सामग्री पर जाएँ

मुद्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Mung bean
Mung beans
Mung beans
Dried and opened mung bean pod
Dried and opened mung bean pod
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Vigna
जातिः V. radiata
द्विपदनाम
Vigna radiata
(L.) R. Wilczek
पर्यायपदानि
  • Azukia radiata (L.) Ohwi
  • Phaseolus abyssinicus Savi
  • Phaseolus aureus Roxb.
  • Phaseolus aureus Wall.
  • Phaseolus aureus Zuccagni
  • Phaseolus chanetii (H.Lev.) H.Lev.
  • Phaseolus hirtus Retz.
  • Phaseolus novo-guineense Baker f.
  • Phaseolus radiatus L.
  • Phaseolus setulosus Dalzell
  • Phaseolus sublobatus Roxb.
  • Phaseolus trinervius Wight & Arn.
  • Pueraria chanetii H.Lev.
  • Rudua aurea (Roxb.) F.Maek.
  • Rudua aurea (Roxb.) Maekawa
  • Vigna brachycarpa Kurz
  • Vigna opistricha A.Rich.
  • Vigna perrieriana R.Vig.
  • Vigna sublobata (Roxb.) Babu & S.K.Sharma
  • Vigna sublobata (Roxb.) Bairig. & al.
Vigna radiata - MHNT
हरितमुद्गस्य बीजानि
मुद्गस्य अङ्कुराणि
अङ्कुरितानि मुद्गबीजानि
Vigna radiata

भारते वर्धमानः कश्चन धान्यविशेषः मुद्गः । मुद्गः अपि सस्यजन्यः आहारपदार्थः । अयं मुद्गः आङ्ग्लभाषायां Mung bean अथवा Green Gram इति उच्यते । आहारपदार्थेषु सदापथ्याः भवन्ति केचन आहारपदार्थाः । तन्नाम सर्वदा सेवनार्थं योग्याः इति । तादृशेषु आहारपदार्थेषु “मुद्गः” अपि अन्यतमः । यद्यपि धान्यानि दालाः च वातवर्धकाः, शीतगुणयुक्ताः, मलप्रतिबन्धकाः, वातकराः च तथापि मुद्गः न तावान् वातवर्धकः, मलप्रतिबन्धकः वा । सूपश्रेष्ठः, रसोत्तमः, भुक्तिप्रदः, हयानन्दः, सुफलं, वाजिभोजनम् इत्यादीनि नामानि सन्ति मुद्गस्य । वर्णभेदम् अनुसृत्य मुद्गः पञ्चधा विभक्तः अस्ति । कृष्णमुद्गः, हरितमुद्गः, पीतमुद्गः, श्वेतमुद्गः, रक्तमुद्गः च इति । मुद्गेन सारं, क्वथितं, पायसं, सूपं, तण्डुलेन सह योजयित्वा दोसां, पौलिं, पोङ्गल्, पेसरट्टु, खिचडि, दालं च निर्मान्ति । कर्णाटके, तमिळुनाडुराज्ये च मार्गशीर्षमासे (धनुर्मासे) विष्णोः आराधनार्थं मुद्गेन एव (तण्डुलान्, गुडं, घृतं च योजयित्वा) “पोङ्गल्”नामकं (हुग्गि) खाद्यविशेषं निर्मान्ति ।

आयुर्वेदस्य अनुसारम् अस्य मुद्गस्य स्वभावः

[सम्पादयतु]

यद्यपि किञ्चित् प्रमाणेन कषायरुचियुक्तः तथापि मुद्गः मधुरः एव । पचनार्थं लघुः, शीतः च । नेत्रयोः हितकारकः । मूत्रसम्बद्धरोगेषु, कीटबाधासु पथ्यः । ज्वरस्य अपि हितकरः मुद्गः । रक्तमुद्गः पचनार्थम् अत्यन्तं लघुः । कृष्णमुद्गः वसन्त-ऋतौ वर्धते, हरितमुद्गः च शरदृतौ ।

“नात्यर्थं वातलास्तेषु मुद्गा दृष्टिप्रसादनाः ।
प्रधाना हरितास्त्र वन्या मुद्गसमाः स्मृताः ॥“ (सु.सू.४६-२९)
“कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः ।
विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ॥“ (च.सू.२७-२३)
१. पक्वकरणावसरे किञ्चित् प्रमाणेन तैलं योजितं चेत् मुद्गे विद्यमानः वातदोषः निवारितः भवति ।
२. सदापथ्यः इत्यनेन नित्योपयोगी ।
३. कृष्णमुद्गः अधिकप्रमाणेन मधुरः, त्रिदोषहरः, शरीरस्य बलवर्धकः, बुभुक्षाकारकः च ।
४. हरितमुद्गः रक्तस्य मूत्रस्य च समस्यायाः परिहारकः ।
५. ज्वरपीडितानां, कण्ठरोगिणां, मूत्ररोगिणां, नेत्रदोषयुक्तानां, व्रणितानां च अमृतसदृशः आहारः मुद्गः ।

“मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्” (अ.हृद.सू. ६-३३)

६. मुद्गसूपे सैन्धवलवणं योज्यते चेत् सर्वेषां रोगिणाम् अपि हितकरः ।
७. मुद्गधान्यं मुद्गदालस्य अपेक्षया जडः इत्यस्मात् रोगिणां कृते दालः एव हितकरः ।
८. मुद्गः कफं पित्तं च न्यूनीकरोति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=मुद्गः&oldid=482805" इत्यस्माद् प्रतिप्राप्तम्