मगधः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मगधं पूर्वभारते एकं राज्यं आसीत्‌ । मगधदेशः षोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदेश: मगधदेश: आसीत् । तस्य द्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ स्त: । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्योतिषं धर्म: इत्येतेषां शास्त्राणां विकास: अभवत् ।

मगधमहाजनपदः क्री.पू ४००-५००

भूगोलाधारः[सम्पादयतु]

मगधदेशे अद्यतने पट्ना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म। अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत्।

इतिहासः[सम्पादयतु]

एष प्रदेश: एव बौद्धजैनमतानां जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभेताम्। अस्मिन् देशे एव प्राचीनकाले अत्यन्तं प्रख्यात: नालन्दाविश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म ।

वंशावली[सम्पादयतु]

बृहद्रथवंशः[सम्पादयतु]

अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरोत् ।

प्रद्योतवंशः[सम्पादयतु]

प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् ।

हर्यङ्कवंशः[सम्पादयतु]

हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म। तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।

शिशुनागवंशः[सम्पादयतु]

एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।

नन्दवंशः[सम्पादयतु]

अस्य राज्यस्य संस्थापकः महापद्मनन्दः शिशुनागवंशस्य महानन्दिनः अन्यजातपुत्रोSभवत् । महापद्मनन्दः अष्टाशीतिवर्षाणि यावत् जीवितवान् । नन्दराजाः भारतस्य प्रथमाः साम्राज्यस्थापकाः इति प्रसिद्धाः । अस्य वंशस्य अन्तिमः सम्राट् धननन्दः ।

मौर्य साम्राज्यम्[सम्पादयतु]

अशोकस्य साम्राज्यम्

मौर्यसाम्राज्यं चन्द्रगुप्तमौर्येन प्रतिष्ठापितम् । सः विशालराज्यं प्राशासत । सः कम्भोजपारसिकयवनराज्यान् अपि जितवान् । तस्य पुत्रः बिन्दुसारः आसीत् । तस्य पौत्रः महान् अशोक़ः । कलिङ्गयुद्धानन्तरं अशोकः बौद्धद्धर्मम् अहिंसां च गृहीतवान् । सः शिलाभिलेखनानि अपि स्थापितवान् ।

साञ्ची बौद्धधार्मिकस्थूपः

शुङ्गवंशः[सम्पादयतु]

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान् । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।

कन्ववंशः[सम्पादयतु]

क्रि पू ७५ तमे वर्षे वसुदेवेन कन्ववंशः प्रतिष्ठापितः । इदं राज्यं क्रि.पू २६ तमे वर्षे नष्टम् अभवत् ।

गुप्तवंशः[सम्पादयतु]

गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।

"https://sa.wikipedia.org/w/index.php?title=मगधः&oldid=364342" इत्यस्माद् पुनः प्राप्तिः