गौरीतृतीया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गौरिपर्वणि पूज्यमाना गौरी
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

भाद्रपदमासे शुक्लपक्षे तृतीयायां तिथौ एतत् पर्व आचर्यते । व्यवहारे “गौरीपर्व” इति उच्यते चेदपि एतस्य पर्वणः शास्त्रीयं नाम “स्वर्णगौरीव्रतम्” इति । गौरीम् अधिकृत्य “मङ्गलगौरी”, “सम्पद्गौरी”, “सौभाग्यगौरी”, “लावण्यगौरी”, “त्रिलोचनगौरी”, “गजगौरी” इत्यादीनि व्रतानि सन्ति । एतदपि पर्व प्रायः सर्वत्र महिलाभिरेव आचर्यते । “गौरी” इत्येतत् पार्वत्याः एव पर्यायनाम । सा शिवस्य अर्धाङ्गिनी । संहारावसरे सा कृष्णवर्णीया काली, विद्याप्रदानावसरे श्यामलवर्णीया श्यमलाम्बिका । सौभाग्यप्रदानावसरे चम्पकपुष्पवर्णीया (स्वर्णवर्णीया) अथवा शुभ्रहिमवर्णीया । “गौरी” इत्यस्य पदस्य अर्थः एव “गौरवर्णीया” इति । गौरः वर्णः अस्ति अस्याः इति गौरी ।


योगाग्निदग्धदेहा सा पुनर्जाता हिमालये ।
शङ्खेन्दुकुन्दधवला ततो गौरीति सा स्मृता ॥ इत्येव उक्तमस्ति ।

ललिता, उमा, एकपर्णा, अपर्णा, शाकम्भरी, राजराजेश्वरी, त्रिपुरसुन्दरी इत्येतानि सर्वाणि अपि तस्याः एव नामानि । “विद्याकामस्तु गिरिशं दाम्पत्यर्थे उमां सतीम् ।“ (भागवतम् – ३ अध्यायः) इति । अनुरूपस्य पत्युः प्राप्त्यर्थं, शाश्वतं पतिप्रेमप्राप्त्यर्थं, सौमङ्गल्यसिध्यर्थं च गौर्याः पूजां कुर्वन्ति । रुक्मिण्या, गोपिकास्त्रीभिः च पतिरूपेण कृष्णस्य प्राप्त्यर्थं कृता गौरीपूजा पुराणप्रसिद्धा एव । इदानीम् अपि कुत्रचित् विवाहमङ्गलकार्यक्रमे सौभाग्यर्थं गौरीपूजां कारयन्ति ।

भाद्रपदमासे शुक्लपक्षे तृतीयायां तिथौ एतत् व्रतम् आचर्यते । गौरीं स्वर्णविग्रहे, हरिद्रालिप्तकलशे, नद्याः सरोवरतः वा सङ्गृहीतायां मृत्तिकायां वा आवाह्य व्रतम् आचरन्ति । रजतविग्रहः अत्र न अनुमन्यते । स्वर्णधरणेन शरीरे यः प्रभावः सञ्जायते सः एव प्रभावः हरिद्राधरणेनापि सञ्जायते । अतः स्वर्णाभावे हरिद्राविग्रहः योग्यः इति उच्यते । गौरी अपि स्वर्णवर्णा नतु रजतवर्णा । मृत्तिकायां ताम् आवाह्य पूजकाः प्रातः स्नात्वा शुचिर्भूत्वा नदीं सरोवरं वा गत्वा गङ्गापूजां कुर्वन्ति । अनन्तरं तत्रत्यां मृत्तिकां हरिद्रायुक्ते वस्त्रे बध्वा तामेव ग्रन्थिं गौरीं मत्वा षोडशोपचारपूजां कृत्वा मङ्गलवाद्यसहितं गृहम् आनयन्ति । मण्डपे संस्थाप्य प्राणप्रतिष्ठां कृत्वा विसर्जनपर्यन्तं त्रिकालेषु विधिपूर्वकं पूजयन्ति । घण्टानादेन पूजाम् आरभ्य आचमनं, सङ्कल्पं, कलशपूजां, महागणपतिपूजां, स्वर्णगौरीपूजां, देवताप्रतिष्ठापनं च कुर्वन्ति । पुष्पाक्षतैः ताम् आवाह्य रत्नसिंहासनं समर्पयन्ति । नूतनं सूत्रं पूजार्थं स्थापयन्ति । अर्घ्य-पाद्य-मधुपर्क-पञ्चामृतस्नान-शुद्धोदकस्नान-वस्त्राभरण-यज्ञोपवीत-गन्धाक्षताः-कुङ्क्मादीनि मङ्गलद्रव्याणि जगन्मात्रे समर्पयन्ति । देवीम् अङ्गपूजा-पुष्पपूजा-पत्रपूजा-नामपूजादिभिः सम्पूज्य सूत्रस्य १६ ग्रन्थीन् अपि स्वर्णगौरी, महागौरी, कात्यायनी, कौवरी, भद्रा, विष्णुसोदरी, मङ्गलदेवता, राकेन्दुवदना, चन्द्रशेखरप्रिया, विश्वेश्वरपत्नी, दाक्षायणी, कृष्णवेणी, भवानी, लोलेक्षणा, मेनकात्मजा, स्वर्णगौरी इति क्रमेण पूजयन्ति । नैवेद्यार्थं विशेषतया हरिद्रान्नं, मुद्गान्नं च समर्पयन्ति । पूजानन्तरं प्रसादरूपेण तत् सूत्रं धरन्ति । पूजानन्तरं व्रतकथाश्रवणम् अपि कुर्वन्ति ।


उद्यापनकर्तारः गृहस्य पूर्वभागं शुद्धीकृत्य अलङ्कृत्य तत्र मण्डपं निर्माय धान्यादिकं प्रसार्य कलशं स्थापयन्ति । कलशोपरि १६ दलयुक्तकमलचित्रयुक्तं ताम्रपात्रं संस्थाप्य तस्मिन् पार्वतीपरमेश्वरयोः स्वर्णविग्रहौ संस्थाप्य अभिषेकं कृत्वा षोडशोपचारपूजां कुर्वन्ति । रात्रिपूर्णं जागरणं कुर्वन्ति । अपरस्मिन् दिने प्रातः तिल-यव-आज्यैः सङ्कर्षणमन्त्र-गौरीमन्त्रैः हवनं कृत्वा गोदानादिकं कुर्वन्ति । १६ द्विजान्, सुमङ्गलीः च भोजयित्वा आशीर्वादं प्राप्नुवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गौरीतृतीया&oldid=398155" इत्यस्माद् पुनः प्राप्तिः