भारतीयपर्वाणि

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

उत्सूते अनेन मानवाः इति उत्सवः। उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः "उत्सवप्रियाः खलु मनुष्याः" (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु पर्व इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे "उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः" इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।

नवरात्रावसरे स्थापिताः पाञ्चालिकाः
प्रज्वालितौ मङ्गलसूचकौ तैलदीपौ
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतङ्गमय ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

इत्येषा सर्वस्य अपि हिन्दुजनस्य प्रार्थना । एतां प्रार्थनां साकारीकर्तुं विभिन्नेषु कालेषु विभिन्नेषु प्रदेशेषु विभिन्नानि पर्वाणि आचरणपथम् आगतानि ।

एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –

धार्मिकपर्वाणि
राष्ट्रियपर्वाणि
जयन्त्युत्सवाः
प्रादेशिकपर्वाणि इति ।
अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – गान्धिजयन्ती, नेहरूजयन्ती (बालदिनम्) इत्यादयः जयन्त्युत्सवाः, स्वातन्त्र्यदिनाचरणं, गणतन्त्रदिनम् इत्यादीनि राष्ट्रियपर्वाणि च ।

हिन्दुधर्मः प्रत्येकमपि जनं कर्मत्रयं बोधयति । नित्यकर्म, नैमित्तिककर्म, काम्यकर्म चेति । नित्यकर्म नाम प्रतिदिनं करणीयं कर्म – उदाहरणार्थं पूजा, प्रार्थना, ध्यानं, सन्ध्यावन्दनम् इत्यादीनि । नैमित्तिककर्म नाम निमित्ते सति करणीयं कर्म – उदाहरणार्थं पर्व, जयन्त्युत्सवादयः च । काम्यकर्म नाम मनसः इच्छापूर्त्यर्थं करणीयं कर्म – उदाहरणार्थं व्रतं, यज्ञयागादिकं च । प्रत्येकम् अपि जनं निरन्तरं सुसंस्कृतं कर्तुं ये वैज्ञानिकाः विचाराः मनःशास्त्रस्य अनुगुणं सन्ति तेषाम् एव आधारेण एते कर्मविचाराः विधिनियमाः अपि रचिताः सन्ति । कारणं विना मधुरं न भुञ्जीत इत्येतं धर्मसूक्ष्मविषयं वाल्मीकिमुनिः रामायणस्य अयोध्याकाण्डे उल्लिखति । महाभारतस्य विधुरनीतिः अपि एतत् एव वदति । यथा –

भगवतः महाविष्णोः दशावताराः'
एकः स्वादु न भुञ्जीत, एकश्चार्थान्न चिन्तयेत् ।
एको न गच्छेदध्वानं, नैकः सुप्तेषु जागृयात् ॥

विभज्य खादनस्य, अन्येभ्यः दानस्य वा पाठः पर्वणाम् आचरणद्वारा बाल्यादेव बालाः पाठयितुं शक्याः । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । राष्ट्रियपर्वणाम् आचरणेन वयं सर्वे भारतीयाः इति ऐक्यं वर्धते । प्रादेशिकादिपर्वणाम् आचरणेन परस्परं स्नेहः वर्धते । धार्मिकपर्वाणि सर्वाणि अपि धर्मबुद्धिं जागरयन्ति । तत्तत्पर्वावसरे निर्दिष्टः कश्चन आहरक्रमः वर्तते । तेन ऋतुकालादिक्रमेण सेव्यमानेन आहारेण दैहिकम् आरोग्यं वर्धते । पर्वावसरे परस्परं बान्धवानां मेलनेन, संलापेन, भजनादिना धार्मिकाचरणेन वा शान्तिः मानसिकारोग्यं च वर्धते ।

अद्य गृहेषु अस्माकं सम्प्रदायान्, सांस्कृतिकानि मौल्यानि, धर्मसूक्ष्माणि च बोधयितारः वृद्धाः न सन्ति । विद्यमानाः गृहिणिगृहस्थाः आर्थिकसम्पादने निरताः । बालाः दूरदर्शन-सङ्गणकादिषु सम्पर्कमाध्यमेषु लीनाः । एवं सति पर्वादीनां पृष्ठभूमिका वा महत्त्वं वा कथं ज्ञायेत बालैः ? अतः अद्यतनजगति पर्वाचरणं स्वादुभक्ष्याणां भोजनेन नूतनवस्त्राणां धरणेन च समाप्यते एव । भक्ष्यवस्त्रादीनि धनं दत्तं चेत् सर्वदा प्राप्यन्ते एव । तर्हि पर्वणः वैशिष्ट्यं किम् ? इति पृष्ठे सति एवम् उत्तरं भवेत् - कृतज्ञतासमर्पणम्, ऋतुकालानुगुणम् आहारक्रमः, बान्धव्यवर्धनं, धार्मिकाचरणं, स्वच्छतारक्षणं चेति बहूनि वैशिष्ट्यानि सन्ति पर्वाचरणस्य । यतः अद्यतनजगति सर्वेपि अत्यन्तं कार्यव्यग्राः भवन्ति । "समयाभावः” इत्येषः शब्दः सदा सर्वेषां मुखात् निस्सरति । अतः पर्वव्याजेन परस्परं बान्धवानां मेलनं भवेत्, गृहस्य तथा पूजावस्तूनां स्वच्छता भवेत्, वर्षे कतिपयवारं वा धार्मिकविधीनाम् आचरणं भवेत्, अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् च । अनेन क्रमेण विस्म्रियमाणा अस्माकं भारतीयसंस्कृतिः पुनः स्मर्येत ।

पाश्चात्त्यसंस्कृतेः प्रभावयुतस्य जीवनस्य कारणात् वयम् अस्माकम् आचरणेषु बहूनाम् आचरणानां विशिष्टानि पदानि वा तेषां पदानाम् अर्थं वा न जानीमः एव । यथा –

१. प्रदक्षिणम् – मनसि देवमेव स्मरन्तः दक्षिणभागतः वामभागं भ्रमणम् ।
२. साष्टाङ्गनमस्कारः – शरीरस्य अष्टौ अपि अवयवाः यथा भूमिं स्पृशेयुः तथा नमस्करणम् ।
३. नैवेद्यम् – देवाय समर्पणयोग्यं किञ्चित् वस्तु पुष्पम्, फलम्, खाद्यम् यत्किञ्चित् ।
४. प्रसादः – देवाय समर्पणानन्तरम् अवशिष्टम् ।
५. तीर्थम् – पवित्रं जलम्
६. पञ्चामृतम्दुग्धं, दधि, घृतं, मधु, शर्करा चेति पञ्चानाम् अमृतसदृशाणां पदार्थानां सम्मिश्रणम् ।
७. पञ्चगव्यम् – गोक्षीर-दधि-घृत-गोमूत्र-गोमयानां मिश्रणम् ।
८. अभिषेकः - देवस्य मङ्गलस्नानम् ।
पूजार्थं सज्जीकृतः मङ्गलकलशः
९. अभिघारम्अन्नस्य, नैवेद्यस्य, होमद्रव्याणां वा उपरि प्रथमं परिवेष्टव्यं घृतम् ।
१०. आपोशनम् – भोजनात् पूर्वं प्राक् च मन्त्रपूर्वकं सेव्यमानं जलम् ।
११. अर्घ्यम् – हस्तप्रक्षालनार्थं दीयमानं जलम् ।
१२. पाद्यम् – पादप्रक्षालनार्थं दीयमानं जलम् ।
१३. हस्तोदकम् – भोजनात् पूर्वं यजमानेन हस्ते स्थापनजलम् ।
१४. अन्नशुद्धिः – ओदनस्य उपरि परिवेष्यमाणं घृतम् ।
१५. पञ्चाङ्गम् – तिथि-नक्षत्र-वार-योग-करणानि च ।
१६. मङ्गलकलशः – व्रत-विवाह-यज्ञ-यागादिषु शुभावसरेषु स्थाप्यमानः जलपूरितकलशः ।
(स्वर्ण-रजत-ताम्र-कांस्य-पित्तल-मृत्तिकायाः वा स्यात् कलशः)
१७. उपवासः – समीपे वासः (देवस्य समीपे इत्यर्थः) ।

पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, स्तोत्राणि वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तचतुर्दशी, श्रावणपूर्णिमा, महालय-अमवास्या च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।

शिवधनुः भञ्जयन् श्रीरामः (राज्ञः रविवर्मणः चित्रम्)
१. चान्द्रमानयुगादिः – चैत्रशुक्लप्रतिपत् ।
२. सौरमानयुगादिः – मेषसङ्क्रमणम् ।
३. श्रीरामनवमी – चैत्रशुक्लनवमी ।
४. महावीरजयन्ती – चैत्रशुक्लत्रयोदशी ।
५. हनुमज्जयन्ती- चैत्रपूर्णिमा ।
६. अक्षयतृतीया – वैशाखशुक्लतृतीया ।
७. नृसिंहजयन्ती – वैशाखशुक्लचतुर्दशी ।
८. बुद्धजयन्ती – वैशाखपूर्णिमा ।
९. गङ्गादशमी – ज्येष्ठशुक्लदशमी ।
१०. वटसावित्रीव्रतम् – ज्येष्ठपूर्णिमा ।
११. प्रथमैकादशी – आषाढशुक्लैकादशी ।
१२. गुरुपूर्णिमा – आषाढपूर्णिमा ।
१३. ज्योतिर्भीमेष्वरपूजा – आषाढ-अमावास्या ।
१४. नागपञ्चमी – श्रावणशुक्लपञ्चमी ।
१५. रक्षाबन्धनम्, संस्कृतोत्सवः – श्रावणपूर्णिमा ।
१६. गोकुलाष्टमी – श्रावणबहुलाष्टमी ।
१७. गौरीतृतीया – भाद्रपदशुक्लतृतीया ।
१८. गणेशचतुर्थी – भाद्रपदशुक्लचतुर्थी ।
१९. महालय-अमवास्या (सर्वपितृ–अमवास्या) – भाद्रपद-अमावास्या ।
२०. नवरात्रम् – आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) ।
२१. विजयदशमी – आश्वयुजशुक्लदशमी ।
२२. नरकचतुर्दशी – आश्वयुजकृष्णचतुर्दशी ।
स्वर्गलोकः तथा यमस्य न्यायालयः
२३. धनलक्ष्मीपूजा – आश्वयुज-अमावास्या ।
२४. दीपावलि:, बलिप्रतिपत् – कार्त्तीकशुक्लप्रतिपत् ।
२५. यमद्वितीया – कार्त्तीकशुक्लद्वितीया ।
२६. उत्थानद्वादशी – कार्त्तीकशुक्लद्वादशी ।
२७. कार्तिकपूर्णिमा, गुरुनानाकजयन्ती – कार्तिकपूर्णिमा ।
२८. सुब्रह्मण्यषष्ठी – मार्गशीर्षशुक्लषष्ठी ।
२९. मार्गशीर्षपूर्णिमा, दत्तजयन्ती – मार्गशीर्षपूर्णिमा ।
लक्ष्मीः (राजा-रविवर्मणः चित्रम्)
३०. तिल-अमावास्या – मार्गशीर्ष-अमावास्या ।
३१. मकरसङ्क्रमणम् – सूर्यस्य धनुराशितः मकरराशिप्रवेशदिनम् ।
३२. श्रीपञ्चमी (वसन्तपञ्चमी) – माघशुक्लपञ्चमी ।
३३. रथसप्तमी – माघशुक्लसप्तमी ।
३४. महाशिवारात्रिः – माघकृष्णचतुर्दशी ।
३५. होलीपर्व – फाल्गुणपूर्णिमा ।
३६. चातुर्मास्यव्रतम् - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
३७. वरमहालक्ष्मीव्रतम् - श्रावणपूर्णिमायाः समीपे विद्यमानः शुक्रवासरः ।

एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । अञ्जलौ प्रासाददर्शनम् इव एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=भारतीयपर्वाणि&oldid=267163" इत्यस्माद् पुनः प्राप्तिः