सामग्री पर जाएँ

जूनागढ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जुनागढ इत्यस्मात् पुनर्निर्दिष्टम्)
जुनागढ

જૂનાગઢ
नगरम्
Skyline of जुनागढ
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् जुनागढ
Government
  Body Junagadh Municipal Corporation
  Mayor Mr. Lakhabhai Parmar
  Municipal Commissioner Ms. Vipra Bhal
  Member of Legislative Assembly Mr. Mahendra Mashru
Area
  Total ५९ km
Elevation
१०७ m
Population
 (2011)
  Total ३,२०,२५०
  Density ५,४००/km
भाषाः
  अधिकृताः गुजराती, हिन्दी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
पिन्
362 00X
Telephone code 0285
Vehicle registration GJ-11
Civic agency Junagadh Municipal Corporation
Website www.junagadhmunicipal.org
अशोकस्य शिलाशासनम्
दामोदरकुण्डतः दृश्यमानः गिरनारपर्वतः

गुजरातराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति जुनागढमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति जुनागढ (गुजराती: જુનાગઢ, आङ्ग्ल: Junagadh) इति नगरम् ।

इतिहासः

[सम्पादयतु]

अस्य नगरस्य ऐतिहासिकं महत्वं वर्तते । प्रख्यातस्य भक्तवर्यस्य श्रीनरसिंहमहेतामहोदयस्य प्रदेशः अयम् । इतिहासे गिरनार, देवगिरिः इत्यादिभिः नामभिः प्रसिद्धमासीत् इदं नगरम् । गान्धेः अतिप्रियं 'वैष्णवजनतो'गीतं श्रीनरसिंहमहेतामहोदयेन लिखितमस्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

जैनानां पुण्यक्षेत्रमिदं रेवतिगिरिः इति प्रख्यातम् । मौर्यराजस्य अशोकस्य कालतः अपि जुनागढनगरं ख्यातमस्ति । अत्र अनेकानि मुसल्मानप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं, आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागढ-मृगालयः, सकरबाग्-सङ्ग्रहालयः, दरबारसङ्ग्रहालयः च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि, किरीटानि, शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरूपेण वसति इति वदन्ति । गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तिनः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्दगुप्तेन निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति । गिरनारपर्वते दामोदरकुण्डः इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलाभिः निर्मितानि सन्ति । अमृतशिलानिर्मिताः ५ जैनदेवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः तु त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बामातादेवालयः अपि अस्ति । नवविवाहिताः सुखजीवनाय तत्र गत्वा देवीं प्रार्थयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=जूनागढ&oldid=333237" इत्यस्माद् प्रतिप्राप्तम्