जूनागढ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जुनागढ

જૂનાગઢ
नगरम्
Skyline of जुनागढ
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् जुनागढ
Government
 • Body Junagadh Municipal Corporation
 • Mayor Mr. Lakhabhai Parmar
 • Municipal Commissioner Ms. Vipra Bhal
 • Member of Legislative Assembly Mr. Mahendra Mashru
Area
 • Total ५९ km
Elevation
१०७ m
Population
 (2011)
 • Total ३,२०,२५०
 • Density ५,४००/km
भाषाः
 • अधिकृताः गुजराती, हिन्दी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
पिन्
362 00X
Telephone code 0285
Vehicle registration GJ-11
Civic agency Junagadh Municipal Corporation
Website www.junagadhmunicipal.org
अशोकस्य शिलाशासनम्
दामोदरकुण्डतः दृश्यमानः गिरनारपर्वतः

गुजरातराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति जुनागढमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति जुनागढ (गुजराती: જુનાગઢ, आङ्ग्ल: Junagadh) इति नगरम् ।

इतिहासः[सम्पादयतु]

अस्य नगरस्य ऐतिहासिकं महत्वं वर्तते । प्रख्यातस्य भक्तवर्यस्य श्रीनरसिंहमहेतामहोदयस्य प्रदेशः अयम् । इतिहासे गिरनार, देवगिरिः इत्यादिभिः नामभिः प्रसिद्धमासीत् इदं नगरम् । गान्धेः अतिप्रियं 'वैष्णवजनतो'गीतं श्रीनरसिंहमहेतामहोदयेन लिखितमस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

जैनानां पुण्यक्षेत्रमिदं रेवतिगिरिः इति प्रख्यातम् । मौर्यराजस्य अशोकस्य कालतः अपि जुनागढनगरं ख्यातमस्ति । अत्र अनेकानि मुसल्मानप्रार्थनामन्दिराणि सन्ति । तानि जामीमसीदि, नूरिषहस्मारकं, आदिचादि इत्यादीनि । अत्र समीपे १५०० वर्षप्राचीनाः बौद्धगुहाः सन्ति । जुनागढ-मृगालयः, सकरबाग्-सङ्ग्रहालयः, दरबारसङ्ग्रहालयः च दर्शनीयानि सन्ति । अत्र विद्यमानानि दीपगुच्छानि, किरीटानि, शिबिकाः च अतीव सुन्दराणि सन्ति । भगवान् दत्तात्रेयः शिखरे अदृश्यरूपेण वसति इति वदन्ति । गिरनारगिरिदेवालयस्य मार्गे क्रिस्तपूर्वतनस्य २५० वर्षीयप्राचीनं अशोकचक्रवर्तिनः शासनमस्ति । आहत्य अत्र १४ शासनानि सन्ति । रुद्रधाम्नि अपि मौर्यराजेन स्कन्दगुप्तेन निर्मितं शासनम् अस्ति । जुनागढतः ४ कि.मी दूरे एतानि शासनानि सन्ति । गिरनारपर्वते दामोदरकुण्डः इति किञ्चन तीर्थम् अस्ति । पर्वतारोहणाय १०,००० सोपानानि शिलाभिः निर्मितानि सन्ति । अमृतशिलानिर्मिताः ५ जैनदेवालयाः अत्र सन्ति । तेषु नेमिनाथदेवालयः अतिविशालः अस्ति । कृष्णशिलया नेमिनाथमूर्तिः निर्मिता अस्ति । मल्लिनाथदेवालयः तु त्रिवलिदेवालयः अस्ति । गिरिशिखरे अम्बामातादेवालयः अपि अस्ति । नवविवाहिताः सुखजीवनाय तत्र गत्वा देवीं प्रार्थयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=जूनागढ&oldid=333237" इत्यस्माद् प्रतिप्राप्तम्