मोढेरा सूर्यमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मोढेरा सूर्यमन्दिरम्
मोढेरा सूर्यमन्दिरस्य नामपटः
मोढेरा सूर्यमन्दिरस्य नामपटः
मोढेरा सूर्यमन्दिरम्

मोढेरा सूर्यमन्दिरम् (गुजराती: સૂર્યમંદિર, મોઢેરા, आङ्ग्ल: Sun Temple, Modhera) अहमदाबाद् इत्यस्मात् महानगरात् १०६ कि.मी. दूरे अत्यद्भुतः, सुन्दरः सूर्यदेवालयः अस्ति । एषः सोलङ्कीवंशीयानां राज्ञां सृष्टिविशेषः अस्ति । गुजरातराज्यस्य 'कोनार्क' इति अयं देवालयः प्रसिद्धः अस्ति । एतं देवालयं प्रथमं भीमदेवः निर्मापितवान् । १०२७ तमे वर्षे एतस्य मन्दिरस्य निर्माणमभवत् । अस्य देवालयस्य बाह्यभागः सुन्दरशिल्पैः समृद्धः अस्ति । प्रातःकाले सूर्यकिरणाः गर्भगृहे स्थितस्य सूर्यविग्रहस्य उपरि पतन्ति । देवालयस्य अर्धभागः नष्टः अस्ति । सोमनाथदेवालयस्य इव अत्रापि मोहम्मद् गझनी आक्रमणम् आसीत् । एतत् आक्रमणम् एव अस्य नाशस्य कारणमस्ति । अत्र सूर्यदेवालयेन साकं मातङ्गी (अथवा मोढेश्वरी)-देवालयोऽपि अस्ति । रामकुण्डं क्रमेण विरचितम् अस्ति ।

वाहनमार्गः[सम्पादयतु]

अहमदाबाद् इत्यस्मात् महानगरात् १०६ कि.मी. दूरे इदं मन्दिरं तिष्ठति । मन्दिरं गन्तुम् उत्तमः वाहनसम्पर्कः अस्ति । वसतिव्यवस्थाऽपि अत्र शक्या अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

मेहसाणाधूमशकटनिस्थानतः ४० कि.मी. दूरे इदं मन्दिरम् अस्ति ।

विमानमार्गः[सम्पादयतु]

अहमदाबाद् महानगरे विमाननिस्थानम् अस्ति । ततः वाहने मन्दिरं गन्तव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=मोढेरा_सूर्यमन्दिरम्&oldid=391526" इत्यस्माद् प्रतिप्राप्तम्