जूनागढमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जुनागढमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
जुनागढमण्डलम्

Junagadh district

જુનાગઢ જિલ્લો
मण्डलम्
गुजरातराज्ये जुनागढमण्डलम्
गुजरातराज्ये जुनागढमण्डलम्
देशः  India
विस्तारः ८,८४६ च.कि.मी.
जनसङ्ख्या(२०११) २७,४२,२९१
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website junagadh.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)


जुनागढमण्डलम् (गुजराती: જુનાગઢ જિલ્લો, आङ्ग्ल: Junagadh district) इत्येतत् गुजरातराज्यस्य एकं प्रमुखं जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जुनागढ इति नगरम् । अस्मिन् मण्डले तिष्टति गीर अभयारण्यम्, सोमनाथः च ।

भौगोलिकम्[सम्पादयतु]

जुनागढमण्डलस्य विस्तारः ८,८४६ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे अमरेलीमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ७८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- ओजत, उबेण, हिरणः, रावल, मधुवन्ती, मच्छुन्द्री ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जुनागढमण्डलस्य जनसङ्ख्या २७,४२,२९१ अस्ति । अत्र १४,०४,५०६ पुरुषाः १३,३७,७८५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ७६.८८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- १ भेसाण २ जुनागढ ३ केशोद ४ कोडीनार ५ मालिया ६ माणावदर ७ माङ्गरोल ८ मेदरडा ९ सूत्रापाडा १० तलाला ११ उना १२ वथली १३ वेरावलं १४ विसावदर

कृषिः वाणिज्यं च[सम्पादयतु]

गोधूमः, कलायः, कार्पासः, आम्रफलं, कदलीफलं, पलाण्डुः, वृन्ताकं, लसुनं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य, लसुनस्य च उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । धान्योत्पादने अस्य मण्डलस्य चतुर्थं स्थानम् अस्ति । कृषिः, 'सिमेण्ट्', मत्स्यसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

गीर अभयारण्यम् अस्य मण्डलस्य प्रमुखं, प्रसिद्धं च वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले विद्यमानः सोमनाथः तु पुण्यक्षेत्रम् अस्ति । अत्र सोमनाथमन्दिरम् अस्ति द्वादश ज्योतिर्लिङ्गेषु सोमनाथ नामकं प्रथमं ज्योतिर्लिङ्गममस्मिन्नेव जनपदे वर्तते। गिरनारपर्वतः गुजरातराज्यस्य उन्नततमः पर्वतः वर्तते । अस्मिन् पर्वते अनेकानि हिन्दूमन्दिराणि, जैनमन्दिराणि च सन्ति, प्रमुख मन्दिर तु सर्वोपरि अम्बा मातया अस्ति । अतः यात्रिकाणाम् इदं प्रमुखं वीक्षणीयस्थलम् अस्ति । सासणगीर-तः ५० किलोमीटर्दूरे विद्यमानं कङ्काईमातामन्दिरम् अपि वीक्षणीयस्थलम् अस्ति । तालाला इति प्रदेशः, तं परितः विद्यमानः प्रदेशश्च केसरनाम्नः आम्रफलाय प्रसिद्धः अस्ति । इदमपि एकं वीक्षणीयस्थलम् अस्ति । कुतियाण इत्येतत् यवनानां यात्रास्थलम् अस्ति । तुलसीश्याम-मन्दिरम् अपरं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जूनागढमण्डलम्&oldid=458251" इत्यस्माद् प्रतिप्राप्तम्