार सरोवर डेम्) गुजरातराज्यस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अन्यतमः अस्ति । सरदारसरोवरजलबन्धः न केवलं गुजरातराज्यस्य, अपि तु भारतस्य बृहत्तमेषु मानवनिर्मितस्थापत्येषु अपि अन्यतमः । जलबन्धनिर्माणस्य योजनायाः नाम “नर्मदायोजना” इति । एतस्मात् जलबन्धादेव गुजरातराज्यस्य विभिन्नस्थानं प्रति कुल्यायाः (canal) माध्यमेन नर्मदायाः जलं गच्छति । “गुजरातराज्यस्य विकासस्य पृष्ठे सरदार-सरोवरजलबन्धस्य निर्माणमपि एकं कारणं विद्यते” इति नेतारः वदन्ति । १९६१ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चमे (५/४/१९६१) दिनाङ्के एतस्याः योजनायाः शिलान्यासं प्रधानमन्त्री नेहरू अकरोत्, परन्तु अद्यापि तस्य निर्माणकार्यं चलदस्ति । अनेन ज्ञायते यत्, एषः प्रकल्पः कियान् बृहत् अस्ति इति । (भारतदेशस्य राजनीतेः कीदृशी स्थितिः अस्ति इत्यस्यापि अनेन ज्ञानं भवति ।)

भौगोलिकस्थितिः

[सम्पादयतु]

गुजरातराज्यस्य भरुच-नगरस्य नवागाम-ग्रामस्य समीपं सरदार-सरोवरजलबन्धः विद्यते । पूर्वं भरुचमण्डलस्य गोरागाम-ग्रामस्य समीपं नेहरु इत्यनेन नर्मदायोजनायाः शिलान्यासः कृतः आसीत् । परन्तु अभियन्तॄणां मते तत् स्थानं जलबन्धनिर्माणयोग्यं नासीत्, अतः तस्याः योजनायाः स्थानं भरुचमण्डलस्य नवागाम-ग्रामस्य समीपं निश्चितम् ।

इतिहासः

[सम्पादयतु]

गुजरातविधानसभायां नर्मदायोजनायाः प्रस्तावः भाईलालभाई डी. पटेल-नामकेन एकेन निर्दलीयसदस्येन उपस्थापितः आसीत् । सः भाईकाका इति नाम्ना अपि प्रसिद्धः आसीत् । भाईकाका इत्यस्य प्रस्तावस्य जनसामान्यैः, विधानसभासदस्यैः च समर्थनं कृतम् आसीत् । गुजरातराज्ये तदा कॉङ्ग्रेस्-पक्षस्य सर्वकारस्य शासनम् आसीत् । कॉङ्ग्रेस्-पक्षस्य नेतारः भाईकाका इत्यनेन उपस्थापितस्य प्रकल्पप्रस्तावस्य समर्थं नाकुर्वन् । परन्तु जनसामान्यानां समर्थनं भाईकाका इत्यस्य पार्श्वे आसीत् । ततः राजनैतिकवातावरणं दृष्ट्वा कॉङ्ग्रेस्-पक्षस्य नेतारः अपि नर्मदायोजनायाः समर्थनम् अकुर्वन् । नर्मदायोजनायाः राजनैतिककलहस्य विषये भाईकाका स्वस्य ‘भाईकाकाना संस्मरणो’-नामके (ભાઈકાકાનાં સંસ્મરણો) पुस्तके स्वानुभवान् अलिखत् । (‘भाईकाकाना संस्मरणो’-पुस्तकं भाईकाका इत्यस्य सङ्घर्षस्य स्थितिं कथयति । अतः तत् पुस्तकमेकवारं पठनीयम् सर्वैः ।)

भाईकाका स्वयं अनुभवी अभियन्ता (engineer) आसीत् । तेन जनसेवायै राजनीतिक्षेत्रस्य उपयोगः कृतः । नर्मदायोजनया गुजरातराज्यस्य कियान् लाभः भविष्यतीत्यस्य परिकल्पना तस्मात् अधिकं न कस्यापि मनसि आसीत् । अतः गुजरात-महाराष्ट्र-मध्यप्रदेश-राज्यानां मुख्यमन्त्रिभिः सह नर्मदायोजनायाः चर्चां सर्वदा भाईकाका एव करोति स्म । प्रधानमन्त्रिणा इन्दिरा गान्धी इत्यनया सह अपि नर्मदायोजनायाः विषये सः चर्चाम् अकरोत् । ततः केन्द्रसर्वकारेण रचितस्य खोसला-समितेः सम्मुखम् अपि भाईकाका स्वविषयम् उपास्थापयत् । तस्य तीव्रतर्कान् ज्ञात्वा सर्वेषां मनसि नर्मदायोजनायाः कृते पवित्रभावः समुद्भूतः । शनैः शनैः सर्वैः भाईकाका इत्यस्य समर्थनं कृतम् । भाईकाका इत्यस्य अविरतपरिश्रमस्य पश्चादपि तस्य जीवनकाले नर्मदायोजनायाः कार्यं पूर्णं नाभवत् । यतो हि राजनीत्यां तु स्वस्वार्थपूर्त्यै एव समाजसेवायाः कार्याणि भवन्ति । राजनीतिक्षेत्रस्य निष्ठुरगुप्तकारणत्वात् तस्य जीवनस्य बृहत्स्वप्नं पूर्णं नाभवत्, परन्तु सः निराशः न भूत्वा स्वशेषजीवनं वल्लभ विद्यानगर नामकस्य नगरस्य विकासाय अयच्छत् ।

नर्मदायोजनायाः विलम्बस्य कारणानि

[सम्पादयतु]

२०१४ तमे वर्षे भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदी इत्यनेन पदस्वीकारात् अष्टादश(१८)दिनानन्तरं नर्मदायोजनायाः कार्यं शीघ्रातिशीघ्रं समापनीयम् इति आदेशः दत्तः । परन्तु यः आदेशः अष्टादशदिनानन्तरम् अभवत्, ततः पूर्वम् अस्माकं देशे तत्कार्यार्थं पञ्चत्रिंशत् (५३) वर्षाणि कथमभवन् इति प्रश्नः जनसामान्यानां मनसि वर्तते ।

सरदार-सरोवरजलबन्धसदृशस्य जलबन्धस्य निर्माणं अमेरिका-देशे दशवर्षेषु पूर्णम् अभवत् । सरदार-सरोवर-जलबन्धात् किञ्चित् बृहज्जलबन्धस्य निर्माणं चीन-देशे पञ्चदशवर्षेषु पूर्णमभवत् । परन्तु भारतस्य जनविरोधिराजनीतेः कारणत्वात् लोकसेवायाः एका परियोजना पञ्चत्रिंशत् वर्षानन्तरमपि पूर्णा न अभवत् ।

जलबन्धकार्ये विलम्बस्य मुख्यकारणेषु जलबन्धस्य नाम अपि परिगण्यते । यतो हि अस्य जलबन्धस्य नाम लोहपुरुषस्य नाम्ना सरदार वल्लभभाई पटेल-जलबन्धः इति स्थापितम् अस्ति । लोहपुरुषस्य जलबन्धनामत्वात् नेहरू इत्यस्य रुचिः जलबन्धनिर्माणे नासीत् इति राजनीतिक्षेत्रस्य ज्ञातारः वदन्ति । ततः तस्यानुगामिनः सर्वेऽपि कॉङ्ग्रेस्-पक्षस्य नेतारः नर्मदायोजनायां स्वरुचिं न प्रादर्शयन् । एवं १९६१ तमे वर्षे यस्याः योजनायाः शिलान्यासः अभवत्, तस्याः कार्यारम्भः तु १९९१ तमे वर्षे अभवत् अर्थात् शिलान्यासानन्तरं त्रिंशत् वर्षपश्चात् योजनायाः कार्यस्य आरम्भः अभवत् ।

राजनीतिक्षेत्रस्य पीडया ग्रस्ता एषा परियोजना त्रिंशत् (३०) वर्षानन्तरं १९९१ तमे वर्षे आरब्धा । परन्तु नर्मदायोजनायाः कार्यारम्भात् प्राक् १९८६ तमे वर्षे एव नर्मदारक्षणान्दोलनस्य (નર્મદા બચાવો આન્દોલન/नर्मदा बचाव आन्दोलन) आरम्भः जातः आसीत् । नर्मदायोजना पूर्णा न भवेत् इति तस्य आन्दोनलस्य उद्देशः आसीत् । तत् आन्दोलनमपि नर्मदायोजनायाः विलम्बस्य कारणत्वेन परिगण्यते । नर्मदारक्षणान्दोलनस्य मुख्यव्यक्तिः मेधा पाटकर आसीत् । सा गुजरातराज्यस्य ग्रामजनान्, मध्यप्रदेशराज्यस्य ग्रामजनान् च योजनायाः विरोधाय प्रेरयति स्म । प्रारम्भे तस्याः स्वार्थप्रेरितस्य आन्दोलनस्य जनसामान्यैः समर्थनं कृतं, परन्तु कालान्तरे देशहिताय जनैः तस्यान्दोलनस्य विरोधः अपि कृतः । आन्दोलनस्य मूले स्वार्थः आसीत्, अतः आन्दोलनं सफलं नाभूत् । परन्तु आन्दोलनस्य प्रारम्भिके काले जनविरोधेन नर्मदायोजनायाः निर्माणस्य अमूल्यकालः व्यर्थः अभवत् ।

नर्मदायोजनायाः कार्यारम्भात् प्राक् एकः अन्यः विघ्नः समुत्पन्नः । पूर्वं भरुचमण्डलस्य गोरागाम-ग्रामस्य समीपं जलबन्धनिर्माणाय यत् स्थानं सर्वकारेण निश्चितम् आसीत्, तत् स्थलं जलबन्धनिर्माणयोग्यं नासीत् । अतः अभियन्तारः अन्यस्य स्थलस्य अन्वेषणं प्रारभन्त । अविरतान्वेषणानन्तरं गुजरातराज्यस्य भरुचमण्डलस्य नवागाम-ग्रामस्य समीपं सरदार-सरोवरजलबन्धाय योग्यं स्थानम् अभियन्तृभिः प्राप्तम् । एतदपि नर्मदायोजनायाः विलम्बस्य अन्यतमं कारणम् ।

२०१२ तमे वर्षे नर्मदा कण्ट्रोल् अथॉरिटि इत्यनया संस्थया सरदार-सरोवरजलबन्धस्य उपरि द्वारस्थापनस्य प्रस्तावः सिद्धः कृतः आसीत् । परन्तु वर्षद्वयं यावत् सः प्रस्तावः केन्द्रसर्वकारेण न स्वीकृतः । राज्यसर्वकारस्य, केन्द्रसर्वकारस्य च अन्तःकलहस्य कारणेनापि जलबन्धस्य कार्ये विलम्बः अभवत् । ततः प्रधानमन्त्रित्वेन पदारोहणस्य पश्चात् नरेन्द्र मोदी इत्यनेन अष्टादशदिनेषु प्रस्तावाय अनुमितिः प्रदत्ता ।

नर्मदायोजनायाः प्रारूपम्

[सम्पादयतु]

नर्मदानद्याः उद्गमस्थानं तु मध्यप्रदेशराज्यस्य अमरकण्टक-पत्तनम् । अतः नर्मदा मध्यप्रदेशीया नदी । परन्तु गुजरातराज्यं प्रति नद्याः प्रवाहत्वात् गुजरातराज्यम् अपि नर्मदायाः जलं गच्छति । नर्मदानद्याः प्रवाहः महाराष्ट्रराज्ये अपि अस्ति । परन्तु तस्य राज्यस्य सीमायां नर्मदायाः स्वल्पभागः एव अस्ति । अतः एतस्याः योजनायाः मुख्यलाभं मध्यप्रदेश-महाराष्ट्र-गुजरातराज्यानां नागरिकाः प्राप्स्यन्ति । गुजरातराज्यस्य समीपवर्तिराज्यत्वात् राजस्थानराज्यमपि एतस्याः योजनायाः लाभं प्राप्स्यति ।

नर्मदायोजना विश्वस्य बृहत्तमासु योजनासु अन्यतमा अस्ति । तस्याः योजनायाः निदेशनं नर्मदा कण्ट्रोल् अथॉरिटि इत्याख्या संस्था करोति । तस्यां संस्थायां मध्यप्रदेश-महाराष्ट्र-गुजरात-राजस्थानराज्यानां प्रतिनिधयः भवन्ति । चर्चानन्तरं सर्वेषां सम्मत्यानुसारं निर्णयाः भवन्ति ।

नर्मदायोजनान्तर्गतौ द्वौ बृह्त्सेतू भविष्यतः । तयोः नामनी क्रमेण सरदार-सरोवरसेतुः, इन्दिरा गान्धी-सेतुः । नर्मदायोजनान्तर्गतानां पञ्चदश मध्यमस्तरसेतूनां निर्माणं भविष्यति । एतस्याः योजनायाः भागरूपेणैव त्रिसहस्राधिक-त्रिशताधिकानां (३३००) लघुसेतूनां निर्माणमपि भविष्यति । जलबन्धस्य निर्माणमपि एतस्याः योजनानन्तर्गतमेव ।

जलबन्धस्य विस्तारः, जलस्तरश्च

[सम्पादयतु]

सरदार-सरोवरजलबन्धस्य जलसञ्चयक्षमता प्रतिक्षणं ३०.७ घनपादम् (cubic feet per second) अस्ति, या विश्वस्य सर्वाधिका जलसञ्चयक्षमता अस्ति । मुख्यनियामकस्य (Regulator) जलसञ्चयक्षमता प्रतिक्षणं ४०,००० घनपादं, विस्तारश्च ५३२ कि.मी. अस्ति । भारतस्य बृहत्तमेषु जलबन्धेषु तृतीयः जलबन्धः एषः । एतस्य जलबन्धस्य औन्नत्यं १६३ मी. भविष्यति । नर्मदायाः मुख्यकुल्या (main canal) विश्वस्य बृहत्तमा कृषिक्षेत्रसिञ्चनकुल्या अस्ति ।

जलबन्धस्य विस्तारः ३७,००० ‘हेक्टेर्’ अस्ति । सः २१४ कि.मी. लम्बमानः, १.७७ कि.मी. विस्तृतः अस्ति । जलबन्धस्य सामान्यजलस्तरः १३८.६८ मी. निर्धारितः । अधिकतमः जलस्तरः १४०.२१ मी., नूनातिनूनः जलस्तरश्च ११०.६४ निर्धारितः । जलबन्धस्य नूनातिनूनस्तरात् अपि यदि जलस्तरः अधः नेयः, तर्हि २५.९१ मी. जलं तु जलबन्धे अनिवार्येण भवेदेव इति नियमः ।

नर्मदायोजनायाः अनुमानितव्ययः

[सम्पादयतु]

१९६१ तमे वर्षे यदा प्रप्रथमवारं नर्मदायोजनायाः प्रस्तावः अभवत्, तदा ३०० कोटिरूप्यकाणि प्रारम्भिकव्ययः इति अनुमानितम् आसीत् । केन्द्र-राज्यसर्वकारयोः उदासीनतायाः कारणेन भाईकाका अन्यरीत्या धनसङ्ग्रहस्य मार्गविषये अचिन्तयत् । अविरतप्रयासानन्तरमपि यदा धनसङ्ग्रहस्य मार्गः तेन न प्राप्तः, तदा सः अन्तिमनिर्णयत्वेन समाजात् धनं स्वीकर्तुम् अचिन्तयत् । “१०० कोटिरूप्यकाणि गुजरातराज्यस्य कृषकेभ्यः, १०० कोटि रूप्यकाणि उद्योगपतिभ्यः, १०० कोटिरूप्यकाणि ऋणदातृसंस्थाभ्यश्च स्वीकृत्य प्रकल्पं पूर्णं करिष्यामः” इति तस्य आयोजनम् आसीत् । परन्तु सर्वकारेण तस्य मतस्य प्रत्यक्षाप्रत्यक्षरीत्या खण्डनं कृतम् । अतः योजनायाः कृते धनसङ्ग्रहः नाभवत् । ततः योजनायाः विषये अधिकचिन्तनमपि नाभवत् ।

कालान्तरे यदा यदा योजनायाः अनुमानितव्यये वृद्धिः भवति स्म, तदा तदा वर्धन्तं अनुमानितव्ययं पश्यन्तः सर्वे तूष्णीं तिष्ठन्ति स्म । १९८६ तमे वर्षे योजनायाः प्रारम्भिकव्ययः ६,४०६ कोटिरूप्यकाणि इति अनुमानितम् । २००० तमे वर्षे प्रारम्भिकव्यये वृद्धौ सत्यां अनुमानितव्ययः २८,००० कोटिरूप्यकाणि अभवत् । २०१० तमे वर्षे ३९,००० कोटिरूप्यकाणि योजनायाः व्ययः भविष्यति इति अनुमानितम् आसीत् । परन्तु २०१५ तमे वर्षे नर्मदायोजना पूर्णा भविष्यति इत्यनया उद्घोणया सह योजनायाः व्ययः ४५,५०० कोटिरूप्यकाणि भविष्यति इति अनुमानितम् अस्ति ।

वीक्षणीयस्थलत्वेन सरदारसरोवरजलबन्धः

[सम्पादयतु]

केवडिया कॉलनि इति जलबन्धस्य स्थानिकनाम अस्ति । जलबन्धस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । तानि वीक्षणीयानि स्थलानि द्रष्टुं चीटिकायाः (ticket) आवश्यकता भवति । ८:३० तः १७:३० पर्यन्तं यात्रिकेभ्यः जलबन्धदर्शनार्थं व्यवस्थापकैः कालः निर्धारितः । यात्रिकेभ्यः मार्गदर्शनं, चीटिकाप्राप्तिः, पथिप्रदर्शकः (guide) इत्यादिव्यवस्थाः जलबन्धप्रशासनस्य मुख्यकार्यालये भवन्ति । जलबन्धात् यस्मिन् स्थले जलं पतति, तस्य स्थलस्य पुर एव अतिरमणीयम् उद्यानम् अस्ति । तत् उद्यानं यात्रिकाणाम् आकर्षणकेन्द्रमस्ति । तस्मात् जलबन्धात् दुग्धवत् पतत् जलं उद्यानस्य वातावरणं सुरम्यं करोति । तत् पतज्जलं प्रकृत्याः अलौकिकतायाः, मानवस्य विकासशीलतायाः च प्रतीकत्वेन यात्रिकाणां ध्यानम् आकर्षयति । तत्र कश्चित् तडागः अपि अस्ति । तस्मिन् तडागे नौकाविहारस्य व्यवस्था अस्ति । अतः तत्स्थलमपि यूनां, बालकानां च कृते मनोरञ्जनस्य केन्द्रम् अस्ति । विद्यार्थिभ्यः प्रकृतिशिक्षणस्य शिबिराणि अपि जलबन्धस्य समीपं सन्ति । विद्यार्थिभ्यः वनभ्रमणमाध्यमेन प्रकृतिशिक्षणं प्राप्तुं तत् उत्तमस्थिलमस्ति ।

प्रकृत्याः अलौकिकशान्ते वातावरणे भगवतः नाम भक्ताय हृदयाह्लादं यच्छति । अतः केचन प्रवासिनः तु शिवदर्शनाय अपि तत्र गच्छन्ति । तत्र सुरपाणेश्वरनामकं प्राचीनं शिवमन्दिरं जलबन्धस्य पृष्ठभागे अस्ति । जलबन्धस्य ध्वन्यां, हरितवृक्षैः आच्छादनयुक्तवातावरणे शिवमन्दिरस्य आभा देदीप्यते ।

कृषकाः, नदीतटवर्तिजनाः, अभियन्तारः, विद्युतः उत्पादकाः, कर्मकराः, श्रमजीविनः, संशोधकाः, पर्यावरणप्रेमिणः, पर्यटकाः, विद्यार्थिनः, भक्तारः, नेतारः सर्वे सरदार-सरोवरजलबन्धस्य लाभार्थिनः सन्ति । एतादृशस्य रमणीयस्थलस्य दर्शनं कृत्वा भवता अपि लाभान्वितं भवितव्यम् ।

सरदारसरोवरजलबन्धस्य एकं हृदयारामं दृश्यम्

मार्गाः

[सम्पादयतु]

नर्मदानदी गुजरातराज्यस्य नर्मदामण्डले प्रवहन्ती भरुचमण्डलस्य समीपवर्तिसमुद्रे लीना भवति । अतः तत्र गन्तुं बहवः मार्गाः सन्ति । सर्वेषु मार्गेषु अनेकानि वीक्षणीयस्थलानि, धार्मिकस्थलानि च सन्ति ।

वायुमार्गः

[सम्पादयतु]

सरदार-सरोवरजलबन्धात् कर्णावती-महानगरस्य अन्ताराष्ट्रियविमानस्थानकं २०० कि.मी., वडोदरा-महानगरस्य राष्ट्रियविमानस्थानकं ९० कि.मी. दूरमस्ति ।

भूमार्गः

[सम्पादयतु]

सरदारसरोवरजलबन्धः अहमदाबाद-महानगरात् २०० कि.मी., वडोदरा-महानगरात् ९० कि.मी., भरुच-नगरात् ९० कि.मी. दूरम् अस्ति । उक्तमहानगरेभ्यः, राजपीपळा-पत्तनात् , चाणोद-ग्रामत्, डभोई-ग्रामात् अपि सरदार-सरोवरजलबन्धं प्राप्तुं बस्-यानानि लभ्यन्ते ।

रेलमार्गः

[सम्पादयतु]

भारतस्य विभिन्नेभ्यः नगरेभ्यः भरुच-नगराय रेलयानानि सन्ति । ततः भूमार्गेण सरदारसरोवरजलबन्धं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सरदार वल्लभभाई पटेल

जवाहरलाल नेहरु

नरेन्द्र मोदी

नर्मदानदी

एकतामूर्तिः

बाह्यानुबन्धः

[सम्पादयतु]
  1. "Pumped-Storage Hydroelectric Plants - Asia-Pacific". IndustCards. आह्रियत 20 January 2012. 
"https://sa.wikipedia.org/w/index.php?title=सरदारसरोवरजलबन्धः&oldid=486199" इत्यस्माद् प्रतिप्राप्तम्