पूर्णिमा
दिखावट
भारतीयकालगणनानुगुणं प्रत्येकं मासस्य मध्यकलः पूर्णिमा अथवा पूर्णिमा भवति । शुक्लपक्षस्य चतुर्दश्याः अनन्तरदिवसः एव पूर्णिमा अस्ति । यस्मिन् दिवसे चन्द्रः रात्रौ पूर्णः दृश्यते सा पूर्णिमा तिथिः इति व्यवहारः । भारतीयपर्वदिनानि अनेकानि पूर्णिमासु एव सम्भवन्ति ।
पूर्णिमापर्वाणि
[सम्पादयतु]- चैत्रपूर्णिमायां हनूमज्जयन्ती ।
- वैशाखपूर्णिमायां बुद्धपूर्णिमा ।
- ज्येष्ठपूर्णिमायां वटसावित्रीव्रतम् ।
- आषाढपूर्णिमायां गुरूपूर्णिमा अथवा व्यासपूर्णिमा।
- श्रावणपूर्णिमायां संस्कृतोत्सवः अपि च उपाकर्म रक्षाबन्धनम्
- भाद्रपदपूर्णिमायां उमामाहेश्वरव्रतम् ।
- आश्वीजमासःपूर्णिमायां शरत्पूर्णिमा ।
- कार्तिकपूर्णिमायां पुष्करमेला अपि च गुरुनानकजयन्ती दीपाराधनम् च ।
- मार्गशीर्षपूर्णिमायां श्रीदत्तात्रेयजयन्ती ।
- पुष्यपूर्णिमायां शाकम्भरीजयन्ती।
- माघपूर्णिमायां रविदासजयन्ती अपि च कुम्भमेला
- फाल्गुणपूर्णिमायां होलीपर्व ।