राजकोटमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजकोटमण्डलम्
मण्डलम्
गुजरातराज्ये राजकोटमण्डलम्
गुजरातराज्ये राजकोटमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters राजकोट
Area
 • Total ११,२०३ km
Population
 (२०११)
 • Total ३७,९९,७७०
Languages
 • Official गुजराती, हिन्दी
Website rajkot.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

राजकोटमण्डलम् (गुजराती: રાજકોટ જિલ્લો, आङ्ग्ल: Rajkot district) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजकोट इति महानगरम् ।

भौगोलिकम्[सम्पादयतु]

राजकोटमण्डलस्य विस्तारः ११,२०३ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे सौराष्ट्रे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सुरेन्द्रनगरमण्डलं, पश्चिमे जामनगरमण्डलम्, उत्तरे कच्छमण्डलं, दक्षिणे जुनागढमण्डलम्, अमरेलीमण्डलं च अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- भादर, मच्छु, आजी ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं राजकोटमण्डलस्य जनसङ्ख्या ३७,९९,७७० अस्ति । अत्र १९,७५,१३१ पुरुषाः १८,२४,६३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ८२.२०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- १ धोराजी २ गोण्डल ३ जामकण्डोरणा ४ जसदण ५ जेतपुरं ६ कोटडासाङ्गाणी ७ लोधिका ८ मालिया ९ मोरबी १० पडधरी ११ राजकोट १२ टङ्कारा १३ उपलेटा १४ वाङ्कानेर

कृषिः वाणिज्यं च[सम्पादयतु]

कार्पासः, कलायः, आम्रफलं, चिकूफलं, बृहज्जम्बीरं, पपितफलं, पलाण्डुः, लसुनं, जीरकः, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । कलायस्य, पलाण्डोः, गन्धद्रव्याणां च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । 'एञ्जिनियरिङ्ग्', कर्गजं, 'सिरेमिक्स्', क्षीरोत्पन्नानि, 'इलेक्ट्रोनिक्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

गोण्डल-पत्तने स्थितं नौलखा-राजगृहम्

'काबा गान्धि नो डेलो' इत्येतत् १८८०-८१ वर्षे गान्धिना निर्मापितं गृहम् अस्ति । इदं गृहं राष्ट्रियस्मारकत्वेन उद्घोषितम् अस्ति । वाट्सन्-सङ्ग्रहालये पुरातत्वशास्त्रसम्बद्धवस्तूनि, नैकानि प्राचीनवस्तूनि च रक्षितानि सन्ति । १८७० वर्षे निर्मितं राजकुमार-महाविद्यालये अनेकाः राजकुमाराः, राजसुताः, धनिकाः अधीतवन्तः । शक्ति-उद्यानम् ('एनर्जी पार्क्') इत्येतत् जनेषु शक्तिविषयकजागरणार्थं संस्थापितम् अस्ति । 'कम्युनिटि' विज्ञानकेन्द्रं, तारालयः च इत्येतत् कयाचित् 'एन् जी ओ' द्वारा स्थापितम् अस्ति । 'रोटरि'-पुत्तिका-सङ्ग्रहालये भारतस्य गुजरातराज्यस्य च सांस्कृतिकाः, पारम्परिकाः च पुत्तिकाः सङ्गृहीताः सन्ति । मुक्तिधाम, रामकृष्णमन्दिरं, स्वामिनारायणमन्दिरम्, आजी-जलबन्धः ('आजी ड्याम्') च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।




बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=राजकोटमण्डलम्&oldid=458258" इत्यस्माद् प्रतिप्राप्तम्