एकतामूर्तिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एकतामूर्तिः
એકતામૂર્તિ
—  Statue of Unity  —
एकतामूर्तिः is located in Gujarat
एकतामूर्तिः
Coordinates: 21°50′16″N 73°43′8″E / 21.83778°N 73.71889°E / 21.83778; 73.71889
देशः  भारतम्
राज्यम् गुजरातराज्यम्
कस्य मूर्तिः एषा एकतामूर्तिः? सरदार वल्लभभाई पटेल
नगरम् भरुच
प्रकल्पविस्तारः १९,५००
एकतामूर्तेः औन्नत्यम् १८१ मी.
जालस्थानम् http://www.statueofunity.in/
'भारतीयैकतायाः प्रतीकस्य लोहपुरुषस्य मूर्तिः एकतामूर्तिः'

एकतामूर्तिः अर्थात् स्टेच्यू ओफ यूनिटि (गुजराती: સ્ટેસ્યૂ ઑફ્ યૂનિટિ, आङ्ग्ल: Statue of Unity, हिन्दी: स्टेच्यू ऑफ् यूनिटि) गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः (project) अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः (१९२८), अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः ।

एकतामूर्तिप्रकल्पे लोहपुरुषस्य १८२ मी. उन्नतमूर्तेः निर्माणस्य योजना (planning) अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् ३.२ कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिःभारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके (Sadhu island of Narmada River) द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति ।

एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः (a bridge connecting the statue on Sadhu island to the bank), सरदार-स्मारकः, अभ्यागतभवनानि (buildings for visitors), स्मारकोद्यानम्, अतिथिभवनं (a five star hotel), सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् ।

एकतामूर्तिप्रकल्पाय रदार ल्लभभाई टेल राष्ट्रियैकतासंस्थायाः – सवपरास (Sardar Vallabhbhai Patel Rashtriya Ekta Trust - SVPRET) गुजरातसर्वकारेण स्थापना कृता अस्ति ।

निर्माणम्[सम्पादयतु]

२०१० तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा कृता । आधारसहितमूर्तेः औन्नत्यम् आहत्य २४० मी. भविष्यति । उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य १९,५०० च.कि.मी. अस्ति । तत्र १८२ मी. उन्नता एकतामूर्तिः, ५८ मी. उन्नतः मूर्त्याधारः च भविष्यति । एतत् सम्पूर्णं निर्माणं सारलोहेन (with steel) क्लृप्तं (prepared) भविष्यति । जलरक्षकेन वज्रचूर्णेन (reinforced cement concrete) एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणं भविष्यति । सम्पूर्णस्य निर्माणस्य आवेष्टनं (coating) कांस्य(bronze)धातुना भविष्यति ।

एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन (supervisors) दायित्वं वहिष्यतः । तौ Michel Graves and Associates, Meinhardt Group स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः ५६ मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं १२५५ सप्ताहाः अर्थात् चतुर्विंशतिः (२४) वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः २०६३ कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण २०१२-१३ वर्षे १०० कोटिरूप्यकं मानधनं प्रदत्तमस्ति ।

२०१३ तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे (३१) दिनाङ्के, लोहपुरुषस्य १३८ तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् । शिलान्यासानन्तरं एल. के. अडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लोहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, २०१४ तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंषति(२६)तमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति ।

एकतामूर्तिनिर्माणे वैशिष्ट्यम्[सम्पादयतु]

चित्रम्:Statue Of Sardar Vallabhbhai Patel (The Statue of Unity).webm
एकतामूर्तिः (स्टेच्यू ओफ यूनिटि)

लोहपुरुषः कृषकपुत्रः आसीत् । तेन आजीवनं कृषकाणां हितचिन्तनं कृतम् । बारडोली-बोरसद-खेडा-सत्याग्रहाः तत्र प्रत्यक्षोदाहरणानि सन्ति । तस्य सम्पूर्णं जीवनं भारताय, कृषकेभ्यः च समर्पितमसीत् । अतः ये कृषकाः तस्मै श्रद्धाञ्जलिं दातुम् इच्छन्ति, ते लोहनिर्मितं कृषिसाधनं मूर्तिनिर्माणार्थं दानं कर्तुं शक्नुवन्ति । कृषकाणां सारल्यं भवेदिति (रदार ल्लभभाई टेल राष्ट्रियैकता संस्था) – सवपरास इत्यनया भारतस्य सर्वेषु राज्येषु केन्द्राणि स्थापितानि सन्ति । तेषु केन्द्रेषु लोहेन निर्मितानि कृषिसाधनानि स्वीक्रियन्ते । सवपरास इत्यनया लोहस्वीकरणस्य कार्यं ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ इति प्रसिद्धमस्ति । सवपरास इतीयं संस्था आहत्य ५००० मेट्रिक टन लोहं सङ्ग्रहिष्यति ।

सवपरास इत्यनया संस्थया जनसामान्येभ्यः सुराज्यस्य (Good Governance) विचाराः अपि स्वीक्रियन्ते । कोऽपि लोह-दाता, अन्यजनो वा सुराज्यस्य सञ्चालं कथं भवेत् इतीमं विचारं सर्वकारसम्मुखं प्रस्थापयितुम् इच्छति चेत् सः “सुराज-याचिकायां (Suraaj Petition)” स्वविचारान् लिखित्वा केन्द्रस्थाय कार्यकर्त्रे दातुं शक्नोति । एवं २० कोटिजनाः सुराजयाचिकाः दास्यन्ति इति अनुमानमस्ति । तासां सुराजयाचिकानां सङ्कलनं विश्वस्य बृहत्तमा हस्ताक्षरिता याचिका भविष्यति ।

‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ अन्तर्गतायाः ‘रन फोर यूनिटि’ इत्यस्याः धावनप्रतियोगितायाः आयोजनं २०१३ तमस्य वर्षस्य 'दिसम्बर'-मासस्य १५ दिनाङ्के भारतस्य विभिन्नेषु नगरेषु कृतमासीत् । तस्यां प्रतियोगितायां सहस्रशः जनाः भागम् अवहन् ।

समस्याः[सम्पादयतु]

१ यदा ‘साधुद्वीपः’ एकतामूर्ति-प्रकल्पस्य निर्माणस्थलत्वेन निर्धारितः, तदा बहवः स्थानिकाः विरोधमकुर्वन् । तेषां कथनमासीत् यत्, "अत्र वरता बाबा नामकः कश्चन साधुः वसति स्म । तस्य वासः अत्र आसीदतः अस्य स्थलस्य नाम 'वरता बाबा टेकरी' इति जनाः वदन्ति । जनानां तेन द्वीपेन सह धार्मिकभावना सल्लग्ना अस्ति । अतः अत्र निर्माणकार्यं भवितुं नार्हति" ।

२ केन्द्रसर्वकाराय पत्रं प्रषयित्वा पर्यावरणविभागेन आक्षेपः कृतः, “पर्यावरणविभागेन सह परामर्शं विनैव अस्य प्रकल्पस्य अनुमतिः गुजरातराज्यस्य सर्वकारेण दत्ता अस्ति” इति ।

३ केवडीया-कोथी-वघोटिया-लिम्बडि-नवगाम-गोरा-ग्रामाणां जनाः एकतामूर्तिनिर्माणस्य विरोधम् अकुर्वन् । सर्वकाराय या भूमिः दत्ता आसीत्, तस्याः पुनःप्राप्तिं ते इच्छन्ति स्म । गुजरातराज्यस्य सर्वकारेण तेषाम् आवेदनम् अङ्गीकृतम् ।

मार्गाः[सम्पादयतु]

गुजरातराज्यस्य, भारतस्य च विभिन्नेभ्यः नगरेभ्यः एकतामूर्तिस्थलं प्राप्तुं विमान-रेल-बस्-यानानि सन्ति ।

विमानमार्गः[सम्पादयतु]

एकतामूर्तेः समीपतमं विमानस्थानकं सुरत-महानगरे अस्ति । ततः रेलयानेन वा बस् यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-महानगराभ्यां विमानयानानि सुरत-महानगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळुरु-पणजी-आदिनगरेभ्यः विमानयानानि सुरत-महानगराय सन्ति ।

रेलमार्गः[सम्पादयतु]

एकतामूर्तेः समीपतमं रेलस्थानकं भरुच-नगरे अस्ति । ततः बस्-यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः रेलयानानि भरुच-नगराय सन्ति ।

बस्-मार्गः[सम्पादयतु]

एकतामूर्तेः समीपतमं बस्-स्थानकं भरुच-नगरे अस्ति । ततः एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सरदार पटेल

नरेन्द्र मोदी

नर्मदा

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=एकतामूर्तिः&oldid=278145" इत्यस्माद् पुनः प्राप्तिः