सामग्री पर जाएँ

गिरनारपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गिरनारपर्वतः
गुजरातराज्यस्य उन्नततमः पर्वतः
Girnar
रूपायतन-तः गिरनारपर्वतस्य दृश्यम्
उत्तुङ्गता १,०३१ m (३,३८३ ft)
स्थानम्
स्थानम् भवनाथः, जुनागढ,  भारतम्
Coordinates २१°२९′४१″ उत्तरदिक् ७०°३०′२०″ पूर्वदिक् / 21.49472°उत्तरदिक् 70.50556°पूर्वदिक् / २१.४९४७२; ७०.५०५५६निर्देशाङ्कः : २१°२९′४१″ उत्तरदिक् ७०°३०′२०″ पूर्वदिक् / 21.49472°उत्तरदिक् 70.50556°पूर्वदिक् / २१.४९४७२; ७०.५०५५६

गिरनारपर्वतः ( /ˈɡɪrənɑːrəpərvətəh/) (गुजराती: ગિરિનાર પર્વત, आङ्ग्ल: Girnar) गुजरातराज्यस्य पश्चिमभागे जुनागढमण्डले अस्ति । गुजरातराज्यस्य उन्नततमः पर्वतः गिरनारपर्वतः पञ्चशिखराणि स्वस्मिन् धरति । तानि - गोरखशिखरम्, अम्बाजीशिखरम्, गोमुखशिखरम्, जैनमन्दिरशिखरम्, माळीपरबशिखरम् च । एतानि शिखराणि क्रमेण ३३०० मी., ३६०० मी., ३१२० मी., ३३०० मी., १८०० मी. च उन्नतानि सन्ति । अस्य पञ्चशिखरेषु ८६६ मन्दिराणि सन्ति । प्रस्तरैः निर्मितः सोपानमार्गः एकस्मात् शिखरात् अन्यत् शिखरं प्रति सम्प्रापयति । एवं प्रसिद्धिरस्ति यत् तत्र ९,९९९ सोपानानि सन्ति । परन्तु सोपानसङ्ख्याविषये बहूनां जनानां मान्यता भिन्नापि श्रूयते । प्रतिवर्षं गिरनारपर्वतप्रदक्षिणार्थं लक्षाधिकाः भक्ताः गच्छन्ति । प्रतिवर्षं तत्र गिरनारारोहणस्पर्धा अपि भवति ।

इतिहासः

[सम्पादयतु]

सौराष्ट्रे मौर्यवंशस्य इतिहासः उज्ज्वलः अस्ति । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा अत्र स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । कालांशे अत्र अनेकैः राजभिः राज्यं कृतम् । तेषु राज्ञा कुमारपाळेन गिरनारारोहणाय व्यवस्थितानि सोपानानि ई.स. १५५२ मध्ये निर्मापितानि । अत्र 'उपरकोट'स्थलस्य दुर्गः अपि दर्शनीयं स्थलमस्ति । 'उपरकोट'स्थलस्य दुर्गः राज्ञा ग्रहरिपुणा निर्मितः । एषः दुर्गः बहु सत्तापरिवर्तनं दृष्टवान्, तद्विषये सर्वोत्कृष्टा वा रोचकी कथा वर्तते यद् उपरकोटस्य दुर्गे यदा राज्ञः राखेङ्गारस्य शासनम् आसीत्, तदा सिद्धराजजयसिंहः राखेङ्गारं हत्वा तस्य राज्ञीं राणकदेवीं बलेन हृत्वा गच्छन् आसीत् । तस्मिन् समये राणकदेवी गिरनारपर्वतं उक्तवती –

ગોઝારા ગિરનાર, વળામણ વેરીને કિયો ?

મરતા રા'ખેંગાર, ખડેડી ખાંગો ન થિયો ?

अर्थात् - हे गिरनारपर्वत ! शत्रूणामाक्रमणे राखेंगारः मृतः तथाऽपि त्वं न पतितः ? एतद् श्रुत्वा गिरनारपर्वतस्य पतनमारब्धम् ।

गिरनारपर्वतं पतन्तं दृष्ट्वा राणकदेवी उक्तवती –

પડમા પડમા મારા આધાર

अर्थात् - मा पत, मा पत मे आधार !

तस्मिन्नेव काले पतनं स्थगितं, परन्तु याः शिलाः पतितुम् अनमन्, ताः तत्राद्यापि नमिता एव दृश्यन्ते । 'ऊपरकोट'भागे एताः शिलाः दर्शनीयाः सन्ति ।

गिरनारपर्वतस्त परिक्रमः

[सम्पादयतु]

पर्वतं परितः ३६ कि.मी. परिमितस्य लम्बमानः चतुर्दिनानां परिक्रमः भवति, यः कार्तिकमासस्य शुक्लपक्षस्य एकादशीतः पूर्णिमापर्यन्तं चलति । इयं परिक्रमपरम्परा चिरकालात् साम्प्रति प्रचलन्ती वर्तते । एषा परिक्रमपरम्परा कदा आरब्धा इति तु निश्चितं नास्ति । परन्तु प्रारम्भिके काले केवलं सन्यासिनः एव परिक्रमं कुर्वन्ति स्म । कालान्तरं गृहस्थाः अपि आरभन्त । पूर्वस्मिन् काले केवलं भजनं कुर्वन्तः सर्वे परिक्रमं कुर्वन्ति स्म । परन्तु अधुना मार्गे भोजनादीनामपि व्यवस्था भवति । एतदर्थं सामाजिकसंस्थाद्वारा अन्नक्षेत्राणि अपि चाल्यन्ते ।

रैवतकेति नामान्तरम्

[सम्पादयतु]

द्वारकावासिनां प्रियः पर्वतः आसीत् अयम् । सहस्रशः जनाः एतं पर्वतम् आरुह्य “गिरिमहः” इत्येकं पर्व आचरन्ति स्म इति उक्तम् अस्ति पुराणेसौराष्ट्रस्य दक्षिणभागे आनर्तराज्ये रैवतको नाम पर्वतः अस्ति इति महाभारते उक्तम् अस्ति । आनर्तराज्यस्य युवराजस्य नाम आसीत् रेवतः इति । तस्मात् एव कारणात् अस्य पर्वतस्य नाम “रैवतकः” इति जातं स्यात् । प्राचीनकाले अयं पर्वतः ऊर्जयन्तः, प्रभासः, वस्त्रापथः, पुष्पगिरिः इत्यादिभिः नामभिः निर्दिश्यते स्म । सम्राजः अशोकस्य अपेक्षया अपि पूर्वारभ्य अस्य पर्वतस्य उल्लेखः दृश्यते । जैनमतस्य प्रथमः तीर्थङ्करः ऋषभदेवः अपि अस्य पर्वतस्य उल्लेखं कृतवान् अस्ति । जरासन्धस्य पीडया श्रान्ताः यादवाः मथुरां परित्यज्य द्वारकां निर्मितवन्तः । तदारभ्य अयं पर्वतः यादवानां लीलाभूमिः अभवत् ।

स्कन्दपुराणस्य प्रभासखण्डानुसारं परमेश्वरः यदा दैत्येभ्यः वरान् प्राददात्, तदा ब्रह्मा परमशिवस्य निन्दनम् अकरोत् । तेन दुःखितः परमशिवः गुप्तरूपेण कैलासतः गिरनारम् अगच्छत् । पार्वत्याः सङ्गीतेन मुग्धः परमशिवः देवतानाम् आग्रहेण कैलासं प्रतिगतवान् । परन्तु पार्वतीसहितं पर्वतेऽस्मिन्नेव विसिष्यामि इति शिवः अवदत् । अतः एतत् किञ्चित् शक्तिपीठम् अपि ।

श्रीकृष्णस्य काले अन्या काचित् घटना प्रवृत्ता अत्र । तीर्थयात्राव्याजेन अर्जुनः अत्र आगतः । अत्रैव श्रीकृष्णस्य मार्गदर्शनानुसारं बलरामस्य इच्छायाः विरुद्धं सुभद्राम् अपहृत्य ऊढवान् अर्जुनः । १८ धर्माज्ञायुक्तम् ऐतिहासिकं प्रसिद्धम् अशोकस्य शिलाशासनम् अत्र प्राप्तम् अस्ति । रुद्रदामनामा (क्रि.श.१५०) अत्रत्यं सुदर्शनसरोवरं समीकारितवान् इति अन्यस्मिन् शिलाशासने उल्लिखितम् अस्ति । अपरस्मिन् शिलाशासने स्कन्दगुप्तस्य काले (क्रि.श.४५६) तस्य सरोवरस्य समीकरणं कृतम् इति उल्लिखितम् अस्ति । अस्य सरोवरस्य निर्माणं चन्द्रगुप्तमौर्यः अकरोत् इति । हिन्दुसमाजस्य सर्वेषाम् अपि मतानां सङ्गमस्थानम् अयं पर्वतः । किन्तु तेषु अधिकांशाः जैनावलम्बिनः यात्रिकाः एव । जैनशास्त्रस्य अनुसारं जैनानां पवित्रक्षेत्रस्य शत्रुञ्जयपर्वतस्य यात्राफलं प्राप्यते गिरिनारस्य दर्शनेन एव । जैनमतस्य २२तमस्य तीर्थङ्करस्य निर्वाणं सञ्जातम् अस्मिन् एव पर्वते । अतः एतत् जैनतीर्थम् इत्येव मन्यते ।

अस्मिन् पर्वते आहत्य २१ शिखराणि सन्ति । तेषु अम्बिका, गोरखी, नेमीनाथः, गुरुः, कालिका इत्येतानि प्रसिद्धानि । अस्य पर्वतस्य आरोहणार्थं त्रिसहस्राधिकानि सोपानानि सन्ति । आरोहणावसरे प्रथमं प्राप्यते दातारशिखरम् । तत् शिखरं “जलस्रोतशिखरम्” इत्यपि वदन्ति । अत्र कश्चन जलस्रोतः अस्ति । तस्य स्रोतसः जलं चर्मरोगनिवारकम् इति विश्वासः अस्ति । अस्य पार्श्वे एव ब्रह्मणः यज्ञस्थानम् अस्ति । तत्रैव ब्रह्मणा निर्मितः बाघेश्वरीसरोवरः अस्ति । अग्रिमं शिखरम् अस्ति अम्बादेव्याः (अम्बिका) । एतदपि किञ्चन शक्तिपीठम् अस्ति । अत्र सौराष्ट्रस्य सर्वस्यापि कुटुम्बस्य नवोढौ वधूवरौ देव्याः दर्शनार्थम् आगच्छतः एव ।

अग्रे लभ्यते गोरखशिखरम् (गोरक्षनाथः) । एतत् अत्यन्तम् उन्नतं शिखरम् {३६६६ पादमितम्=१०९० मीटरः (आसन्नः)} । एषा गोरखनाथस्य तपोभूमिः । गुरुशिखरं दत्तात्रेयस्य तपोभूमिः । तत्र दत्तात्रेयस्य पादुका अस्ति । अस्मिन् एव शिखरे निरञ्जनरघुनाथः, किनाराम-अघोरी, नारायणः, जालवणकरः इत्यादयः दत्तोपासकाः दत्तसाक्षात्कारं प्राप्नुवन् । गुरु-गोरखनाथशिखरयोः मध्ये अस्ति नेमीनाथशिखरम् । एतत् नेमीनाथस्य निर्वाणस्थानम् । अत्र नेमीनाथस्य पदचिह्नम् अपि अस्ति । अत्रत्ये मन्दिरे नेमीनाथस्य सालिग्रामशिलया निर्मितः विग्रहः अस्ति । अस्य शिखरस्य चन्द्रगुहायाम् एव जैनाचार्यः धरसेनः शिष्यौ भूतबलिं पुष्पदन्तं च “षट्खण्डागमम्” अबोधयत् । जैनागमग्रन्थानां रचना अपि इतः एव आरब्धा ।

अस्मिन् पर्वते गोमुखं, हनुमद्धारा, दामोदरकुण्डं, रेवती इत्यादीनि पवित्रकुण्डानि सन्ति । तेषु पितॄणाम् अस्थिविसर्जनं कुर्वन्ति । एतं पर्वतं प्रति जुनागढद्वारा अपि गन्तुं शक्यते । यादवानां क्रीडाभूमिः, ऋषिमुनीनां तपोभूमिः च अयं पर्वतः । अशोकेन, हर्षेण, कर्णेन, रुद्रदाम्ना, स्कन्दगुप्तेन इत्यादिभिः राजर्षिभिः पूजितानां देवानां कृष्णस्य, बलरामस्य, शिवपार्वत्योः, श्रीहरेः ब्रह्मणः च सान्निध्यम् इति विश्वसताम् अस्माकं प्रातःस्मरणीयः पर्वतः अयं रैवतकः ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सौराष्ट्रम्

मौर्यवंशः

चन्द्रगुप्तः

जैनमतम्

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=गिरनारपर्वतः&oldid=389618" इत्यस्माद् प्रतिप्राप्तम्